________________
उद्देशक :
: ६, मूलं- १९६, [भा. ६०९०]
३५१
वृ-इह गणि-वाचकादिभिः पदैः सूचयाऽसूचया वा परं हीलयति । सूचया यथा वयं न गणिवृषभा अतः को नाम गणि-वृषभैः सहास्माकं विरोध: ? । असूचया यथा- कस्त्वं गणीनामसि ? किं वा त्वया गणिना निष्पद्यते ? ; यद्वा-गणीभवन्नपि त्वं न किञ्चिद् जानासि, केन वा त्वं गणि कृतः ? इति । एवं वाचकादिष्वपि पदेषु भावनीयम् । नवरम्- 'वाचकः' पूर्वगतश्रुतधारी, 'बहुश्रुतः ' अधीतविचित्रश्रुतः, 'मेधावी' ग्रहण-धारणा-मर्यादामेधाविभेदात् त्रिधा, 'आचार्य' गच्छाधिपति, 'धर्मकथी वादी च' प्रतीतः । “अप्पकसाए” त्ति बहुकषाया वयम्, को नामाकल्पकषायैः सह विरोध: ? । “थूले तणुए "त्ति स्थूशरीरा वयम्, कस्तनुदेहैः सह विरोधः ? । “दीहे य इहे य'त्ति दीर्घदेहा वयं सदैवोपनि शिरोघट्टनं प्राप्नुमः, को मडभदेहैः समं विरोध: ? । एषा सूचा । असूचायां तु बहुकषायस्त्वम्, स्थूलशरीरस्त्वम् इत्यादिकं परिस्फुटमेव जल्पति । एवमसूचया सूचया वा यत् परं हीलयति तदेतद् हीलितवचनम् ॥ अथ खिंसितवचनमाह
[भा. ६०९१] गहियं च अहाघोसं, तहियं परिपिंडियाण संलावो । अमुएणं सुत्तत्यो, सो वि य उवजीवितुं दुक्खं ।।
वृ- एकेन साधुना 'यथाघोषं यथा गुरुभिरभिलापा भणिताः तथा श्रुतं गृहीतम् । स चैवंगृहीतसूत्रार्थ प्रतीच्छकादीन् वाचयति । यदा च प्रतीच्छक उपतिष्ठते तदा तस्य जातिकुलादीनि पृष्टवा पश्चात् तैरेव खिंसां करोति । इतश्च अन्यत्र साधूनां 'परिपिण्डितानां' स्वाध्यायमण्डल्या उत्थितानां संलापो वर्तते-कुत्र सूत्रार्थी परिशुद्धौ प्राप्येते ? । तत्रैकस्तं यथाघोषश्रुतग्राहकं साधुं व्यपदिशति, यथा-अमुकेन सूत्रार्थी शुद्धौ गृहीतौ परं स 'उपजीवितुं' सेवितुं 'दुःखं' दुष्करः ॥ कथम् ? इत्याह
[भा. ६०९२] जह कोति अमयरुक्खो, विसकंटगव्लिवेढितो संतो ।
न चइजइ अल्लीतुं, एवं सो खिंसमाणो उ ॥
वृ-यथा कोऽप्यमृतवृक्षो विषकण्टकवल्लीभिर्वेष्टितः सन् 'आलीतुं' आश्रयितुं न शक्यते एवमसावपि साधुः प्रतीच्छकान् खिंसन् नाश्रयितुं शक्यः । तथाहि
[भा. ६०९३ ] ते खिंसणापरद्धा, जाती-कुल- देस-कम्मपुच्छाहिं । आसागता निरासा, वच्छंति विरागसंजुत्ता ॥
वृ-यस्तस्योपसम्पद्यते तं पूर्वमेव पृच्छति का तव जाति ? किंनामिका माता ? को वा पिता? कस्मिन् वा देशे सञ्जातः ? किं वा कृष्यादिकं कर्म पूर्वं कृतवान् ? ; एवं पृष्ट्वा पश्चात् तान् पठतो हीना-ऽधिकाक्षराद्युच्चारणादेः कुतोऽपि कारणात् कुपितस्तैरेव जात्यादिभिः खिंसति । ततः 'ते' प्रतीच्छका जाति-कुल- देश - कर्मपृच्छाभि पूर्वं पृष्टाः ततः खिंसनया प्रारब्धाः - त्याजिताः सन्तः 'सूत्रार्थी ग्रहीष्यामः' इत्याशयाऽऽगताः 'निराशाः' क्षीणमनोरथा विरागसंयुक्ताः“दिट्ठा सि कसेरुमई, अनुभूया सि कसेरुमई । पीयं च ते पाणिययं वरि तुह नाम न दंसणयं ।। " इति भणित्वा स्वगच्छं व्रजन्ति ॥
[भा. ६०९४]
Jain Education International
सुत्त - ऽत्थाणं गहणं, अहगं ततो पडिनियत्तो । जाति कुल देस कम्म, पुच्छति खल्लाड धन्नागं ॥
For Private & Personal Use Only
www.jainelibrary.org