________________
९०
बृहत्कल्प - छेदसूत्रम् - ३-३/१०९
चैका वसति संयतानां संयतीनां संयतीनां च पृथग् भवति । अथोभयेषामपि योग्या वसति प्रत्येकं नावाप्यते तत एकत्रापि वस्तव्यम्, तत्र यतनामाह
[भा. ४८१४]
एगत्य वसंताणं, पिहद्दुवाराऽसतीय सयकरणं । मज्झेण कडग चिलिमिणि, तेसुभयो थेर खुड्डीतो ॥
वृ- संयतानां संयतीनां च एकत्र वसतौ वसतामियं यतना-यदि चतुःशलादिकं पृथग्द्वारं तद् गृहं तदा तत्रान्तरे कटकं चिलिमिलीं वा दत्त्वा तिष्ठन्ति । पृथग्द्वारस्याभावे “सयकरणं" ति स्वयमेव कुड्यं छित्त्वा द्वितीयं द्वारं कर्त्तव्यम् । गृहमध्ये च कुड्याभावे कटश्चिलिमिलिका वा दातव्या । 'तयोश्च' कटस्य चिलिमिलिकाया वा आसन्नयोरुभयोः पार्श्वयोर्मध्यादेकस्मिन् स्थविराः साधवो द्वितीये च क्षुल्लिकाः संयत्यो भवन्ति । एतच्चाग्रे व्यक्तीकरिष्यते ॥
अथ "तं चेव एगदारे" त्ति पदं व्याख्याति
[भा. ४८१५] दारदुयस्स तु असती, मज्झे दारस्स कडग पुत्ती वा । निक्खम पवेसवेला, ससद्द पिंडेण सज्झातो ॥
वृ-यदि द्वारद्वयं न भवति स्वयं च पृथग् द्वारं कर्तुं न लभ्यते ततस्तस्यैकद्वारस्य मध्ये कटकं 'पोतिकां वा' चिलिमिलीं दत्त्वा द्विधा विभजनं विधेयम् । तत्रार्द्धेन साधवो निर्गच्छन्ति अर्द्धेन संयत्य इति । अथ सङ्कीर्णा सा वसतिर्न वा विभक्तुं लभ्यते ततः परस्परं निर्गमप्रवेशवेलां वर्जयन्ति, यस्यां वेलायां संयता निर्गच्छन्ति तस्या न संयत्य इति । निर्गच्छन्तश्च शब्दं कुर्वन्ति, पिण्डेन च स्वाध्यायं कुर्वन्ति, शृङ्गारकथां न कुर्वन्ति, न वा पठन्ति ॥
अथ "स्वपनं च यतनया" इति पदं व्याचष्टे
[ भा. ४८१६] अंतम्मि व मज्झम्मि व, तरुणी तरुणा य सव्वबाहिरतो । मज्झे मज्झिम थेरी, खुड्डी खुड्डा य थेरा य ।।
वृ- यास्तरुण्यस्ता अन्ते वा मध्ये वा भवन्ति, तरुणास्तु सर्वबाह्यतः कर्त्तव्याः, ततो मध्ये मध्यमाः स्थविराः क्षुल्लिकाश्च साध्व्यः, ततः क्षुल्लकाः स्थविराः चशब्दाद् मध्यमास्तरुणाश्च भवन्तीत्यक्षरार्थः । भावार्थस्तु वृद्धविवरणादवगन्तव्यः । तच्चेदम्-तरुणीओ अंते वा ठविनंति मझे वा । तत्थ अंते ताव भन्नइ - एगम्मि अंते तरुणीओ ठविनंति, तासिं आरतो मज्झिमातो, तासिं आरतो थेरीओ, तासिं आरतो खुड्डीतो, खुड्डीणं आरतो थेरा, थेराणं आरतो खुड्डा, तेसिं बाहिं मज्झिमा, तेसिं परिखेवेण तरुणा, एसा रत्तिं वसंताणं जयण त्ति ॥ अथ मात्रकपदं व्याख्याति[भा. ४८१७] पत्तेय समण दिक्खिय, पुरिसा इत्थी य सव्वे एकत्था । पच्छन्न कडग चिलिमिणि, मज्झे वसभा य मत्तेणं ॥
वृ- यत्रोपाश्रयाणामल्पतया राजकीय आदेशो भवेत् ये केचित् पाखण्डिनस्ते सर्वेऽप्येकत्रावतिष्ठन्तामिति । तत्र यदि 'प्रत्येकाः ' स्त्रवर्जिताः 'श्रमणाः' निर्ग्रन्थ- शाक्यादयो दीक्षितपुरुषाः सर्वेऽप्येकस्यां वसतौ स्थिताः याश्च पाखण्डिन्यः स्त्रयस्ता अपि सर्वा एकत्र स्थितास्तत इयं यतना-यः प्रच्छन्नः प्रदेशस्तत्र साधुभिः साध्वीभिश्च स्थातव्यम्, प्रच्छन्नस्याभावे मध्ये कटकं चिलिमिलिकां वा वृषभाः कुर्वन्ति, कायिकाभूमेरभावे दिवा रात्रौ च मात्रकेण वृषभा यतन्ते ॥ [भा. ४८१८] पच्छन्न असति निण्हग, बोडिय भिच्छय असोय सोया य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org