________________
९४
बृहत्कल्प-छेदसूत्रम् -३-३/१०९ परितंतमपरितंता, नागर सेना वन वि जाणे॥ वृ-बाह्यस्कन्धावारसत्काः पृच्छेयुः-नगराभ्यन्तरे कियन्तऽश्वा हस्तिनो योधा वा सज्जिताः सन्ति? धान्यं वा कियन्नगरेऽस्ति? 'नागराः' पौराः सेना वा परितान्ताः' रोधकेणोद्विग्ना उत 'अपरितान्ताः' अनुद्विग्नाः? । एवं पृष्टे वक्तव्यम्-न जानेऽहं॥
ते ब्रवीरन्-तत्रैव वसन्तः कथं न जानीथ ? । साधवो ब्रुवते[भा.४८३४] सुणमाणा विन सुणिमो, सज्झाय-ज्झाण निच्चमाउत्ता।
सावजं सोऊण विन हुलब्भाऽऽइक्खिउं जतिणो॥ वृ-वयं स्वाध्याय-ध्यानयोर्नित्यमायुक्ताः सन्तः शृण्वन्तोऽपि वार्तान्तरं न शृणुमः, अपि चसावा श्रुत्वाऽपियतीनामन्यस्याख्यातुं न लभ्यते' नयुज्यते।अन्तःप्रविष्टस्य तु यदि कोऽपि पृच्छति तदा वक्तव्यम्-भिक्षाधुपयोगेन न ज्ञातम् । अन्तर्बहिश्च साधारणमिदमुत्तरम्
शृणोति बहु कर्णाभ्यामक्षिभ्यां बहु पश्यति।
न च दृष्टं श्रुतं सर्वं, भिक्षुराख्यातुमर्हति ॥ एवं भिक्षामटित्वा पर्याप्त सआते सति किं कर्तव्यम् ? इत्याह[भा.४८३५] भत्तट्टणमालोए, मोत्तूणं संकिताई ठाणाई।
सच्चित्ते पडिसेधो, अतिगमनं दिट्ठरूवाणं॥ भक्तार्थनं भोजनं आलोके प्रकाशेभवति।यानि 'शङ्कितानि'चारिकादिशङ्काविषयभूतानि गुपिलानि स्थानानि तानि मुक्त्वा, तेषु न विधेयमित्यर्थः । यश्च सचित्तः प्रव्रजितुमुपतिष्ठते तत्र 'प्रतिषेधः' स न प्रव्राजयितव्यः किन्तु ये पूर्व द्वारपालेन दृष्टरूपाः कृतास्तेषामेव 'अतिगमनं' भूयः प्रवेशो भवति ॥ एषा बर्थसङ्घाहिका नियुक्तिगाथा, अत एनांभाष्यकृद् विवृणोति[भा.४८३६] सावग-सन्निट्ठाणे, ओतवितेकतर इतर भत्तहुँ ।
तेसऽसती आलोए, वडग-कुरुयादि सच्चेव ॥ वृ-यत्रश्रावकः श्राविकाचोभयमपिओयवितं-साधुसामाचारीकुशलं तत्रस्थाने भक्तार्थयन्ति। तदलाभे यत्रैकतरं साधुसामाचारीचतुरंतत्रसमुद्देष्टव्यम् । एकतरस्यापिखेदज्ञस्याभावे 'इतरेषु' अखेदज्ञेष्वपि श्रावकेषुयथाभद्रकेवा भक्तार्थयितव्यम्।तेषामभावेऽटव्याम् 'आलोके अशङ्कनीये सप्रकाशे प्रदेशे समुद्दिशन्ति । वड्डग-कुरुकुचादिका तु सैव यतना कर्तव्या । शैक्षस्तु यदि कोऽप्युपतिष्ठते तदान प्रव्राजनीयः ।अथकोऽपि स्वयमेव लिङ्गं कृत्वा प्रविशति ततो वक्तव्यम्वयं गणिता नामाङ्किता एव द्वारेण निर्गताः, ततः त्वं तत्र गतः सन् गृहीत्वा विनाशयिष्यसे । एवमुक्तेऽपि यद्यसावागच्छति तदा द्वारं प्राप्ता द्वारपालं भणन्ति-न जानीमो वयं कमप्येनम्, अस्मानेतान् दृष्टरूपान् कुरुत॥ [भा.४८३७] भत्तट्ठिय बाहाडा, पुनरवि घेत्तु अतिंति पज्जत्तं ।
अनुसट्टी दारट्टे, अन्नो वऽसतीय जं अंतं॥ वृ-एवं भक्त-पानं पर्याप्तं गृहीत्वा 'भक्तार्थिताः' कृतभोजनाः 'बाहाडिताः' तद्भुक्तन्यूनभाजनाः पुनरपि नगरं 'अतियन्ति' प्रविशन्ति । यदि ‘द्वारस्थः' द्वारपालो मार्गयति-पौद्गलिकं मे प्रच्छत; ततोऽनुशिष्टि कर्तव्या। अन्यो वा यदि कोऽप्यनुकम्पया ददाति तदा न वारणीयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org