________________
५२
बृहत्कल्प-छेदसूत्रम् - ३-३/१०३
[ भा. ४६२५ ] अन्नं पि ताव तेनं, इह परलोकेऽपहारिणामहियं । परओ जायितलद्धं किं पुन मन्नुप्पहरणेसु ॥
वृ- 'अन्यदपि' प्राकृतजनविषयमपि यत् स्तैन्यं तत् तावदिह परलोके चाऽपहारिणामहितं भवति, किं पुनः परतो याचितं यद् लब्धं तदपहियमाणं 'मन्युप्रहरणेषु' साधुषु ? किमुक्तं भवति ? - मन्यु- क्रोधस्तप्रहरणाः तदायुधा एव ऋषयः, ततस्तेषां हियमाणमिह - परलोकयोः सुतरामहितं भवति ॥ एवमप्युक्तो यदि न दद्यात् ततः
[ भा. ४६२६]
खंते व भूणए वा, भोइग-जामाउगे असइ साहे । सिट्ठम्मि जं कुणइ सो, मग्गण दानं च ववहारे ॥
वृ- " खंते "त्ति पिता तेन गृहीते पुत्रस्य निवेद्यते । भ्रूणकः पुत्रस्तेन गृहीते पिता प्रज्ञाप्यते । यद्वा या तस्य 'भोजिका' भार्या यो वा जामाता ताभ्यामसौ भाणयितव्यः । “असइ साहे "त्ति सर्वथाऽपि यदि न ददाति तदा महत्तरादीनां निवेद्यते । तस्य 'शिष्टे' कथिते यदसौ महत्तरादि करोति तत् प्रमाणम् । एवं प्रणष्टस्य संस्तारकस्य मार्गणम् । एवमप्यलभ्यमाने प्रान्तस्य संस्तारकस्वामिनः "दानं" ति वेतनं दीयते, व्यवहारो वा करणं प्रविश्य कर्त्तव्य इति सङ्ग्रहगाथासमासार्थः । अथैनामेव विवृणोति
[भा. ४६२७] भूणगगहिए खंतं, भणाइ खंतगहिते य से पुत्तं । असति त्ति न देमाणे, कुणति दवावेति व न वा उ
वृ- भ्रूणकेन गृहीतं 'खन्तं' पितरं 'भणति' प्रज्ञापति । खन्तेन तु गृहीते "से" तस्य पुत्रं भणति । उपलक्षणमिदम्, तेन भोजिकादिनाऽपि भाणयति । " असइ "त्ति एतद् ग्रहणपदम् अतो व्याचष्टे - "न देमाणें "त्ति एवमप्यददाने भोजिकादेर्निवेद्यते । ततो यदसौ बन्धनरोधनादि करोति दापयति वा न वा तत् प्रमाणम् ॥
[भा. ४६२८]
भोइय उत्तरउत्तर, नेयव्वं जाव पच्छिमो राया ।
दानं विसजणं वा, दिट्ठमदिट्ठे इमं होइ ॥
वृ- प्रथमं भोगिकस्य निवेद्यते । यद्यसौ न दापयति ततो यस्तत्र देशारक्षकः स ज्ञाप्यते । एवमुत्तरोत्तरं तावद् नेतव्यम् यावदपश्चिमो राजा । ततो “दानं" ति भोजिकादयश्चौरसकाशाद् गृहीत्वा साधूनां संस्तारकं दद्युः । “विसज्जणं व"त्ति यद्वा ते भोगिकादयो भणेयुः गच्छत यूयम्, वयं संस्तारकं संस्तारकस्वामिनः समर्पयिष्याम इति । एष विधिर्दृष्टे संस्तारकस्तेनके मन्तव्यः । अष्टे 'इदं' वक्ष्यमाणं भवति ॥ अथैनामेव गाथां व्याचष्टे
[भा. ४६२९] खंताइसिट्ठऽ दिंते, महतर किच्चकर भोइए वा वि । देसारक्खियऽमच्चे, करणनिवे मा गुरू दंडो ॥
वृ- “खंत ''त्ति पिता तदादीनामनन्तरोक्तनीत्या शिष्टे कथितेऽप्यददाने 'महत्तरस्य' ग्रामप्रधानपुरुषस्य कथयन्ति । 'कृत्यकरः ' ग्रामकृत्ये नियुक्तः 'भोगिकः' ग्रामस्वामी तयोर्वा कथयन्ति । 'देशारक्षकः' महाबलाधिकृतः 'अमात्यः' राजमन्त्री तयोर्वा यथाक्रमं निवेद्यते । तथाऽप्यददाने करणेऽपि निवेदयन्ति । नृपस्य तु न निवेद्यते, 'गुरु' गरीयान् सर्वस्वहरणादिको दण्डो भवेदिति कृत्वा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org