________________
११६
बृहत्कल्प-छेदसूत्रम् - ३-४/१११
चउरो य अनुग्धाया, पच्छाकम्मम्मि ते लहुगा ।।
वृ-‘एष एव’ सारूपिकादिकः क्रमो नियमात् स्त्रीणामपि आनुपूर्व्या वक्तव्यो भवति । तद्यथाप्रथमो ब्रवीति - सिद्धपुत्रिकया हस्तकर्म कार्यताम्, एवं द्वितीयः - गृहस्थपुराणिकया, तृतीयःमिथ्याष्टिगृहस्थया, चतुर्थ-परतीर्थिक्या । चतुर्णामप्येवंभणतां स्त्रीस्पर्शकारापणप्रत्ययाश्चत्वारः 'अनुद्धाताः ' गुरुका मासास्तथैव तपः - कालविशेषिताः प्रायश्चित्तम् । पश्चात्कर्मणि तु 'त एव' चत्वारो मासा लघुकाः ॥ तदेवं गतं 'वसतेर्दोषेण' इति द्वारम् । दृष्ट्वा स्मृत्वा वा पूर्वभुक्तानि' इति द्वारद्वयं तु यथा निशीथे प्रथमोद्देशके प्रथमसूत्रे व्याख्यातं तथैवात्रापि मन्तव्यम् । तदेवमुक्तं हस्तकर्म । अथ मैथुनमभिधित्सुराह
[ भा. ४९४१] मेहुन्नं पि य तिविहं, दिव्वं मानुस्सयं तिरिक्खं च । ठाणाई मोत्तूणं, पडिसेवणि सोधि स च्चेव ॥
वृ-मैथुनमपि त्रिविधम् । तद्यथा- दिव्यं मानुष्यं तैरश्चं च । अत्र च येषु स्तानेष्वेतानि दिव्यादीनि मैथुनानि सम्भवन्ति तानि मुक्त्वा स्थातव्यम् । यदि तेषु तिष्ठति तानि वा दिव्यदीनि प्रतिसेवते तदा तदेव स्थानप्रायश्चित्तं सैव च प्रतिसेवनायां शोधिर्या प्रथमोद्देशके सागारिकसूत्रेऽभिहिता अथ द्वितीयपदं सप्रायश्चित्तमुच्यते । तत्र परः प्रेरयति
।
[ भा. ४९४२ ] मूलुत्तरसेवासुं, अवरपदम्मिं निसिज्झती सोधी । मेहुने पुन तिविधे, सोधी अववायतो किन्नु ।
वृ- 'मूलगुणोत्तरगुणप्रतिसेवनासु' प्राणातिपात- पिण्डविशोधिप्रभृतिविषयासु 'अपरपदे' उत्सर्गापेक्षया अन्यस्मिन्नपवादाख्ये स्थाने 'शोधि' प्रायश्चित्तं तावन्निषिध्यते, न दीयत इत्यर्थः, मैथुने पुनस्त्रिविधेऽपि किमर्थमपवादतः प्रतिसेव्यमाने शोधिरभिधास्यते ? ।। सूरिराह-द्विविधा प्रतिसेवना- दर्पिका कल्पिका च अनयोः प्ररूपणार्थं तावदिदमाह
[ भा. ४९४३ ] राग-द्दोसाणुगया, तु दप्पिया कप्पिया तु तदभावा । आराधना उ कप्पे, विराधना होति दप्पेणं ।।
वृ-राग-द्वेषाभ्याम् अनुगता- सहिता या प्रतिसेवना स दर्पिका, या तु कल्पिका सा 'तदभावात् ' राग-द्वेषाभावाद् भवति । शिष्यः प्राह-दर्पेण कल्पेन वाऽऽसेविते किं भवति ? इति उच्यतेकल्पेनासेविते ज्ञानादीनामाराधना भवति, दर्पेण प्रतिसेविते तेषामेव विराधना भवति ।। आहयदि राग-द्वेषविरहिता कल्पिका भवति तर्हि मैथुने कल्पिकाया अभावः प्राप्नोति । उच्यतेप्राप्नोतु नाम, का नो हानि: ? । तथा चाह
[भा.४९४४] कामं सव्वपदेसु वि, उस्सग्ग-ऽववादधम्मता जुत्ता
मोत्तुं मेहुणभावं, न विना सो राग-दोसेहिं ।।
वृ- 'कामम्' अनुमतमिदमस्माकम् 'सर्वेष्वपि पदेषु' मूलोत्तरगुणरूपेषु 'उत्सर्गा ऽपवादधर्मता युक्ता' उत्सर्ग-प्रतिषेधः अपवादः - अनुज्ञा तद्धर्मता तल्लक्षणता सर्वेष्वपि पदेषु युज्यते; तथापि मुक्त्वा 'मैथुनभावम्' अब्रह्मासेवनम्, तत्र उत्सर्गधर्मतैव घटते नापवादधर्मता । किमर्थम् ? इत्याह- असौ मैथुनभावो राग-द्वेषाभ्यां विना न भवति, अतो द्वितीयपदेऽपि न तत्राप्रायश्चित्तीति हृदयम् । अयं पुनरस्ति विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org