________________
बृहत्कल्प-छेदसूत्रम् -३-३/१०३ विप्पणसिजा से य अनुगवेसियव्वे, सिया से अ अनुगवेस्समाणे लभेजा तस्सेव पडिदायव्वे, सिया से अ अनुगवेस्समाणे नो लभिजा एवं से कप्पइ दोचं पि उग्गहं अनुनवित्ता परिहारं परिहरित्तए। [भा.४६१५] दोण्हेगयरं नटुं, गवेसियं पुव्वसामिणो देंति।
अपमादट्ठा अहिए, हिए य सुत्तस्स आरंभो ॥ वृ-'द्वयोः' प्रातिहारिक-सागारिकसत्कयोः परिशाट्यपरिशाटिनोर्वा संस्तारकयोरेकतरं संस्तारकं नष्टं गवेषयित्वा पूर्वस्वामिनः प्रयच्छन्ति, अतः 'अहते' अनष्टेऽप्रमादार्थ हृते च गवेषणादिसामाचारीप्रदर्शनार्थमस्य सूत्रस्यारम्भः क्रियते॥अनेन सम्बन्धेनायातस्यास्य व्याख्या'इह' अस्मिन् मौनीन्द्रे प्रवचने स्थितानां 'खलुः' वाक्यालङ्कारे निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिको वा सागारिकसत्को वा शय्यासंस्तारकः 'विप्रणश्येत्' विविधैः प्रकारैः प्रकर्षण रक्ष्यमाणोऽपि नश्येत्, स च 'अनुगवेषयितव्यः' विप्रणाशानन्तरं पृष्ठत एव गवेषयितव्यः । 'स्याद् भवेत्स चानुगवेष्यमाणो लभ्येत तस्यैव संस्तारकस्वामिनः 'प्रतिदातव्यः' प्रत्यर्पणीयः। स्यात् स चानुगवेष्यमाणो नो लभ्येत तत एवं "से" तस्य कल्पते 'द्वितीयमप्यवग्रहमनुज्ञाप्य' एकं तावत् प्रथमं यदा गृहीतस्तदाऽनुज्ञापितः, ततो विप्रनष्टः सन् गवेष्यमाणोऽपि यदा न लब्धस्तदा संस्तारकस्वामिनः कथिते सति यदसावन्यं संस्तारकं ददाति, यद्वा स एव संस्तारकस्वामिना मृग्यमाणो लब्धः ततस्तद्विषयं द्वितीयमवग्रहमनुज्ञाप्य 'परिहारं' धारणापरिभोगलक्षणं 'परिहत्तुं धातूनामनेकार्थत्वात् कर्तुमिति सूत्रार्थः ॥अथ नियुक्तिविस्तरः[भा.४६१६] संथारो नासिहिती, वसहीपालस्स मग्गणा होति ।
सुनाई उ विभासा, जहेव हेट्ठा तहेव इहं॥ वृ-शून्यायां वसती कृतायां संस्तारको नङ्ग्यतीति मत्वा प्रथमत एव वसतिरशून्या कर्तव्या येनासौन नश्यति, अत एवात्र वसतिपालस्य मार्गणा भवति। कथम्? इत्याह-“सुन्नाई इत्यादि, यथैव अधस्तात्' पीठिकायां शय्याकल्पिकद्वारे "सुन्ने बाल गिलाणे" इत्यादिका विभाषा कृता तथैवेहापि मन्तव्या॥स्थानाशून्यार्थं पुनरिदमाह[भा.४६१७] पढमम्मिय चउलहुग, सेसेसुं मासियं तु नाणत्तं ।
दोहि गुरू एक्केणं, चउथपदे दोहि वी लहुगा॥ वृ-'प्रथमे स्थाने' वसतेः शून्यताकरणलक्षणे चतुर्लघुकाः ‘द्वाभ्यां तपः-कालाभ्यां गुरुकाः। 'शेषेषु' बाल-ग्लाना-ऽव्यक्तस्थापनलक्षणेषुत्रिषु लघुमासिकम्।तच्च बालस्थापनेतपसागुरुकम्, ग्लानस्थापने कालेन गुरुकम्, 'चतुर्थपदे' अव्यक्तस्थापनात्मके 'द्वाभ्यामपि' तपः-कालाभ्यां लघुकम् ॥अत्र दोषानुपदर्शयति[भा.४६१८] मिच्छत्त-बडुग-चारण-भडाण मरणं तिरिक्ख-मनुयाणं ।
आएस बाल निक्केयणे य सुन्ने भवे दोसा॥ [भा.४६१९] बलि धम्मकहा किड्डा, पमज्जणाऽऽवरिसणा य पाहुडिया।
खंधार अगनि भंगे, मालवतेना य नाई य॥ वृ-गाथाद्वयं पीठिकायां सविस्तरं व्याख्यातम् । यत एते दोषाअतो वसतिशून्या न कर्तव्या,
Jain Education International
..
For Private & Personal Use Only
..
www.jainelibrary.org