________________
उद्देशक :
: ४, मूलं- १११, भा. ४९४५ ]
[भा. ४९४५ ]
संजमजीवितहेउं, कुसलेनालंबनेन वऽनेणं । भयमाणे तु अकिच्चं, हानी वड्डी व पच्छित्ते ॥
वृ- 'संयमजीवितहेतोः' चिरकालं संयमजीवितेन जीविष्यामि' इति बुध्या 'कुशलेन वा' तीर्थाव्यवच्छित्त्यादिलक्षणेनान्येनाप्यालम्बनेन 'अकृत्यम्' अब्रह्म 'भजमानस्य' आसेवमानस्य प्रायश्चित्ते हानिर्वा वृद्धिर्वा वक्ष्यमाणनीत्या भवति ॥
आह-मैथुने कल्पिका सर्वथैव न भवति ? इति अत आह
[ भा. ४९४६ ] गीयत्थो जतनाए, कडजोगी कारणम्मि निद्दोसो । एगेसिंगीत कडो, अरत्तदुट्ठो तु जतनाए ॥
वृ-गीतार्थ 'यतनया' अल्पतरापराधस्थानप्रतिसेवारूपया 'कृतयोगी' तपः कर्मणि कृताभ्यासः 'कारणे ' ज्ञानादौ सेवते, एष प्रथमो भङ्गः, अत्र च प्रतिसेवमानः कल्पिकप्रतिसेवावानिति कृत्वा निर्दोषः । गीतार्थो यतनया कृतयोगी निष्कारणे, एष द्वितीयो भङ्गः, अत्र सदोषः । एवं चतुर्णां पदानां षोडश भङ्गाः कर्तव्याः । एकेषां पुनराचार्याणामिह पञ्च पदानि भवन्ति - गीतार्थ कृतयोगी अरक्तो अद्विष्टो यतनया सेवते, एष प्रथमो भङ्गः; गीतार्थः कृतयोगी अरक्तोऽद्विष्टोऽयतनया, एष द्वितीयो भङ्गः; एवं पञ्चभिः पदैर्द्वात्रिंशद् भङ्गा भवन्ति । अत्रापि प्रथमभङ्गे कल्पिका प्रतिसेवा मन्तव्या न शेषेषु । आह-यदि तत्र कल्पिका तर्हि निर्दोष एवासौ, उच्यते
[भा. ४९४७] जति सव्वसो अभावो, रागादीणं हविज्ज निद्दोसो । तणाजुतेसु तेसु तु, अप्पतरं होति पच्छित्तं ॥
वृ-यदि 'सर्वशः ' सर्वप्रकारेणैव रागादीनामभावो मैथुने भवेत् ततो भवेन्निर्दोषः, तच्च नास्ति, अतो न तत्र सर्वथा निर्दोषः, परं यतनायुतेषु 'तेषु' गीतार्थादिविशेषणविशिष्टेषु साधुष्वल्पतरं प्रायश्चित्तं भवति ।। अथ यदुक्तम्- "हानिर्वृद्धिर्वा प्रायश्चित्ते भवति" तत्र हानिं तावद् विवरीषुराह[भा. ४९४८] कुलवंसम्मि पहीणे, रज्जं अकुमारगं परे पेल्ले । तं कीरतु पक्खेवो, एत्थ य वुद्धीए पाधन्नं ॥
वृ- कश्चिद् नृपतिरनपत्यः स मन्त्रिणा प्रोक्तः यूयमपुत्रिणस्ततः कुलवंशे प्रक्षीणे राज्यमकुमारकं मत्वा परे राजानः प्रेरयेयुः ततः क्रियतामपरपुरुषप्रक्षेपः, स चोपायेन तथा कर्तव्यः यथा लोके अपयशः प्रवादो न समुच्छलति कुमारश्चोत्पद्यते, 'अत्र च ' उफायनिरूपणे बुद्धेः प्राधान्यम्, तयैवासौ सम्यक परिज्ञायते नान्यथेति भावः ॥ इदमेव सविशेषमाह -
११७
[भा.४९४९] सामत्थ निव अपुत्ते, सचिव मुनी धम्मलक्ख वेसनता । अणहबियतरुणरोधो, एगेसिं पडिमदायणता ॥
वृ- 'अपुत्रे' अपुत्रस्य नृपस्य सचिवेन सह “सामत्थणं” पर्यालोचनम्, यथा-कथं नाम कुमारः सम्भविता ? । ततो मन्त्रिणा भणितम्-यथा परक्षेत्रेऽपरेण बीजमुप्तं क्षेत्रस्वामिन आभाव्यं भवति एवं तवान्तःपुरक्षेत्रेऽन्येनापि बीजं निसृष्टं तवैव पुत्रो भवति । राज्ञा प्रतिपन्नं तद्वचनम्। भूयोऽप्यमात्यः प्राह-ये मुनयोऽयशःप्रवादाल्लज्जन्ते ते 'धर्मलक्ष्येण' धर्मकथाकारापणव्याजेन यद्वा “धम्मलक्खे”ति 'राजा सान्तःपुरः श्रावको गृहेऽर्हतांप्रतिमाः शुश्रूषते ताः साधवो वन्दितुमागच्छत' इत्येवं धर्मव्याजेन "वेसनय” त्ति प्रवेशनीयाः । एवममात्यवचनं प्रतिपद्य राज्ञा तथैव कृतम् । ततो राजगृहं प्रविष्टेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org