________________
५१
उद्देशकः३, मूलं-१०३, [भा.४६१९] न वा बालो ग्लानोऽव्यक्तो वा वसतिपालः स्थापनीयः॥ [भा.४६२०] संथारविप्पनासो, एवं खुन विज्जतीति चोएति।
सुत्तं होइ य अफलं, अह सफलं उभयहा दोसा॥ वृ-'नोदयति' परः प्रेरयति-एवं 'खुः' अवधारणे सुरक्षिते क्रियमाणे संस्तारकस्य विप्रणाशो न विद्यते, तथा च "सेज्जासंथारए विप्पणसिज्जा" इत्यादिलक्षणं सूत्रमफलं भवति; अथ सूत्रं सफलं मनध्वेततः ‘बालादिदोषरहितो वसतिपालः स्थापनीयः' इति यदुक्तं तदफलं प्राप्नोति; एवमुभयथाऽपि दोषा भवन्ति ।। सूरिराह-यथा द्वयमपि सफलं भवति तथाऽभिधीयते[भा.४६२१] निजंताऽऽनिज्जंता, आयावणनीणितो व हीरेज्जा ।
तेन-ऽगनि-उदगसंभम, बोहिकभयरट्ठउट्ठाणे॥ वृ-प्रत्यर्पणार्थं नीयमानः संस्तारको राजपुरुषैरन्तरा हियेत, “आनिजंतो"त्ति गृहपतिगृहादानीयमानो वा राजपुरुषैर्बलादपहियेत, आतापनम्-आतपे संस्तारकस्य प्रदानं तदर्थं वा बहिर्निष्काशितः केनापिहियेत, स्तेना-ऽग्न्युदकसम्भ्रमेषुवा बोधिकभयेवा राष्ट्रस्य-देशस्य यद उत्थानम्-उद्वसीभवनं तत्र ह्रियेत॥ [भा.४६२२] पडिसेहेन व लद्धो, पडिलेहणमादिविरहिते गहणं।
अनुसठ्ठी धम्मकहा, वल्लभो वा निमित्तेणं॥ वृ-प्रतिषेधो नाम-संस्तारको माठमाणस्तेन स्वामिना 'नाहं प्रयच्छामि' इति प्रतिषिद्धः; ततः सकेनचिद् भद्रकेणानुशिष्टः-किंन प्रयच्छसि? इति;सपाह-विप्रणाशभयात; इतरोब्रवीतिनामीषां हस्ताद् विप्रणश्यति; एवंविधेन प्रतिषेधेन वा लब्धः स प्रयलेन रक्ष्यमाणोऽपि प्रत्युपेक्षणानिमित्तं बहिर्नीतः, साधुश्च विस्मृतरजोहरणार्थं मध्ये प्रविष्टः, स च 'उत्कृष्टोऽयम्' इति कृत्वा विरहितं मत्वा केनापि गृहीतः, आदिग्रहणाद् उपाश्रयस्यान्तरपि राजवल्लभेन दृष्ट्वा बलामोटिकया ग्रहणं कृतम् । एवं विप्रणष्टे सति येन हृतस्तस्य पार्वाद् मार्गयितव्यः । अथ मार्गितोऽपि न ददाति ततोऽनुशिष्टि क्रियते।तथाप्यप्रयच्छतिधर्मकथा कर्तव्या। एवमप्यददाने यो द्रमकस्तस्यम भापनं क्रियते । यस्तु राजवल्लभः स निमित्तेनावर्तनीयः॥
कथं पुनरनुशिष्टि क्रियते? इत्युच्यते[भा.४६२३] दिनो भवव्विहेनेव एस नारिहसि ने न दाउंजे।
अन्ने वि ताव देयो, दे जाणमजाणयाऽऽनीयं ॥ वृ-य एष भवता संस्तारको गृहीतः स भवद्विधेनैव विशिष्टपुरुषेण दत्तः, ततः “ने" असमाकं न नार्हसि दातुम्, अन्योऽपि तावद्भवता संस्तारको देयः, किं पुनर्योऽन्यदत्तः?, ततो जानताऽजानता वा आनीतमममस्माकं प्रयच्छ ॥ एवमनुशिष्टया यदि न प्रयच्छति ततोऽयं विधिः[भा.४६२४] मंत निमित्तं पुन रायवल्लभे दमग भेसणमदेंते।
धम्मकहा पुन दोसु वि, जति अवराहो दुहा वऽधिओ॥ वृ-राजवल्लभेऽददतिमन्त्री निमित्तं वा प्रयोक्तव्यम् ।द्रमकस्य तुभेषणं कर्त्तव्यम् । धर्मकथा पुनर्द्वयोरपि द्रमक राजवल्लभयोः प्रयुज्यते, यथा-यतयः-साधवस्तेषामुपरणापहारादिरपराधः 'द्विधाऽपि' इहलोके परलोके चाहितो भवति ॥ इदमेव व्यनक्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org