________________
३०१
उद्देशकः ५, मूलं-१५२, [भा. ५८५१]
गंधे य पडिगते या, ते पुन दो वी अनाएसा ॥ वृ-प्रथम-द्वितीययोरादेशयोर्दिवाऽप्युद्गारो नास्ति किंपुनर्दिशायाम् ? इत्यतस्यावनादेशौ। यस्तृतीयो गन्धादेशो यश्च चतुर्थ उद्गारस्य गलके प्रतिगमनादेशः एतौ द्वावपि सूत्रार्थभिप्रायबहिर्भूतत्वादनादेशौ ॥कः पुनरादेशः? इत्याह[भा.५८५२] पडुपन्नऽनागते वा, संजमजोगाण जेन परिहानी।
नवि जायति तं जाणसु, साहुस्स पमाणमाहारे॥ वृ-'प्रत्युत्पने' वर्तमानेऽनागते वाकाले येन यावताभुक्तेन संयमयोगानां प्रत्युपेक्षणादीनां परिहाणिर्न जायत तदाहारस्य प्रमाणं साधोर्जानीहि ॥ [भा.५८५३] एवं पमाणजुत्तं, अतिरेगंवा विभुंजमाणस्स।
वायादीखोभेण व, एजाहि कहंचि उग्गालो॥ वृ एवंविधं प्रमाणयुक्तं कारणे वाऽतिरिक्तमपि आहारं भुआनस्य वातादिक्षोभेण वा कथञ्चिदुद्गार आगच्छेत्॥ततः किम् ? इत्यत आह[भा.५८५४] जो पुन सभोयणं तं, दवं व नाऊण निग्गतं गिलति।
तहियं सुत्तनिवाओ, तत्थाऽऽएसा इमे होति।। वृ-पुनःशब्दो विशेषणे, स चैतद् विशिनष्टि-यः 'तम्' उद्गारमागतं परित्यजति तस्य न प्रायश्चित्तम् । यस्तु 'तम्' उद्गारं सभोजनमच्छंवा द्रवमागतं ज्ञात्वा मुखाद् निर्गतं गिलति तत्र 'सूत्रनिपातः' प्रस्तुतसूत्रस्यावतारः । तत्र चेमे आदेशाः भवन्ति॥ [भा.५८५५] अच्छे ससित्थ चव्विय, मुहनिग्गतकवल भरियहत्थे य।.
अंजलि पडिते दिटे, मासादारोवणा चरिमं॥ वृ- अच्छं द्वमागतं यदि परेणादृष्टमापिबति ततो मासलघु, अथ दृष्टं ततो मासगुरु । ससिक्थमागतं परेणादृष्टमाददानस्य मासगुरु, ईष्टे चतुर्लघु । अथ तं ससिक्थमदृष्टं चर्वयति ततश्चतुर्लघु, दृष्टे चतुर्गुरु । मुखाद् निर्गतं कवलमेकहस्तेन प्रतीष्यादृष्टमापिबति चतुर्गुरु, दृष्टे षड्लघु । अथैकं हस्तपुटं भरितमध्ष्टमापिबति ततः षड्लघु, ६ष्टे षड्गुरु । अथाञ्जलिं भरितमदृष्टमापिबतिच्छेदः, दृष्टे मूलम् । एवं भिक्षोरुक्तम् । उपाध्यायस्य मासगुरुकादारब्धमनवस्थाप्ये तिष्ठति।आचार्यस्य चतुर्लघुकादारब्धंचरमे तिष्ठति। एवंमासादिका चरमं यावदारोपणामन्तव्या।
प्रकारान्तरेण प्रायश्चित्तमाह[भा.५८५६] दिय रातो लहु-गुरुगा, बितियं रयणसहितेन दिलुतो।
. अद्धणसीसए वा, सत्यो व पहावितो तुरियं ॥ वृ-अथवा ससिक्थमसिक्थं वा दृष्टमष्टं वा दिवा प्रत्यवगिलतश्चतुर्लघु, रात्री चतुर्गुरु । द्वितीयपदमत्र भवति-कारणे वान्तमप्यापिबेनचप्रायश्चित्तमाप्नुयात्।तत्रचरलसहितवणिजा दृष्टान्तः कर्तव्यः । कथं पुनरिदंसम्भवति? इत्याह-अध्वशीर्षके मनोज्ञं भक्तं भुक्तंतच वान्तम् अन्यच्च न लभ्यते, सार्थो वा त्वरितं प्रधावितः, ततस्तदेव सुगन्धिद्रव्येण वासयित्वा भुङ्क्ते । - अथ रत्नसहितवणिग्दृष्टान्तमाह[भा.५८५७] जल-थलपहेसु रयणाणुवजणं तेन अडविपच्चंते ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org