________________
उद्देशक : ३, मूलं-१०९, [भा. ४८२७] एवं च कुल-गण-सङ्घप्रस्तारोऽपि राज्ञा क्रियेत ततो निष्कारणे न गन्तव्यम् ॥ [भा.४८२८] अंतो अलब्ममाणे, एसणमाईसु होति जइतव्वं ।
जावंतिए विसोधी, अमच्चमादी अलाभे वा॥ वृ-'अन्तः' मध्ये प्राशुकैषणीयेऽलभ्यमाने पञ्चकपरिहाणिक्रमेणैषणादिषु दोषेषुनगराभ्यन्तर एव यतितव्यम्, यावद् यावन्तिकादिरूपेषु विशोधिकोटिदोषेषु यतमानश्चतुर्लघुप्राप्तो भवति । तथाप्यलम्भेऽमात्यं आदिशब्दाद् दानश्राद्धादीन् वा प्रज्ञापयन्ति । ते यद्यविशोधिकोटिदोषैर्दुष्टं प्रयच्छन्ति तदा तदपि गृह्यते, न पुनर्बहिर्गन्तव्यम् ॥अथ तथापि न लभ्यते ततः[भा.४८२९] आपुच्छित आरक्खित, सेट्ठी सेनावती अमञ्च रायाणं।
निग्गमन दिगुरूवे, भासा य तहिं असावज्जा ॥ वृ-'आरक्षिकः' कोट्टपालस्तमापृच्छन्त-वयमत्रनसंस्तरामः ततोबहिर्निर्गच्छतांद्वारंप्रयच्छत। यद्यसौ ब्रूयात्-मा निर्गच्छत अहं भवतां पर्याप्तं दास्यामि ततो गृह्यते । अथ ब्रूयात्-नास्ति मे किञ्चिद् भक्तं दातव्यम्, युष्मांश्च विसर्जयन् राज्ञो बिभेमि, ततः श्रेष्ठिनं पृच्छत । ततः श्रेष्ठिनमापृच्छन्ति, एवं सेनापतिममात्यं राजानंवाऽऽपृच्छन्ति । ततोयदि राज्ञाऽपिविसर्जितास्तदा निर्गमनं कुर्वन्ति।द्वारपालानांचसाधवो दर्श्यन्ते, यथा-एतान्दृष्टरूपान् कुरुत, भिक्षाग्रहणार्थमेते निर्गमिष्यन्ति प्रवेक्ष्यन्ति वा, न किञ्चिद् भवद्भिर्वक्तव्यम् । तत्र च बहिर्गतैरसावद्या भाषा भाषितव्या ।। अमुमेवार्थं स्पष्टयति[भा.४८३०] मा वच्चह दाहामि, संकाए वा न देंति निग्गंतुं।
दानम्मि होइ गहणं, अनुसट्ठादीणि पडिसेधे। वृ-आरक्षिकादयः पृष्टाः सन्तो भणन्ति-मा व्रजत, वयं भक्तं दास्यामाहे । ते च भेदशङ्कया साधूनां निर्गन्तुं न ददति ततो यद्यविशुद्धमपि ते प्रयच्छन्ति तदा तस्य ग्रहणं कर्त्तव्यम् । अथ “पडिसेहे"त्ति न भक्तं न च निर्गन्तुं ददति ततोऽनुशिष्टि-धर्मकथादीनि प्रयुज्यन्ते ॥ [भा.४८३१] बहिया वि गमेतूणं, आरक्खितमादिणो तहिं निति।
हित-नट्ठ-चारिगादी, एवं दोसा जढा होति॥ वृ-बहिरपि गता एवमेवारक्षिक-श्रेष्ठिप्रभृतीन् ‘गमयित्वा' प्रज्ञाप्य तत्र भिक्षामटन्ति । एवं कुर्वद्भिर्हत-चारिकादयो दोषाः परिहृता भवन्ति ॥
ये साधवो बहि प्रस्थाप्यन्ते तेऽमीभिर्गुणैर्युक्ता भवन्ति[भा.४८३२] पियधम्मे दढधम्मे, संबंधऽविकारिणो करणदक्खे ।
पडिवत्तीसुय कुसले, तब्भूमे पेसए बहिता ॥ वृ-प्रियधर्मणो दृढधर्मणश्च प्रतीतान्, “संबंध" त्ति येषांअन्तर्बहिश्च स्वजनसम्बन्धो भवति 'अविकारिणो नाम' नोद्भटवेषान वानक्दर्पशीलास्तान्, 'करणदक्षान्' भिक्षाग्रहणादिक्रियासु परिच्छेदवतः, प्रतिपत्ति-प्रतिवचनप्रदानं तत्र कुशलान्, “तब्भूमि"त्ति यो बहि स्कन्धावार आगतस्तस्य भूमौ जात-वर्धितान्, एवंविधान् साधून् बहि प्रेषयेत्॥ "भासा यतहिं असावज्ज" त्ति पदं व्याचिख्यासुराह
[भा.४८३३] केवतिय आस हत्थी, जोधा धन्नं व कित्तियं नगरे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org