________________
उद्देशक ः३, मूलं-१०९, [भा. ४७९८] अथानागतं न ज्ञातम् सहसैव तन्नगरं रुद्धं पन्थानो व्यवच्छिन्नास्ततो न निर्गच्छेयुरपि॥
अथवा अमीभि कारणैतिऽपि न निर्गता भवेयुः- [भा.४७९९] गेलन रोगि असिवे, रायडुढे तहेव ओमम्मि।
उवही-सरीरतेनग, नाते वि न होति निग्गमनं ।। वृ-'ग्लानः' ज्वरादिपीडितः कश्चिदस्तितत्प्रतिबन्धेन गन्तुंन शक्यते, “रोगि"त्तिदुष्टरोगेण कुष्ठादिना कश्चिदत्यन्तमभिभूतः स परित्युक्तं न पार्यते, बहिर्वा अशिवं राजद्विष्टमवमौदर्यं च विद्यते, उपधिस्तेनाः शरीरस्तेना वा बहिर्गच्छत उपद्रवन्ति, एतैः कारणैतेिऽपिपरचक्रागमने निर्गमनं न भवति॥ [भा.४८००] एएहि य अन्नेहि य, न निग्गया कारणेहि बहुएहिं ।
___ अच्छंति होइ जयणा, संवट्टे नगररोधे य॥ वृ- एतैरन्यैश्च बहुभिः कारणैर्न निर्गता भवेयुः ततस्तत्रैव सन्तिष्ठतां संवर्ते नगररोधके च यतना वक्तव्या । संवतॊ नाम-परचक्रागमनं श्रुत्वा यत् पर्वत-जल-दुर्गादिषु बहूनां ग्रामाणां जनः संवर्तीभूयैकत्र तिष्ठति । नगररोधकः प्रतीतः । तत्र संवर्ते यतनामाह[भा.४८०१] संवट्टम्मि तु जयणा, भिक्खे भत्तट्ठणाए वसहीए।
तम्मि भये संपत्ते, अवाउडा एक्कओ ठंति।। वृ-संवर्ते तिष्ठतां 'भैक्षे' भक्तार्थनायां वसतौ च यतना कर्त्तव्या । तस्मिंश्च' परचक्रलक्षणे भये सम्प्राप्तेऽपावृता एकतस्तिष्ठन्तीति नियुक्तिगाथासमासार्थ ।। साम्प्रतमेनामेव विवृणोति[भा.४८०२] वईयासु व पल्लीसु व, भिक्खं काउं वसंति संवट्टे।
सव्वम्मि रज्जखोभे, तत्थेव य जाणि थंडिल्ले ॥ वृ-संवर्तेऽभिनवसन्निविष्टतया सचित्तः पृथिवीकायो भवतीति कृत्वा भइक्षां न हिण्डन्ते किन्तु पूर्वस्थितासु व्रजिकासु वा पल्लीषु वा भिक्षां कृत्वा तत्रैव स्थण्डिले भुक्त्वा रात्रौ संवर्ते समागत्य वसन्ति । अथ सर्वस्यापि राज्यस्य क्षोभः ततो वजिकादिकमपि नास्ति तदा 'तत्रैव' संवर्ते यानि कुलानि स्थण्डिले स्थितानि तेषु भिक्षां हिण्डन्ते ॥
अथ न सन्ति स्थण्डिले स्थितानि तत इयं यतना[भा.४८०३] पूवलिय-सत्तु-ओदनगहणं पडलोवरिं पगासमुहे।
सुक्खादीण अलंभे, अजविंता वा विलक्खेति ।। वृ-जगारि-तक्र-तीमनादौ आर्दै प्रपतति पृथिवीकायविराधना भवेदिति मत्वा याः पूपलिका ये च सक्तवो यश्च शुष्कौदन एवमादिकं शुष्कद्रव्यं पटलोपरिस्थिते प्रकाशमुखे भाजने गृह्णन्ति। अथ.शुष्कादीना लाभो न भवति आदिशब्दः स्वगतानेकमेदसूचकः, न वा तैरात्मानं यापयन्ति तत आर्द्रण गृह्यमाणेन यत्र पटलकादौ खरण्टको लग्नस्तं सम्यग् लक्षयन्ति ।।
गतं भिक्षाद्वारम् । अथ भक्तार्थनाद्वारमाह[भा.४८०४] पच्छन्नासति बहिया, अह सभयं तेन चिलिमिणी अंतो।
असतीय व सभयम्मि व, धरंति अद्धेयरे भुंजे ॥ [भा.४८०४] पच्छन्नासति बहिया, अह सभयं तेन चिलिमिणी अंतो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org