________________
उद्देशक : ६, मूलं-१९६, [भा. ६०८१]
३४९
पृष्टो यदि भणति - आमम्, घोटकमुख्य एवैताः, यतो घोटकवद् दीर्घमधोमुखं च मुखं वडवानां भवतीति; एवं ब्रवीति तदा छेदः । ततः साधुभिर्भणितः कथं ताः स्त्रिय उच्यन्ते ? ; इतरः प्राहयदि न स्त्रयस्तर्हि किं मनुष्याः ?; एवं ब्रुवाणस्य मूलम् । 'सर्वे यूयमेकत्र मिलिताः, अहं पुनरेक एव' एवं भणतोऽनवस्थाप्यम् । 'सर्वेऽपि प्रवचस्य बाह्याः' इति भणतः पाराञ्चिकम् ॥ अथान्त्यं प्रायश्चित्तत्रयं प्रकारान्तरेणाह[भा. ६०८२]
सव्वेगत्था मूलं, अहगं इक्कल्लगो य अणवट्ठो । सव्वे बहिभावा पवयणस्स वयमाणे चरिमं तु ॥
वृ- 'यूयं सर्वेऽप्येकत्र मिलिताः' इति भणतो मूलमेव । 'अहमेककः किं करोमि ? इति भणतोऽनवस्थाप्यम्। 'सर्वेऽपि यूयं प्रवचनस्य बाह्याः' इति वदति पाराञ्चिकम् ॥
इदमेवान्त्यपदं व्याख्याति
[भा. ६०८३] किं छागलेण जंपह, किं मं हंफेह एवऽजाणंता । बहुहि को विरोहो, सलभेहि व नागपोयस्स ॥
वृ- गतार्था ॥ अथावश्यङ्गमनद्वारमाह
[ भा. ६०८४] गच्छसि न ताव गच्छं, किं खुन जासि त्ति पुच्छितो भणति । वेला न ताव जायति, परलोगं वा वि मोक्खं वा ॥
वृ- कोऽपि साधुः केनापि साधुना पृष्ट-आर्य ! गच्छसि भिक्षाचर्याम् ? ; स प्राह- अवश्यं गमिष्यामि; इतरेण साधुना भणितः यद्येवं तत उत्तिष्ठ व्रजावः; स प्राह-न तावदद्यापि गच्छामि; इतरेण भंणितम्-किं ‘“खुः” इति वितर्के 'न यासि' न गच्छसि ? त्वया हि भणितम् - अवश्यं गमिष्यामि; एवं पृष्टो भणति न तावदद्यापि परवलोकं गन्तुं वेला जायते अतो न गच्छामि, यद्वा मोक्षं गन्तुं नाद्यापि वेला अतो न गच्छामि; " अपि " सम्भावने, किं सम्भावयति ? अवश्यं परलोकं मोक्षं वा गमिष्यामीति ॥ अथ “देसासु" त्ति पदं व्याख्याति
[भा. ६०८५] कतरिं दिसं गमिस्ससि, पुव्वं अवरं गतो भणति पुट्ठो । किं वा न होति पुव्वा, इमा दिसा अवरगामस्स ।।
वृ- एकः साधुरेकेन साधुना पृष्टः-आर्य ! कतरां दिशं भिक्षाचर्यां गमिष्यसि ? ; स एवं पृष्टो ब्रवीति-पूर्वं गमिष्यामि । ततः प्रच्छकः साधुः पात्रकाण्युद्ग्राह्यापरां दिशं गतः, इतरोऽपि पूर्वदिग्गमनप्रतिज्ञाता तामेवापरां दिशं गतः तेन साधुना पृष्टः - 'पूर्वां गमिष्यामि' इति भमित्कस्मादपरामायातः ?; स प्राह- किं वाऽपरस्य ग्रामस्येयं दिक् पूर्वा न भवति येन मदीयं वचनं विरुध्येत ? ॥ अथैककुलद्वारमाह
1
[भा. ६०८६ ]
अहमेगकुलं गच्छं, वञ्च्चह बकुलपवेसणे पुट्ठो । भणति कह दोन्नि कुले, एगसरीरेण पविसिस्सं ।
वृ- कश्चित् केनचिद् भिक्षार्थमुत्थितेनोक्तः-आर्य ! एहि व्रजावो भिक्षाम्; स प्राह-व्रजत यूयं अहमेकमेव कुलं गमिष्यामि; एवमुक्त्वा बहुषु कुलानि प्रविशसि ? ; स एवं पृष्टो भणति द्वे कुले एकेन शरीरेण युगपत् कथं प्रवेक्ष्यामि ?, एकमेव कुलमेकस्मिन् काले प्रवेष्टुं शक्यम् न बहूनीति भावः ॥ अथैकद्रव्यग्रहणद्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org