SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं-१०९, [भा. ४८३७] तस्य 'असति' अभावे यद् ‘अन्तम् प्रान्तं तद् दीयते॥ [भा.४८३८] रुद्ध वोच्छिन्ने वा, दारढे दो विकारणं दीवे। इहरा चारियसंका, अकालओखंदमादीसु॥ वृ-अथ निर्गतानां द्वारं रुद्धं-स्थगितं गमागमो वा व्यवच्छिन्नस्ततः 'द्वयेऽपि' आभ्यन्तरा बाह्याश्च साधवो द्वारस्थस्याग्रे कारणं दीपयन्ति।आभ्यन्तराब्रुवते-अस्माकंसाधवो बहिर्निर्गताः बहिश्च रुद्धाः; बाह्या ब्रुवते-वयं कारणे भिक्षायां बहिर्निर्गता परं द्वाराणि निरुद्धानि । 'इतरथा' यदि न कथयन्ति ततः अकाले-रात्रौ वा विकाले वा यद्यवस्कन्दः-धाटी तदादीनि भवन्ति तदा चारिकशङ्का भवेत्-ये साधवो निर्गतास्ते भूयोन प्रविष्टाः, नूनं चारिकास्तेआगता आसीरनिति। [भा.४८३९] बाहिं तु वसिउकामं, अतिनेंती पेल्लणा अनेच्छंते । गुरुगा पराजय जये, बितियं रुद्ध व वोच्छिन्ने । वृ-बहिर्निर्गतानां कोऽप्येकश्चिन्तयेत्-मुक्तोऽस्मितावत् चारकवासात्, न भूयः प्रविशामि; अत्र सूत्रमवतरति । एवं बहिर्वसन्तं प्रज्ञापयन्ति-आर्य ! सूत्रे प्रतिषिद्धम्, न वर्तते बहिर्वस्तुम्, द्वयोर्जिन-राजाज्ञयोरतिक्रमः कृतो भवति । एवं प्रज्ञाप्य नगरं प्रवेशयन्ति । अथ नेच्छति प्रवेष्टुं ततः “पेल्लण"त्तिबलामोटिकया शेषैः स प्रवेशनीयः । यदि न प्रवेशयन्ति ततश्चत्वारो गुरुकाः। कदाचिदाभ्यन्तराणांपराजयोऽपरेषांचजयोभवेत्ततः एभिर्भेदः प्रदत्तः' इति शङ्कयाप्रस्तारदोषा भवेयुः । द्वितीयपदमत्रभवति-बहिर्निर्गतस्यसर्वतोऽपिनगरं निरुद्धम्, गमागमः सर्वथैव व्यवच्छिन्न इति कृत्वा तत्रापि वसन् शुद्धः॥ मू. (११०) से गामंसि वा जाव सन्निवेसंसि वा कप्पइ निग्गंथाण वा निग्गंथीण वा सव्वओ संमंता सकोसंजोयणं उग्गहं ओगिण्हित्ताण चिट्टित्तए। वृ-अस्य सम्बन्धमाह- . [भा.४८४०] . गामाइयाण तेसिं, उग्गहपरिमाणजाणणासुत्तं । कालस्स व परिमाणं, वुत्तं इहइंतु खेत्तस्स ॥ वृ. तेषाम्' अनन्तरसूत्रोक्तानां ग्रामादीनां कियानवग्रहो भवति ? इति शङ्कायामवग्रहपरिमाणज्ञापनार्थमिदंसूत्रमारभ्यते ।यद्वापूर्वसूत्रेषु "अहालंदमविउग्गहे" इत्यादिभणताऽव=ग्रहविषयं कालस्य परिमाणमुक्तम्, इह तु क्षेत्रस्य तदेवोच्यते ॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-अथ ग्रामे वा नगरे वा यावत् सन्निवेशे वा कल्पते निर्ग्रन्थानांवा निर्ग्रन्थीनां वा ‘सर्वतः' सर्वासुदिक्षु 'समन्तात्' चतसृष्वपि विदिक्षु सक्रोशंयोजनमवग्रहमवगृह्य स्थातुमिति सूत्रार्थः॥ अथ भाष्यविस्तरः[भा.४८४१] उड्वमहे तिरियं पिय, सकोसगं होइ सव्वतो खेत्तं । इंदपदमाइएसुं, छद्दिसि सेसेसु चउ पंच॥ वृ-ऊर्ध्वदिय् अधोदिक् "द्वितियं पिय" ति तिर्यक्-पूर्व-दक्षिणाऽपरोत्तरा लक्षणाश्चतस्रो दिशः, एतासुषट्सु दिक्षु गिरिमार्गे स्थितायां सर्वतः सकोशांयोजनं क्षेत्रं भवति, तच्चइन्द्रपदादिषु सम्भवति । इन्द्रपदो नाम-गजाग्रपदगिरिः, तत्र ह्युपरिष्टाद् ग्रामो विद्यते अधोऽपि ग्रामो मध्यमश्रेण्यामपिग्रामः। तस्याश्चमध्यमश्रेण्याश्चतसृष्वपि दिक्षुग्रामाः सन्ति, ततो मध्यमश्रेणिग्रामे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy