________________
३५२
बृहत्कल्प - छेदसूत्रम् - ३-६/१९६
वृ- एवं तदीयृत्तान्तमाकर्ण्य कोऽपि साधुर्भणति अहं तस्य सकाशे गत्वा सूत्रार्थयोर्ग्रहणं करिष्ये, तं चाचार्यं खिंसनादोषाद् निवर्तयिष्यामि । एवमुक्त्वा येषाचार्याणां स शिष्यस्तेषामन्तिके गत्वा पृच्छति योऽसौ युष्माकं शिष्यः स कुत्र युष्माभि प्राप्तः ? । आचार्या प्राहुः- वइदिसनामकस्य नगरस्यासन्ने गोर्बरग्रामे । ततोऽसौ साधुस्ततः प्रतिनिवृत्तो गोर्बरग्रामं गत्वा पृच्छति-अमुकनामा युवा युष्मदीये ग्रामे पूर्वं किमासीत् ? । ग्रामेवकैरुक्तम् आसीत् । ततः कातस्य माता ? को वा पिता ? किं वा कर्म ? । तैरुक्तम्- “खल्लाड धन्नागं" ति नापितस्य धन्निका नाम दासी, सा खल्वाटकोलिकेन सममुषितवती, तस्याः सम्बन्धी पुत्रोऽसौ । एवं श्रुत्वा तस्य साधोः सकाशं गत्वा भणति-अहं तवोपसम्पदं प्रतिपद्ये । ततस्तेन प्रतीच्छ्य पृष्टः कुत्र त्वं जातः ? का वा ते माता ? इत्यादि । एवंपृष्टोऽसौ न किमपि ब्रवीति । तत इतरश्चिन्तयति नूनमेषोऽपि हीनजातीयः । ततो निर्बन्धे कृते स साधुः प्राह
[भा. ६०९५] थाणम्मि पुच्छियम्मिं, हनु दानि कहेमि ओहिता सुणधा । साहिस्सऽन्ने कस्सव, इमाई तिक्खाइं दुक्खाई ॥
- स्थाने भवद्भिः पृष्टे सति "ह नु दानि" त्ति तत इदानीं कथयामि, अवहिताः शृणुत यूयम्, कस्यान्यस्य ‘इमानि ' ईशानि तीक्ष्णानि दुःखानि कथयिष्यामि ? ॥
[भा. ६०९६] वइदिस गोब्बरगामे, खल्लाडग धुत्त कोलिय त्थेरो । ण्हाविय धन्निय दासी, तेसिं मि सुतो कुणह गुज्झं ॥
वृ- वइदिसनगरासन्ने गोर्बरग्रामे धूर्त्तः कोलिकः कश्चित् खल्वाटः स्थविरः, तस्य नापितदासी धन्निका नाम भार्या तयोः सुतोऽसम्यहम् एतद् गुह्यं कुरुत, मा कस्यापि प्रकाशयतेत्यर्थः ॥ [भा. ६०९७] जेट्ठो मज्झ य भाया, गब्मत्थे किर ममम्मि पव्वइतो । तमहं लद्धसुतीओ, अनु पव्वइतोऽनुरागेण ॥
वृ-मम ज्येष्ठो भ्राता गर्भस्थे किल मयि प्रव्रजित इति मया श्रुतम् । ततोऽहमेवं लब्धश्रुतिको भ्रातुरनुरागेण तमनु-तस्य पश्चात् प्रव्रजितः । एवं श्रुत्वा स खिंसनकारी साधुः किं कृतवान् ? [भा. ६०९८] आगारविसंवइयं तं नाउं सेसचिंधसंवदियं । निउणोवायच्छलितो, आउंटण दानमुभयस्स ॥
वृ- 'न मदीयस्य भ्रातुरेवंविध आकारो भवति' इत्याकारविसंवदितं ज्ञात्वा शेषैश्च - जात्यादिभिश्चिह्वैः संवदितं ज्ञात्वा चिन्तयति - अहो ! अमुना निपुनोपायेन छलितोऽहम्, यदेवमन्यव्यपदेशेन मम जात्यादिकं प्रकटितम् । ततः 'आवर्तनं' मिथ्यादुष्कृतदानपूर्वं ततो दोषादुपरमणम् । ततस्तस्मै सूत्रा -ऽर्थरूपस्योभयस्य दानं कृतमिति ॥
गतं खिंसितवचनम् । अथ परुषवचनमाह[ भा. ६०९९]
दुविहं च फरुसवयणं, लोइय लोउत्तरं समासेणं ।
लोउत्तरियं ठप्पं, लोइय वोच्छं तिमं नातं ॥
वृ-द्विविधं परुषवचनं समासतो भवति-लौकिकं लोकोत्तरिकं च । तत्र लोकोत्तरिकं स्थाप्यम्, पश्चाद् भणिष्यत इत्यर्थः । लौकिकं तु परुषंवचनमिदानीमेव वक्ष्ये । तत्र चेदं ज्ञातं भवति ॥
[ भा. ६१०० ] अन्नोन्न समनुरत्ता, वाहस्स कुटुंबिय्स वि य धूया ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org