________________
३५०
बृहत्कल्प-छेदसूत्रम् -३-६/१९६
[भा. ६०८७]
वच्चह एगं दव्वं, घेच्छं नेगगह पुच्छितो भणती । गहणं तु लक्खणं पोग्गलाण नऽन्नेसि तेनेगं ॥
वृ- कोऽपि साधुर्भिक्षार्थं गच्छन् कमपि साधुं भणति व्रजावो भिक्षायाम्; स प्राह-व्रजत यूयम् अहमेकमेवद्रव्यं ग्रहीष्यामि; एवमुक्त्वा भिक्षां पर्यटन् अनेकानाम्-ओदन-द्वितीयाङ्गादीनां बहूनां द्रव्याणां ग्रहण कुर्वन् साधुभि पृष्टो भणति - "गहणं तु" इत्यादि, गतिलक्षणो धर्मास्तिकायः, स्थितिलक्षणोऽधर्मास्तिकायः, अवगाहलक्षण आकाशास्तिकायः, उपयोगलक्षणो जीवास्तिकायः, ग्रहणलक्षणः, पुद्गलास्तिकायः, एषां च पञ्चानां द्रव्याणां मध्यात् पुद्गलानामेव ग्रहणरूपं लक्षणम् नान्येषां धर्मास्तिकायादीनाम्, तेनाहमेकमेव द्रव्यं गृह्णामि न बहूनीति ॥ व्याख्यातं द्वितीयद्वारगाथायाः पूर्वार्द्धम् । अथ “पडियाखित्ता गमणं, पडियास्वित्ता य भुंजणय'त्तिपश्चार्द्ध व्याख्यायते-'प्रत्याख्याय' 'नाहं गच्छामि' इति प्रतिषिध्य गमनं करोति, 'प्रत्याख्याय च ' 'नाहं भुञ्जे' इति भणित्वा भुङ्क्ते; अपरेण च साधुना पृष्टो ब्रवीति - गम्यमानं गम्यते नागम्यमानम्, भुज्यमानमेव भुज्यते नाभुज्यमानम् । अनेन च पश्चार्द्धे गमनद्वार- प्रत्याख्यानद्वारे व्याख्याते इति प्रतिपत्तव्यम् । इह च सर्वत्रापि प्रथमवारं भणतो मासलघु। अथाभिनिवेशेन तदेव निकाचयति तदा पूर्वोक्तनीत्या पाराञ्चिकं यावद् द्रष्टव्यम् ॥
तदेवं येषु स्थानेष्वलीकं सम्भवति याद्दशी च तत्र शोधिस्तदभिहितम् । सम्प्रति 'येऽपाया सापवादाः' इति द्वारम्-तत्राऽनन्तरोक्तान्यलीकानि भणतो द्वितीयसाधुना सहासङ्खडाद्युत्पत्तेः संयमा-ऽऽत्मविराधनारूपा सप्रपञ्चं सुधिया वक्तव्याः । अपवादपदं तु पुरस्ताद् भणिष्यते । गतमलीकवचनम् । अथ हीलितादीन्यभिधित्सुः प्रथमतः प्रायश्चित्तमतिदिशति -
[भा. ६०८८] एमेव य हीलाए, खिसा फरुसवयणं च वदमाणो । गारत्थि विओसविते, इमं च जं तेसि नाणत्तं ॥
वृ- एवमेव हीलावचनं खिंसावचनं परुषवचनमगारस्थवचनं व्यवशमितोदीरणवचनं च वदतः प्रायश्चित्तं मन्तव्यम् । यच्च तेषां नानात्वं तद् इदं भवति ॥
[भा. ६०८९] आदिल्लेसुं चउसु वि, सोही गुरुगाति भिन्नमासंता । पणुवीसतो विभाओ, विसेसितो बिदिय पडिलोमं ॥
वृ- 'आदिमेषु चतुर्ष्वपि' हीलित खिसित- परुष-गृहस्थवचनेषु शोधिश्चतुर्गुरुकादिका भिन्नमासान्ता आचार्यादीनां प्राग्वद् मन्तव्या । तद्यथा - आचार्य आचार्यं हीलयति चतुर्गुरु १ उपाध्यायं भिन्नमासः ५ । एतान्याचार्यस्य तपः- कालाभ्यां गुरुकाणि भवन्ति । एते आचार्यस्य पञ्च संयोगा उक्ताः, उपाध्यायादीनामपि चतुर्णामेवमेव पञ्च पञ्च संयोगा भवन्ति, सर्वसङ्ख्ययैते पञ्चविंशतिर्भवन्ति । अत एवाह-'पञ्चविंशतिकः' पञ्चविंशभङ्गपरिमाणोविभागोऽत्र भवति । स च तपः-कालाभ्यां विशेषितः कर्तव्यः । द्वितीयादेशेन चैतदेव प्रायश्चित्तं प्रतिलोमं विज्ञेयम्, भिन्नमासाद्यं चतुर्गुरुकान्तमित्यर्थः । एवं खिंसित-परुष-गृहस्थवचनेष्वपि शोधिर्मन्तव्या ॥ अथ हीलितवचनं व्याख्याति
[भा. ६०९०] गणि वायए बहुस्सुए, मेहावाऽऽयरिय धम्मकहि वादी । अप्पकसाए थूले, तनु दीहे य मडहे य ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org