SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -३-३/१०९ [भा.४७९५] उवरोहभया कीरइ, सप्परिखो पुरवरस्स पागारो। तेनर सेणासुत्तं, अनुअत्तइ उग्गहो जंच॥ वृ-पूर्वसूत्रे प्राकारः प्राकारपरिखा चोक्ता । स च प्राकारः सपरिखोऽपि पुरवरस्योपरोधःपरचक्रेण वेष्टनं तद्भयात् क्रियते । तेन कारणेन "र" इति पादपूरणे सेनासूत्रमिदमारभ्यते । यच्चावग्रहः पूर्वसूत्रेभ्यः अनुवर्तते, अव्यवच्छिन्न एवागच्छन्नस्तीति भावः, अतो यथा रोधके राजावग्रहमनुज्ञाप्य बहिर्निर्गम्यते प्रविश्यते वा तथाऽभिधीयते॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-सेशब्दोऽथशब्दार्थे । अथ ग्रामस्य वा यावद् राजधान्या वा, यावत्करणाद् नगरस्य वा खेटस्य वा इत्यादिपरिग्रहः, एतेषामन्यतरस्य बहि ‘सेनां राज्ञः स्कन्धावारंरोधकं कृत्वा सन्निविष्टं 'प्रेक्ष्य' दृष्ट्वा कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा तद्दिवसं भिक्षाचर्यायां गत्वा प्रत्यागन्तुम् । "नो" नैव "से" तस्य विवक्षितस्य भिक्षोः कल्पते तां रजनीं 'तत्रैव' सेनायाम् ‘उपादातुम्' अतिक्रामयितुम् । यः खलु निर्ग्रन्थो वा निर्ग्रन्थी वा तां रजनीं तत्रैवोपाददाति उपाददतं वा स्वादयति सः 'द्विधाऽप्यतिक्रामन्’ जिनसीमानं राजसीमानं च विलुम्पन् आपद्यते चातुर्मासिकं परिहारस्थानमनुद्धातिकमिति सूत्रार्थः ॥अथ भाष्यविस्तरः[भा.४७९६] सेनादी गम्मिहिई, खित्तुप्पायं इमं वियाणित्ता। ___असिवे ओमोयरिए, भय-चक्काऽमिग्गमे गुरुगा॥ वृ. क्वचित् मासकल्पक्षेत्र स्थितैतिम्-सेना-परचक्रमत्र समायास्यति, आदिशब्दाद् अशिवमवमौदर्य म्लेच्छादिभयं वा भविष्यति । एवमादौ कारणे पश्चादपि गमिष्यत इति कृत्वा अनागतमेव ततः क्षेत्राद् निर्गन्तव्यम् । कथं पुनरनागतं तद् ज्ञायते ? इत्याह-क्षेत्रस्योत्पातः क्षेत्रोत्पातः-परचक्राद्युपद्रवसूचकानि लिङ्गानीत्यर्थः, तानि च दिक्चक्रवालं धूमायते, अकाले तरूणांपुष्प-फलानि जायन्ते, महताशब्देन भूमि कम्पते, समन्ततःक्रन्दित-कूजितशब्दाः श्रूयन्ते इत्यादीनि मन्तव्यानि । एवं क्षेत्रोत्पातममुं विज्ञाय निर्गन्तव्यम् । अथ न निर्गच्छन्ति ततः अशिवे अवमौदर्ये बोधिकभये परचक्रागमने ज्ञातेऽपि निर्गमनकुर्वतां चतुर्गुरुकाः ।। [भा.४७९७] आणाइणो य दोसा, विराधना होइ संजमा-ऽऽयाए। असिवादिम्मि परुविते, अधिकारो होति सेनाए॥ वृ- आज्ञादयश्च दोषाः विराधना च संयमा-ऽऽत्मविषया भवति । संयमविराधना शुद्ध भक्तपानेऽलभ्यमानेऽनेषणीयं गृह्णीयादित्यादिका, आत्मविराधना, परिताप-महादुःखादिका। यदा चाशिवादिकं प्रतिपदं प्ररूपितं भवति तदाअत्र सेनायाअधिकारः कर्तव्यः । अशिवादिकं च प्रथमोद्देशकेऽध्वसूत्रे सप्रपञ्चं प्ररूपितमिति नेह भूयः प्ररूप्यते ॥ तच परचक्रागमनं यथा ज्ञायते तथा दर्शयति[भा.४७९८] अतिसेस-देवत-निमित्तमादि अतिवह पविति सोतूणं। निग्गमन होइ पुव्वं, अमागते रुद्ध वोच्छिन्ने । वृ-अवधिज्ञानाधतिशयेन स्वयमेव ज्ञातम्, अपरेण वा अतिशयज्ञानिना पृष्टेन कथितम्, देवतया वा कयाचिदाख्यातम्, अविसंवादिना वा निमित्तेनावगतम्, आदिग्रहणेन विद्यामन्त्रादिपरिग्रहः, अथवा प्रवृत्ति-वार्ता तामवितां श्रुत्वा, ततः क्षेत्रात् पूर्वमेव निर्गमनं कर्तव्यं भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy