SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८८ बृहत्कल्प-छेदसूत्रम् - ३-३/१०९ असतीय व सभयम्मि व, धरंति अद्धेयरे भुंजे । वृ- संवर्त्तस्यान्तः प्रच्छन्ने प्रदेश भक्तार्थनं कर्त्तव्यम् । अथान्तः प्रच्छन्नं नास्ति ततः संवर्तस्य बहिर्गत्वा समुद्देष्टव्यम् । अथ बहि सभयं ततः 'अन्तः' संवर्त्तस्याभ्यन्तर एव चिलिमिलिकां दत्त्वा भोक्तव्यम् । अथ नास्ति चिलिमलिका समये वा सा न प्रकटीक्रियते ततो अर्द्ध साधवो भाजनानि धारयन्ति, 'इतरे' द्वितीया अर्द्ध कमठकेषु भुञ्जते ॥ [भा. ४८०५ ] काले अपहुचंते, भए व सत्ये व गंतुकामम्मि । कप्पुवरि भायणाई, काउं इक्को उ परिवेसे ॥ वृ- अथ वारकेण भुञ्जानानां कालो न पूर्यते, भये वा त्वरितं भोक्तव्यम्, यो वा संवर्ते सार्थः स गन्तुकामस्ततः कल्पस्योपरि भाजनानि 'कृत्वा' स्थापयित्वा सर्वेऽपि कमठकादिषु भुञ्जते एकश्च तेषां सर्वेवामपि परिवेषयेत् ॥ । [भा. ४८०६ ] पत्तेग बहुगासति, सज्झिलगादेक्कओ गुरू वीसुं । ओमेन कप्पकरणं, अन्नो गुरुनेक्कतो वा वि ॥ वृ- प्रत्येकं यदि सर्वेषां 'वड्डुकानि' कमठकानि न सन्ति ततो ये 'सज्झिल्लकाः ' परस्परं सहोदरा भ्रातरः, आदिशब्दाद् अन्येऽपि ये प्रीतिवशेनैकत्र मिलन्ति ते एकतः समुद्दिशन्ति, गुरवः 'विष्वक्' पृथग् भुञ्जते । यदा सर्वेऽपि भुक्तास्तदा यस्तत्र 'अयमः' लघुस्तेन कमठकानां कल्पकरणं विधेयम्, गुरूणां सत्कं कमढकं तैः सह न मील्यते । अन्यस्तस्य कल्पं प्रयच्छति । अपूर्यमाणेषु च साधूनां गुरोश्च कमढकान्येकतोऽपि कल्पयन्ति ॥ [ भा. ४८०७ ] भाणस्स कप्पकरणं, दहिल्लग मुत्ति कडुयरुक्खे य । तेसऽसति कमढकप्पर, काउमजीवे पदेसे य ।। वृ- भाजनस्य कल्पकरणं दग्धभूमिकायां गोमूत्रभाविते वा भूभागे कटुकवृक्षस्याधस्ताद्वा कर्त्तव्यम् । ‘तेषां’ दग्धादिस्थण्डिलानामभावे कमढकेषु घटादिकपरे वा भाजनस्य कल्पं कृत्वा तत् कल्पपानकमन्यत्र नीत्वा स्थण्डिले परिष्ठापयन्ति, गते वा संवर्त्ते पश्चात् परिमलितजीवप्रदेशेषु परिष्ठाप्यम् । समये वा त्वरमाणाः स्थण्डिलस्य वा अभावे 'धर्माऽधर्मास्तिकायसम्बन्धिषु अजीवप्रदेशेषु परिष्ठापयामः' इति बुद्धिं विधाय अस्थण्डिले परिष्ठापयन्ति ।। गतं भक्तार्थनद्वारम् । वसतिद्वारमाह [भा. ४८०८] गोणादीवाघाते, अलब्भमाणे व बाहि वसमाणा । वातदिसि सावयभए, अवाउडा तेन जग्गणता ॥ वृ- संवर्त्तस्यान्तो निराबाधे परिमलिते प्रदेशे वसन्ति । अथ तत्र गवादिभिरितस्ततस्तडफडायमानैव्यार्घातो यद्वा तत्र प्राशुकप्रदेशो न लभ्यते ततो बहिर्वसन्तो यतो घाटिभयं तं भूभागं वर्जयित्वा वसन्ति । अथ तत्र श्वापदभयं ततो यस्यां दिशि वातस्तां वर्जयन्ति । येन च परचक्रमयेन तत्र संवर्त्ते प्रविष्टद्यस्तस्मिन् प्राप्ते सर्वमुपकरणं गुपिले प्रदेशे स्थापयित्वा स्वयमेकतोऽन्यत्र प्रदेशेऽपावृताः कायोत्सर्गेण तिष्ठन्ति स्तेरक्षणार्थं च वारकेण रजनीं सकलामपि जायते ॥ अथ कस्मादपावृतास्तिष्ठन्ति ? इत्याह [भा. ४८०९] जिनलिंगमप्पडिहयं, अवाउडे वा वि दिस्स वज्रंति । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy