________________
३८०
बृहत्कल्प-छेदसूत्रम् -३-६/२०५ अचेतना तेन कारणेन "से" तस्याः ‘चयः'कर्मोपचयोनास्ति, 'बोन्दि तनुः पुनः ‘जीवपरिगृहीता' जीवेनाधिष्ठिता, जीवपरिगृहीतत्वाच्वश्यंतद्विरुद्धचेष्टातःकर्मोपचयसम्भः,ततोयासासेराष्टिान्तेन समताआपादिता सा 'असमञ्जसम् अयुज्यमाना, अचेतनसचेतनयोईष्टान्त-दान्तिकयोर्वेषम्यात्। अत्राऽऽचार्य प्राह[भा.६२३१] चेयणमचेयणं वा, परतंतत्तेण ननु हुतुल्लाई।
नतया विसेसितं एत्थ किंचि भणती सुण विसेसं॥ वृ-इह वस्तु चेतनं वाऽस्तु अचेतनं वा, यदि परतन्त्रं तदा ननु 'हुः' निश्चितं 'परतन्त्रत्वेन' परायत्ततयायतोद्वे अपितुल्येततोनकिञ्चिद्वैषम्यम्।परआह-नत्वयाऽत्रपरकर्मोपचयचिन्तायां 'किञ्चिदपि' मनागपि विसेषिते येन ‘जीवपरिगृहीतत्वेऽप्येकत्र कर्मोपचयो भवति, एकत्र न' इति प्रतिपद्यामहे । अत्राचार्य 'भणति' ब्रूते-शृणु भण्यमानं विशेषम् ॥ तमेवाह[भा.६२३२] ननुसो चेव विसेसो, जं एक्कमचेतणं सचित्तेगं ।
जह चेयणे विसेसो, तह भणसु इमं निसामेह॥ वृ- ननु ‘स एव' यन्त्रनर्तकी-स्वाभाविकनर्तकीदृष्टान्तसूचितो विशेषः-यद् ‘एकं शरीरं' यन्त्रनर्तकीसत्कंपरायत्ततया चेष्टमानमप्यचेतनम्, 'एकंतु स्वाभाविकनर्तकीशरीरंस्वायत्ततया प्रवृत्तेः 'सचित्तं' सचेतनमिति । पर आह-यथा एष चेतने विशेषो निसन्दिग्धप्रतिपत्तिविषयो भवत तथा 'भणत' प्रतिपादयत । आचार्य प्राह-ततः 'इदं वक्ष्यमाणं "निशमय' आकर्णय॥ [भा.६२३३] जो पेल्लिओ परेणं, हेऊ वसणस्स होइ कायाणं।
तत्थ न दोसं इच्छसि, लोगेण समंतहा तं च ॥ वृ-यः परेण प्रेरितः सन् ‘कायनां' पृथिव्यादीनां 'व्यसनस्य' सङ्घट्टन-परितापनादिरूपस्य 'हेतुः' कारणं भवति 'तत्र' तस्मिन् परेण प्रेरिततया कायव्यसनहेतौ यथा न त्वं दोषमिच्छसि, अनात्मवशतया प्रवृत्तेः । कथं पुनर्दोषं नेच्छामि? इत्यत आह-'लोकेन समं' लोकेन सह, लोके तथादर्शनत इत्यर्थः । तथाहि-यो यत्रानात्मवशतया प्रवर्तते तं तत्र लोको निर्दोषमभिमन्यते । अथ एव परप्रेरिततया कायव्यसनहेतुं निर्दोषमभिमन्यताम् । यथा च तं निर्दोषमिच्छसि तथा 'तामपि च क्षिप्तचित्तां निर्दोषां पश्य, तस्या अपि परायत्ततया तथारूपासु चेष्टासु प्रवृत्तेः॥
एतदेव सविशेषं भावयति[भा.६२३४] पस्संतो विय काए, अपच्चलो अप्पगं विधारेउं ।
जह पेल्लितो अदोसो, एमेव इमं पिपासामो॥ वृ-यथापरेणप्रेरितआत्मानं विधारयितुं' संस्थापयितुम् अप्रत्यलः' असमसर्थः सन्पश्यन्नपि 'कायान्' पृथिवीकायिकादीन् विराधयन् अनिकापुत्राचार्य इव 'अदोषः' निर्दोषः; 'एवमेव' अनेनैव प्रकारेण परायत्ततया प्रवृत्तिलक्षणेन 'इमामपि' क्षिप्तचित्तामदोषां पश्यामः ।।
इहपूर्वप्रगुणीभूतायास्तस्याः प्रायश्चित्तदानविषयेत्रय आदेशा गुरुकादय उक्ताअतस्तानेव गुरुकादीन् प्ररूपयति[भा.६२३५] गुरुगो गुरुगतरागो, अहागुरूगो य होइ ववहारो।
लहुओ लहुयतरागो, अहालहूगो यववहारो॥ [भा.६२३६] लहुसो लहुसतरागो, अहालहूसो य होइ ववहारो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org