________________
९६
बृहत्कल्प-छेदसूत्रम् -३-३/११० स्थितानांषट्सु दिक्षु क्षेत्रं भवति।आदिशब्दाद अन्योऽपि य ईशः पर्वतस्तस्य परिग्रहः । शेषेषु पर्वतेषु चतसृषु पव्वसु वा दिक्षु सकोशं योजनं क्षेत्रं भवति।
समभूमिकायां व्याघाताभावे दिक्चतुष्टये क्षेत्रम्, व्याघातं प्रतीत्य पुनरित्थम्[भा.४८४२] एगं व दो व तिन्नि व, दिसा अकोसंतु सव्वतो वा वि। .
. सव्वत्तो तुअकोसे, अगुजाणाओ जाखेत्तं॥ वृ-एकदिग्भाविना पर्वतादिव्याघातेन किञ्चिद् ग्रामादिकमेकस्यां दिशि अक्रोशं भवति, सकोशयोजनावग्रहरहितमित्यर्थः। एवंदिग्द्वयभाविवाव्याघातेन द्वयोर्दिशोस्क्रोशम्, त्रिदिग्भाविना तिसृषु दिक्षु, दिक्चतुष्टयभाविना तु सर्वतोऽप्यक्रोशं भवति । तत्र च सर्वतोऽक्रोशे ग्रामादौ अग्रोद्यानं यावत् क्षेत्रम्, ततः परमक्षेत्रमिति॥ किञ्च[भा.४८४३] संजम-आयविराधन, जत्थ भवे देह-उवहितेना वा।
तंखलु न होइ खेतं, उग्घेयव्वंच किं तत्थ ॥ वृ-यत्र ग्रामादौ प्राप्तानां संयमा-ऽऽत्मविराधना भवति, यत्र च देहोपधिस्तेषा भवन्ति तत् खलु क्षेत्रंन भवति । किं वा तत्रावग्रहीतव्यं येन क्षेत्रमुच्येत? ॥अथ किं पुनः क्षेत्रम् ? इत्याह[भा.४८४४] खेत्तं चलमचलं वा, इंदमनिंदं सकोसमक्कोसं।
वाघातम्मि अकोसं, अडविजले सावए तेने॥ वृ-यत्रावग्रहो विचारयितुमुपक्रान्तस्तात् क्षेत्रंचलमचलं वा भवेत् । चलं व्रजिकादि, अचलं ग्रामादि।पुनरेकैकं द्विधा- एन्द्रम्' इन्द्कीलादियुक्तम् 'अनिन्दंवा' तद्विपरीतम्।तत्रयदचलमनिन्दं च तत् सक्रोशमक्रोशं वा । पश्चानुपूर्व्या अमूनेव भेदान् व्याचिख्यासुरिदमाह-“वाघायम्मि" इत्यादि, यत्र यस्यां दिशि व्याघातस्तत् तस्यामक्रोशं भवति । कः पुनव्या_तः? इति चेद् अत आह-अटवी तस्यां दिशि वर्तते, “जलं"ति समुतो नदी वा तत्राऽऽस्ते, 'श्वापदा वा' सिंहव्याघ्रादयः तत्र सन्ति, 'स्तेना वा' उपधि-शरीरहरा विद्यन्ते । एतैः कारणैः सा दिग् निरुद्धा, ग्राम-गोकुलाद्यभावादवग्रहीतव्यं किमपि तत्र नास्ति ॥अथ सक्रोशमाह[भा.४८४५] सेसे सकोस मंडल, मूलनिबंधं अनुम्मुयंताणं। .
पुबुट्टिताण उग्गहो, सममंतरपल्लिगा दोण्हं।। वृ-शेषनाम-यद् अनन्तरोक्तव्याघातरहितंतत्र मूलनिबन्धंमाण्डलममुञ्चतां सार्वतः सक्रोशं योजनमवग्रहो भवति। कथम्? इति चेद् उच्यक्ते-मूलग्रामादेकैकस्यां दिशियोजनार्दमर्द्धक्रोशेन सधिकं तावदवग्रहो भवति, स च पूर्वा-ऽपराभ्यां दक्षिणोत्तराभ्यां वा कृत्वा सक्रोशं योजनं भवति, यद्वा गति-प्रत्यागतिभ्यामेकस्यामपि दिशि (सक्रोशं) योजनं मन्तव्यम् । तत्र सक्रोशे अक्रोशे वा येपूर्वस्थितास्तेषामवग्रहो भवति । यत्र समकमनुज्ञापितं तत् क्षेत्रं साधारणम् । अथ सम्बद्धेषु क्षेत्रेषु समकमेवानुज्ञापितं तोत यदि द्वेअन्तरपल्लिकेतत एकेषामेका अपरेषामप्येका। अथैकैवान्तरपल्लिका ततो द्वयोरपि साधारणा॥ ..
अथ बह्वयस्तत्रान्तरपल्लिकास्ततः को विधिः? इत्याह[भा.४८४६] खेत्तस्संतो दूरे, आसन्नं वा ठिताण समगंतु।
अद्धं अद्धद्धं वा, दुगाइसाहारणं होइ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org