________________
३००
बृहत्कल्प-छेदसूत्रम् -३-५/१५२
लोही अ ओम पुन्ना, केइ पमाणं इमं बेंति ।
वृ- एतत् सर्वमपि प्रसङ्गतो विनेयानुग्रहार्थमुक्तम्, नैतेन सूत्रं गतम् । यत्र च सूत्रस्य निपातो भवति तत्रामी आदेशा भवन्ति "लोही अ ओम पुत्र'' त्ति गुरुर्भणति -गुणकारित्वाद् अवमं भोक्तव्यं यथोद्गारो नागच्छति । तथा चात्र लोही - कवल्ली तद् दृष्टान्तः यथा कवल्लयां यद्यवमं स्वप्रामाणादूनमाद्रह्यते ततोऽन्तरन्तः उद्गर्तते, उपरिमुखं न निर्गच्छति; अथ 'पूर्णा' आकण्ठं भृता तत उद्वर्तिता सर्वमपि परित्यजति, अग्निमपि विध्यापयति। एवमेव यद्यवममाहियते ततो वातः शरीरान्तः सुखेनैव प्रविचरति, प्रविचरिते च तस्मिन्नुद्गारो नायाति; अथातिमात्रं समुद्दिश्यते ततोऽन्तर्वायुपूरप्रेरित उद्गार आगच्छति ।। तस्मनादवममेव भोक्तव्यम् । केचित् पुनराचार्यदेश्याः 'इदं' वक्ष्यमाणं प्रमाणं ब्रुवते तत्रानन्तरोक्तं कवल्लीदृष्टान्तं भावयति ॥ [भा. ५८४७] अतिभुत्ते उग्गालो, तेनोमं भुंज जन्न उग्गिलसि । छड्डिज्जति अतिपुन्ना, तत्ता लोही न पुन ओमा ॥ वृ- गतार्था । नैगमपक्षाश्रिताः पुनराचार्यदेशीया इत्थं वदन्ति
[भा. ५८४८] तत्तऽत्थमिते गंधे, गलग पडिंगते तहा अणाभोए । - एते न होंति दोन्नि वि, मुहनिग्गत नातुमोगिलणा ॥
वृ- एको नैगमपक्षाश्रितो भणति तप्ते कविल्ले बिन्दुः पतितो यथा तत्क्षणादेव नश्यति तथा यद् भुक्तमात्रं जीर्यति ईशमवमाहरणीयम् । एवमपरः-अस्तमिते रवौ यद् जीर्यते । तृतीयःगन्धेन रहितः सहितो वा यथोद्गार एते । चतुर्थ-गलकं यावदुद्गार आगम्य 'अनाभोगेन' अजानत एव 'प्रतिगच्छति' भूयः प्रविशति ईशं समुद्दिश्यताम् । गुरुराह - एते द्वयेऽपि प्रकारा न भवन्ति । द्वये नाम-ये प्रथम-द्वितीया दिवाऽप्युद्गारं प्रतिषेधयन्ति येच तृतीय-चतुर्था रात्रावुद्गारमनुमन्यते एते द्वयेऽपि न घटते, किन्तु येनाऽऽवश्यकयोगानां न हानिस्तावदाहारयितव्यम् । मुखनिर्गतं वोद्गारं ज्ञात्वा यः प्रत्यवगिलति तत्र सूत्रनिपातः । एनां सङ्ग्रहगाथां विवरीषुराह
[भा. ५८४९] भणति जति ऊणमेवं, तत्तकवल्ले य बिंदुनासणता । बितिओन संथरेवं तं भुंजसु सूरे जं जिज्जे ॥
- एको नैगमनयाश्रितो भणति यद्यूनं भोक्तव्यं ततस्तप्ते कवल्ले प्रक्षिप्तस्योदकबिन्दोस्तत्कालमेव यथा नशनं भवति तथा यद् भुक्तमात्रमेव जीर्यति ईशं भोक्तव्यम् । द्वितीयः प्राह- 'एवम्' ईद्दशे भुक्ते न संस्तरति तस्मात् तदीदृशं भुक्ष्व यत् सूर्येऽस्तमयति जीर्यते ॥
[भा. ५८५० ] निग्गंधी उग्गालो, ततिए गंधो उ एति न उ सित्थं । अविजाणंत चउत्थे, पविसति गलगं तु जो पप्प ॥
वृ-गन्धे द्वावादेशौ । एको भणति सूर्यास्तमने जीर्णे आहारे रात्रावसंस्तरणं भवति तस्मादी शं भुङ्क्तां येनास्तमितेऽपि 'निर्गन्धः' अन्नगन्धरहित उद्गार एति । द्वितीयः प्राह-यदि गन्ध उद्गारस्य 'एति' आगच्छति तत आगच्छतु यथा सिक्थं नागच्छति तथा भुङ्क्ताम् । एतौ द्वावप्येक एव तृतीय आदेशः । चतुर्थो भणति ससिक्थ उद्गारो गलकं प्राप्याविजानत एव यावद् भूयः प्रविशति तावद् भुङ्क्ताम् । एते चत्वारोऽप्यनादेशाः ॥ तथा चाह
[भा. ५८५१] पढम- बितिए दिया वी, उग्गालो नत्थि किं पुन निसाए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org