________________
उद्देशक : ३, मूलं-१०८, [भा. ४७९०]
___ अनुमेरा सीमाए, नायव्वं जंजहिं कमति॥ वृ-अनुशब्दः प्रत्येकमभिसम्बध्यते, अनुकुड्या-ऽनुभित्त्योरनुचरिका-प्राकारपथ-परिखासु च, “अनुमेरा सीमाए"त्ति मर्यादा-सीमा, ततो अनुमर्यादायामनुसीमायामित्येकोऽर्थः । एतेषु ज्ञातव्यं यद् यत्र सागारिक-राजाद्यवग्रहानुज्ञापनं क्रमते ॥ एनां नियुक्तिगाथां व्याख्यानयति[भा.४७९१] अनुकुथु उवकुटुं, कुड्डसमीवं व होइ एगटुं।
एमेव सेसएसुवि, तेसि पमाणं इमं होइ । वृ-अनुशब्दस्य समीपार्थद्योतकस्वादनुकुड्यमुपकुड्यं कुड्यसमीपमिति वैकार्थम्। एवमेव 'शेषेष्वपि' अनुभितत्यादिषु पदेषुमन्तव्यम् । तेषाम्' अनुकुड्यादीनामवग्रहविषयमिदंप्रमाणं भवति ॥ [भा.४७९२] वति-भित्ति-कडगकुड्डे, पंथे मेराय उग्गहो रयणी।
अनुपरियाए अड्डज उ, चउरो रयणीउ परिहाए । वृ-वृती-बबूलादिपरिक्षेपरूपायांभित्तौ-इष्टकादिनिर्मितायां कटकमयेच कुड्ये मथिमर्यादायां च 'रयणि'त्ति एकहस्तमानोऽवग्रहो भवति । अनुचरिकायामष्टौ हस्ताः । परिखायां चत्वारो रत्नयः । इदमेव भावयति[भा.४७९३] वतिसामिणो वतीतो, हत्थो सेसोग्गहो नरवतिस्स।
तस्स तहिं ममकारो, जति विय निम्माणिजा भूमी॥ वृ-यो गृहपतिर्विवक्षिताया वृतेः स्वामी तस्य वृतेः परतो हस्तमात्रमवग्रहो भवति, शेषस्तु सर्वोऽपि नरपतेरवग्रहो मन्तव्यः ।अथ किं कारणं वृतिस्वामिनोवृतेः परतोऽप्यववग्रहो भवति? इत्याह-'तस्य' गृहपतेः 'तत्र' वृतेः परतो हस्तप्रमाणे भूभागे ममकारो भवति, अतो यद्यपि “निम्माणि"त्ति मूलपादानेव यावद् विवक्षितगृहसत्का भूमिस्तथापि वृतेः परतो हस्तमेकं तस्यावग्रहः। एवं भित्ति-कुड्यादिष्वपि भावनीयम् ॥ [भा.४७९४] हत्यं हत्थं मोत्तुं, कुड्डादीणं तु मज्झिमो रन्नो।
जत्थ न पूर हत्थो, मज्झे तिभागो तहिं रनो। वृ-तेषामेव कुड्यादीनां हस्तं हस्तमुभयोरपि गृहयोर्मुक्त्वा मध्यमः सर्वोऽपि राज्ञोऽवग्रहः। यत्र तु गृहद्वयापान्तरालस्यातिस्तोकतया हस्तो न पूर्यते तत्र मध्यमस्त्रभागो राज्ञः, शेषौ द्वौ गृहस्वामिनोः; एतदवग्रहपरिमाणमुक्तम् । अत्र चोच्चारादीनि स्थान-निषदनादीनि वा कुर्वन् यदि कुड्यादीनांहस्ताभ्यन्तरेकरोतिततो गृहपत्यवग्रहोमनसि क्रियते, हस्ताबहिश्चरिकाप्राकारपरिखादिषु च राजावग्रहोऽनुज्ञाप्यते, अटव्यामपि यद्यसौ राजा प्रभवति तदा तस्यैवावग्रहः स्मर्यते, अथासौ तत्र न प्रभवति ततो देवेन्द्रावग्रहो मनसि क्रियते॥
मू. (१०९) से गामस्स वाजावरायहाणीए वा बहिया सेणं सन्निविट्ठ पेहाए कप्पइ निग्गंथाण वा निग्गंधीण वा तद्दिवसं भिक्खायरियाए गंतुं पडिएत्तए । नो से कप्पइ तं रयणिं तत्थेव उवाइणावित्तए । जो खलु निग्गंथो वा निग्गंथी वा तं रयणिं तत्येव उवाइणाइ, उवातिनंतं वा साइज्जति, से दुहतो विअइक्कममाणे आवजइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं ॥
वृ-अस्य सम्बन्धमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org