SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ उद्देश : ३, मूलं - १०९, [ भा. ४८०९] ८९ थं भणि-मोहनिकरणं, कडजोगे वा भवे करणं ॥ वृ- अचेलतालक्षणं जिनलिङ्गमप्रतिहतम्, एवंस्थितानां न कोऽप्युपद्रवं करोतीति भावः । अथवा ते स्तेना अपावृतान् दृष्टवा स्वयमेव एवंस्थितानां न कोऽप्युपद्रवं करोतीति वा तेषां स्तम्भन - मोहने कुर्वन्ति । यो वा 'कृतयोगः' सहप्रयोती तेन तादृशे आकम्पे गच्छसंरक्षणार्थं ‘करणं' शिक्षणं तेषां विधेयम् ॥ गतं संवर्त्तद्वारम् । अथ नगररोधकद्वारमाहसंवट्टनिग्गयाणं, नियट्टणा अट्ठ रोह जयणाए । वसही - भत्तट्ठणया, थंडिल्लविगिंचणा भिक्खे || [भा. ४८१० ] " वृ- ये मासकल्पप्रायोग्यात् क्षेत्रान्निर्गत्य संवर्त्ते स्थितास्ते संवर्त्तनिर्गता उच्यन्ते तेषां तत्र स्थितानामवस्कन्दादिभयेन भूयोऽपि संवर्त्ताद् नगरं प्रति निवर्तना भवति । यद्वा ग्लानादिभिः कारणैः प्रथममेव नगरान्न निर्गतास्ततो नगरे वसतामष्टौ मासान् रोधके यतनया वस्तव्यं भवति । सा च यतना वसति भक्तार्थन स्थण्डिलविवेचन - भैक्षविषया कर्त्तव्या ॥ तत्र वसतियतनां तावदाह[ भा. ४८११] हानी जावेट्ठा, दो दारा कडग चिलिमिणी वसभा । तं चैव एगदारे, मत्तग सुवणं च जयणाए । वृ-रोधके तिष्ठद्भिरष्टौ वसतयः प्रत्युपेक्षणीयाः, तासु प्रत्येकमृतुबद्धे मासं मासमासितव्यम् । अष्टानामलाभे सप्त, एवं हान्या तावद् वक्तव्यं यावत् संयतानां संयतीनां च "एगट्ठ "त्ति एकैव वसतिर्भवति । तत्रैकस्यां वसतौ स्थितानां द्वे द्वारे भवतः, अपान्तराले कटकं चिलिमिलिकां वा वृषभाः कुर्वन्ति । अथ द्वारद्वयं न भवति तत एकद्वारेऽपि तमेव विधिं कुर्वन्ति । कायिकाभूमेश्चाभावे मात्रकेण यतन्ते, यतनया च स्वपनं कुर्वन्तीति नियुक्तिगाथासमासार्थः ॥ अथ भाष्यकार एनामेव विवृणोति [भा. ४८१२] रोहेउ अट्ठ मासे, वासासु सभूमि तो निवा जंति । परबलरुद्धे वि पुरे, हाविंति न मासकप्पं तु ॥ वृ- अष्टौ ऋतुबद्धिकान् मासान् 'रोधयित्वा' रोधं कृत्वा तोत वर्षासु नृपाः 'खभूमिम्' आत्मीयराज्यभुवं गच्छन्ति । साधवश्च रोधके वसन्तः परबलरुद्धेऽपि पुरे मासकल्पं न हापयन्ति किन्तु तत्र प्रथमत एवाष्टौ वसतयोऽष्टौ भिक्षाचर्या प्रत्युपेक्षणीयाः ।। अथाष्टौ न प्राप्यन्ते ततः[भा. ४८१३] भिक्खस्स व वसहीय, व असती सत्तेव चउरो आवेक्का । भाभे एक्केक गस्स नेगा उ संजोगा ।। वृ- भैक्षस्य वा वसतेर्वा असति सप्त प्रत्युपेक्षणीयाः । तदप्राप्तौ षडादिपरिहाण्या चतस्रो यावदेकाऽपि प्रत्युपेक्षणीया । किमुक्तं भवति ? - वसतयो भिक्षाचर्याश्च यद्यष्टौ न प्राप्यन्ते तत एकैकपरिहाण्या यावदेका वसतिरेका भिक्षाचर्या । अत्र चैकैकस्या लाभेऽलाभे चानेके संयोगा भवन्ति । तथाहि - अष्टौ वसतयो अष्टौ भिक्षाचर्या १, अष्टौ वसतयः सप्त भिक्षाचर्या २, अष्टौ वसतयः षड् भिक्षाचर्या ३, एवं यावदष्टौ वसतय एका भिक्षाचर्या, एवमष्टौ भङ्गा भवन्ति, एते च वसतेरष्टकममुञ्चता लब्धाः, सप्तकादिभिरप्येककपर्यन्तैरेवमेवाष्टावष्टौ भङ्गा लभ्यन्ते, सर्वसङ्ख्यया भङ्गकानां चतुःषष्टिरुत्तिष्ठते । चतुःषष्टितमश्च भङ्गक एका वसतिरेका भिक्षाचर्येतिलक्षणः । सा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy