________________
उद्देशकः ६, मूलं-२०५, [भा. ६२२५]
३७९ 'अवस्थितं' न हीयतेनचवर्धते, एते चत्वारो भङ्गाश्चारित्रस्य। साम्प्रतममीषामेव चतुर्णा भङ्गानां यथासङ्खयेन विषयान् प्रदर्शयति-"खइयं" इत्यादि ।क्षपक श्रेणिप्रतिपन्नस्य क्षायिकंचरणंवर्धते। उपशमश्रेणीतःप्रतिपतने औपसमिकं चरणं हानिमुपगच्छति।क्षायोपशमिकतत्तद्राग-द्वेषोत्कर्षाऽपकर्षवशतः क्षीयते परिवर्धते च । यथाख्यातं 'क्षिप्तं च' पदैकदेशे पदसमुदायोपचारात् क्षिप्तचित्तचारित्रं चावस्थितम्, यथाख्यातचारित्रे सर्वथा राग-द्वेषोदयाभावात् क्षिप्तचित्तचारित्रे परवशतया प्रवृत्तेः स्वतो राग-द्वेषाभावात् । तदेवं यतः क्षिप्तचित्ते चारित्रमवस्थितं अतो नासौ प्रायश्चित्तभागिति ॥ पर आह-ननु सा क्षिप्तचित्ताऽऽश्रवद्वारेषु चिरकालं प्रवर्तिता बहुविधं चासमअसतया प्रलपितं लोक-लोकोत्तर विरुद्धं चसमाचरितंततः कथमेषान प्रायश्चित्तभाक्? अत्र सूरिराह[भा.६२२६] काणं आसवदारेसुवट्टियं पलवितं बहुविधं च।
लोगविरुद्धा य पदा, लोउत्तरिया य आइन्ना ।। वृ. 'कामम्' इत्यनुमतौ अनुमतमेतद्, यथा-तयाऽऽश्रवद्वारेषुचिरकालं वर्तितं बहुविधं च प्रलपितं लोकविरुद्धानि लोकोत्तरविरुद्धानि च पदानि 'आचीर्णानि' प्रतिसेवितानि ।। [भा.६२२७] न यबंधहेउविगलत्तणेण कम्मस्स उवचयो होति।
लोगो वि एत्थ सक्खी, जह एस परव्वसा कासी ।। वृ-तथापि 'न च' नैव तस्याः क्षिप्तचित्तायाः 'बन्धहेतुविकलत्वेन' बन्धहेतवः-रागद्वेषादयस्तद्विकलत्वेन कर्मोपचयो भवति, कर्मोपचयस्य राग-द्वेषसमाचरिताद्यधीनत्वात्, तस्याश्च रागद्वेषविकल्वात्। तस्याश्च राग-द्वेषविकलत्वंन वचनमात्रसिद्ध किन्तु लोकोऽपि 'अत्र' अस्मिन् विषये साक्षी, यथा-एषा सर्वं परवशाऽकार्षीदिति । ततो राग-द्वेषाभावान्न कर्मोपचयः, तस्य तदनुगतत्वात् ॥तथा चाह[भा.६२२८] राग-दोसानुगया, जीवा कम्मस्स बंधगा होति।
रागादिविसेसेण य, बंधविसेसो वि अविगीओ। वृ-राग-द्वेषाभ्यामनुगताः-सम्बधा राग-द्वेषानुगताः सन्तो जीवाः कर्मणो बन्धका भवन्ति । ततः 'राग-द्वेषविशेषेण राग-द्वेषतारतम्येन 'बन्धविशेषः' कर्मबन्धतर-तमभावः ‘अविगीतः' अविप्रतिपन्नः । ततः क्षिप्तचित्ताया राग-द्वेषाभावतः कर्मोपचयाभावः॥
अमुमेवार्थं दृष्टान्तेन द्रढयति[भा.६२२९] कुणमाणा वियचेट्ठा, परतंता नट्टिया बहुविहातो।
किरियाफलेन जुञ्जति, न जहा एमेव एतं पि॥ वृ- यथा 'नर्तकी' यन्त्रनर्तकी काष्ठमयी 'परतन्त्रा' परायता परप्रयोगत इत्यर्थः, 'बहुधा अपि' बहुप्रकारा अपि, तुशब्दोऽपिशब्दार्थ, चेष्टाः कुर्वाणा 'क्रियाफलेन' कर्मणा न युज्यते; 'एवमेव' अनेनैवप्रकारेणएनामपि क्षिप्तचित्तामनेकाअपिविरुद्धाः क्रियाः कुर्वाणामकर्मकोपचयां पश्यत॥अथात्र परस्य मतमाशङ्कमान आह[भा.६२३०] जइ इच्छसि सासेरा, अचेतणा तेन से चओ नत्थि।
जीवपरिग्गहिया पुन, बोंदी असमंजसं समता। वृ-यदि त्वमेतद् ‘इच्छसि' अनुमन्यसे, यथा-“सासेरा" इति देशीपदत्वाद् यन्त्रमयी नर्तकी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org