________________
उद्देशक : ४, मूलं - ११४, [भा. ५१८५ ]
एवंविधमस्मदीयं सूत्रं भवति । किञ्च
[ भा. ५१८६ ] जे सुत्तगुणा भणिया, तव्विवरीयाइं गाहए पुव्विं । नित्थिन्नकारणाणं, सच्चेव विगिंचणे जयणा ॥
- ये सूत्रस्य गुणाः “निद्दोसं सारवंतं च, हेउजुत्तमलंकियं ।" इत्यादयः पीठिकायां भणिताः 'तद्विपरीतानि' तद्गुणविकलानि सूत्राणि पूर्वमेव तं ग्राहयेत् । ततः 'निस्तीर्णकारणानां' समाप्तविवक्षितप्रयोजनानां सैव 'विवेचने' परिष्ठापने यतना भवति ॥ एवं व्यवहारेण परिष्ठापनविधिरुक्तः । यस्तु व्यवहारेण न शक्यते परित्यक्तुं तस्यायं विधिः
[भा. ५१८७ ] कावालिए सरक्खे, तच्चन्निय वसभ लिंगरूवेणं । वडुंबगपव्वइए, कायव्व विहीए वोसिरणं ॥
वृ- गीतार्था अविकारिणो वृषभा उच्यन्ते, ते कापालिक सरस्क- तच्चनिकवेषग्रहणेन तं परिष्ठापयन्ति । यः वडुम्बकः- बहुस्वजनः प्रव्राजितस्तस्यैवंविधेन विधिना व्युत्सर्जनं कर्तव्यम् ॥ एतदेव भावयति
[भा. ५१८८] निववल्लह बहुपक्खम्मि वा वि तरुणविसहामिणं बिंति । भिन्नकहा ओभट्ठा, न घडइ इह वच्च परतित्थि ।
१६५
वृ- यो नृपस्य वल्लभो बहुपाक्षिको वा प्रभूतस्वजन-मित्रवर्गस्तयोरयं परिष्ठापने विधिः यदा नपुंसको रहसि तरुणभिक्षुमवभाषते भिन्नकथां वा करोति तदा ते तरुणवृऋषभा इदं ब्रुवते"इह यतीनां मध्ये ईध्शं न घटते, यदि त्वमीशं कर्तुकामोऽसि तत उन्निष्क्रमणं कुरु परतीर्थिकेषु वा व्रज ॥ ततो यदि ब्रूयात्
[ भा. ५१८९] तुमए समगं आमं, ति निग्गओ भिक्खमाइलक्खेणं ।
नासति भिक्खुगमादिसु, छोढूण ततो वि हि पलाति ॥
वृ- ‘त्वया सममहं परतीर्थिकेषु गमिष्यामि' एवमुक्तः स तरुणवृषभ आममिति भणित्वा निर्गच्छति । निर्गतश्च भिक्षुकादिवेषेण गत्वा तेषु भिक्षुकादिषु प्रक्षिप्य नश्यति । यः पुनस्तत्र नीतोऽपि तं साधुंन मुञ्चति तं रात्रौ सुप्तं मत्वा 'तत एव' भिक्षुकादिस्थानात् पलायते, भिक्षादिलक्ष्येण वा निर्गतो नश्यति ॥ तओ नो कप्पंति
मू. (११५) एवं मुंडावित्तए सिक्खावित्तए उवट्ठावित्तए संभुंजित्तए संवासित्तए तंजहापंडए वाइए कीवे
वृ-यथैते पण्डकादयस्त्रयः प्रव्राजयितुं न कल्पन्ते एवमेत एव कथञ्चित् छलितेन प्रव्राजिता अपि सन्तः ‘मुण्डापयितुं' शिरोलोचेन लुञ्चितुंन कल्पन्ते । एवं 'शिक्षापयितुं प्रत्युपेक्षणादिसामाचारीं ग्राहयितुम् 'उपस्थापयितुं' महाव्रतेषु व्यवस्थापयितुं 'सम्भोक्तुम्' एकमण्डलीसमुद्देशादिना व्यवहारयितुं ‘संवासयितुम्’ आत्मसमीपे आसयितुमिति सूत्रार्थः ॥ अथ भाष्यम्
[भा. ५१९०] पव्वाविओ सिय त्ति उ, सेसं पनगं अनायरणजोग्गो । अहवा समायरंते, पुरिमपदऽ निवारिता दोसा ॥
वृ-स पण्डकः 'स्यात्' कदाचिदनाभोगादिना प्रव्राजितो भवेत्, इतिशब्दः स्वरूपपरामर्शार्थः । एवं प्रव्राजितोऽपि यदि पश्चाद् ज्ञातस्तदा "सेसं पणगं" ति विभक्तिव्यत्ययात् 'शेषपञ्चकस्य'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org