SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ उद्देशकः ३, मूलं-१०९, [भा. ४८१८] पउरदव वडगादी, गरहा यसअंतरं एक्को । वृ-प्रच्छन्नस्य कटक-चिलिमिलिकयोश्चाभावेनिह्नवेषु तिष्ठन्ति, तदभावे बोटिकेषु, तदप्राप्ती भिक्षुकेषु । एतेष्वपि पूर्वमशौचवादिषु, ततः शौचवादिषु ।शौचवादिषुच स्थिता आचमनादिषु क्रियासुप्रचुरद्रवेण कार्यं कुर्वन्ति, वड्डकम्-कमढकं तत्र भुञ्जते, आदिशब्दाद् अपरेणापि येन ते शौचवादिनो जुगुप्सां न कुर्वन्ति तस्य परिग्रहः । एवं प्रवचस्य गर्हा परिहता भवति । सान्तरं चोपविष्टा भुञ्जते । “एगो" त्ति एकः क्षुल्लकादि कमढकानां कल्पं करोति ॥ अथ “पत्तेय समण दिक्खिय" ति पदं व्याख्याति[भा.४८१९] पासंडीपुरिसाणं, पासंडित्थीण वा विपत्तेगे। पासंडित्थि-पुमाणं, व एक्कतो होतिमा जयणा ।। वृ-पाषण्डिपुरुषाणांपाषण्डिस्त्रीणांवाप्रत्येकं स्थितानांपाषण्डिस्त्री-पुरुषाणामेकतः स्थितानां वा इयं यतना भवति ॥ [भा.४८२०] जेजह असोयवादी, साधम्मी वा वि जत्थ तहि वासो। निहुया य जुद्धकाले, न बुग्गहो नेव सज्झाओ ।। वृ-ये यथा अशौचवादिनो ये च जीवादिपदार्थास्तिक्यवादित्वेन कारुणिकत्वेन च साधूनां साधर्मिकाः ‘तेषु तेषां मध्ये साधुभिर्वासः कर्तव्यः । यदा च तत्र द्वयोरपि सैन्ययोर्युद्धकालो भवति तदा 'निभृताः' निव्यापारा भवन्ति । इदमेव व्याचष्टे-'न विग्रहः' स्वपक्षेण परपक्षण वा सह कलहोन कर्त्तव्यः, नैवच तदानीं स्वाध्यायोविधेयः।।गता वसतियतना। भक्तार्थनयतनाऽपि “पउरदव वडगाई" इत्यादिना अत्रैवौक्ता । अथ स्थण्डिलयतनामाह[भा.४८२१] तंचेव पुव्वभणितं, पत्तेयं दिससमाणे कुरुया य । थंडिल्ल सुक्ख हरिए, पवायपासे पदेसेसु॥ वृ-स्थण्डिलं तदेवपूर्वभणितं “अनावायमसंलोए" इत्यादिना यथा पीठिकायामुक्तंतथैवात्रापि मन्तव्यम्। प्रथमस्थण्डिलालाभेशेषेषुगच्छतांप्रत्येकंमात्रकग्रहणं भवति, सागारिकेणच दृश्यमाने कुरुकुचा कर्त्तव्या । एवं बहि स्थण्डिले लभ्यमाने यतना । अथ बहिर्न लभ्यते निर्गन्तुं ततो यद् नगराभ्यन्तरे स्थण्डिलमनुज्ञातंतत्र यानि तृणानि शुष्काणि तेषुव्युत्सृजति, तेषामभावेदरमलितेषु मिश्रेषु, तदप्राप्तौ हरितेषु सचित्तेष्वपिव्युत्सृजति ।अत्रच प्रत्येका-ऽनन्त-स्थिरा-ऽस्थिरादियतना सर्वाऽपि कर्तव्या यथा ओघनियुक्तौ भणिता । अथ प्रपाते गर्तायां नदीतटे प्रकारोपरि वा राज्ञाऽनुज्ञातं तत एतेषां पार्वे व्युत्सृजति । यदि सर्वथैव स्थण्डिलं न लभ्यते अधशच भूमिं न पश्यति ततो धर्म-ऽधर्मादिप्रदेशेष्वपि व्युतसृजन् शुद्धः ।। अथ “पत्तेयं दिस्समाणे कुरुया य"ति पदं व्याख्याति[भा.४८२२] पढमासइ अमणुन्नेतराण गिहियाणे वा वि आलोगं । पत्तेयमत्त कुरुकुय, दवं च पउरं गिहत्थेसुं॥ [भा.४८२३] तेन परं पुरिसाणं, असोयवादीण वच्च आवातं । इत्थी-नपुंसकेसु वि, परम्मुहो कुरुकुया सेव ।। वृ-गाथाद्वयमपि पीठिकायां व्याख्यातम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy