________________
उद्देशक ः ४, मूलं-१११, [भा. ४९३५]
११५ भणन्ति तेन त्रयाणामपि मासगुरुकम् । स्थविरस्यापि पितुः पुत्रेण संह सज्ञातग्रामं गच्छतो मासगुरुकम् ॥अथामूनेव षष्ठादिसाधूनामुपदेशान् विवृणोति[भा.४९३६] संघाडगादिकहणे, जंकत तंकत इदानि पञ्चक्खा।
अविसुद्धो दुट्ठवणो, न समति किरिया से कायव्वा ॥ वृ-सङ्घाटिकस्य आदिशब्दाद् अन्यस्य वा 'हस्तकर्म कृतं मया' इत्येवं कथने कृते सि स ब्रूयात्-यत् कृतं तत् कृतमेव, इदानीं भक्तं प्रतयाचक्ष्व?, किं ते भ्रष्टप्रतिज्ञस्य जीवितेन? इति। सप्तमः प्राह-'अविशुद्धो दुष्टव्रणः' रप्फकादिकः क्रियां विनान शाम्यति अतः क्रिया "से" तस्य कर्तव्या, एवं भवताऽप्यस्य मोहोदयव्रणस्य निर्विकृतिका-ऽवमौदरिकादिका क्रिया विधेया येनोपशमो भवति ।। [भा.४९३७] पडिलाभणा उसडी, कर सीसे वंद ऊरु दोच्चंगे।
सूलादिरुयोमज्जण, ओअट्टण सडिमानेमो॥ वृ-अष्टमः प्राह-“सड्डी" श्राविका सा प्रतिलाभनां करोति, प्रतिलाभयन्त्यां चोर्वो पात्रके स्थिते यथाभावेनाभ्युपेत्य वा वालिते ऊरुमध्येन द्वितीयाङ्गादिकमवगलति, ततः सा श्राद्धिका करेण स्पृशति, “सीसे वंद"त्ति शीर्षेण वा वन्दमाना पादौ स्पृशेत, ततः स्त्रीस्पर्शेन बीजनिसर्गो भवेत् । नवमः प्राह-"सूलाइरुय"त्ति शूलम् आदिग्रहणात् गण्डमन्यतरद्वा तदनुरूपंरुग्जातमकस्मादुत्पाद्यते ततः श्राद्धिका आनीयते, सा तत् शूलादिकमपमार्जयति “ओअट्टण"त्ति गाढ़तरमुद्वर्त्तयति एवं बीजनिसर्गो भवेत् ततः श्राद्धिकामानयामः ।। [भा.४९३८] सन्दायपल्लि नेहिं (णं), मेहुणि खुड्डत निग्गमोवसमो।
अविधितिगिच्छा एसा, आयरिकहणे विधिक्कारो॥ वृ-यस्य मोहोदयः समुत्पन्नस्तस्य पितरं प्रति दशमो भणति-सज्ञातकपल्लिं' सज्ञातकग्राम “णं" इति एनं आत्मीयं पुत्रं नय, तत्र मैथुनिका-मातुलदुहिता तया सह “खुटुंत"त्ति सोपहासवचनैर्मिनकथाभिपरस्परंहस्तसङ्घर्षेण चक्रीडतोबीजनिर्गमो भवेत्, ततश्चमोहोपशमो भवति । एषा सर्वाऽप्यविधिचिकित्सा भणिता । यस्तु ब्रवीति-आचार्याणामेतदालोचय, ततस्ते यां चिकित्सामुपदिशन्ति सा कर्तव्या । एतदेकादशस्य साधोर्विधिकथनमुच्यते ॥
अव प्रकारान्तरमाह[भा.४९३९] सारुवि गिहत्य (मिच्छे), परतित्थिनपुंसगे य सूयणया।
चउरो य हुंति लहुगा, पच्छाकम्मम्मितेचेव॥ वृ-कश्चिद्भूयात्-'सारूपिकः सिद्ध पुत्रः तद्रूपोयो नपुंसकस्तेन हस्तकर्मकार्यताम्। द्वितीयः प्राह-गृहस्थपुराणनपुंसकेन । तृतीयो भणति-मिथ्याष्टिनपुंसकेन । चतुर्थो ब्रवीतिपरतीर्थिकनपुंसकेन । एतेषां चतुर्णामपि “सूयणय"त्ति हस्तकर्मकरणे सूचना प्रेरणांकुर्वाणानां चत्वारो लघवस्तपः-कालविशेषिता भवन्ति । तत्र प्रथम द्वाभ्यामपि लघवः, द्वितीये तपसा लघवः, तृतीये कालने लघवः, चतुर्थे द्वाभ्यामपि गुरव इति । अथ ते हस्तकर्म कृत्वा पश्चात्कर्म कुर्वन्ति, उदकेन हस्तौ धावन्तीत्यर्थः, तत्रापि 'त एव' चतुर्लघवः ।। [भा.४९४०] एसेव कमो नियमा, इत्थीसुवि होइ आनुपुवीए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org