________________
उद्देशक : ३, मूलं - ११०, [भा. ४८४६]
९७
वृद्वित्रप्रभृतिषु सम्बद्धेषु क्षेत्रेषु समकमनुज्ञाप्य स्थितानां काश्चिदन्तरपल्लिकाः 'क्षेत्रान्तः' क्षेत्रस्याभ्यन्तरे भवति, “दूरे "त्ति काश्चित्तु दूरे याभ्यः समुदानं मूलग्राममानीयमानं क्षेत्रातिक्रान्तं भवतीति कृत्वा प्रथमालिकायां तद् निर्वाह्यते, “आसन्ने” त्ति काश्चित् पुनरासन्ने याभ्यः समुदानं मूलग्राममानीयमानं क्षेत्रातिकान्तं न भवति । ततो यावन्त्यस्ता अन्तरपल्लिकास्तासां सर्वासामप्यर्द्ध वा, अर्द्धर्द्ध वा चतुर्थभागइत्यर्थः, वाशब्दात् त्रिभागादिकं वा द्विकादीनां द्वित्रिप्रभृतीनां गच्छानां साधारणं भवति ॥ अथात्रैवाभाव्या-ऽनाभाव्यविधिमाह
[ भा. ४८४७ ] तण- डगल-छार- मल्लग - संथारग-भत्त- पानमादीणं । सति लंभे अस्सामी, खेत्तिय ते मोत्तऽणुन्नवणा ।।
वृ-तृण-डगल-क्षार-मल्लक-संस्तारक-भक्त- पानादीनां 'सति' विद्यमाने प्राचुर्येण लाभे क्षेत्रिका अस्वामिनः, अक्षेत्रिकाणामप्येतान्याभवन्तीत्यर्थ । "ते मोत्तऽणुन्नवण "त्ति येषां तृणादीनां क्षेत्रिकैरनुज्ञापना कृता तानि मुक्त्वा, तान्यक्षेत्रिकाणां नाभवन्तीति भावः ॥
किं पुनः क्षेत्रिकाणामाभवति ? इत्युच्यते
[भा. ४८४८] ओहो उवग्गहो वि य, सच्चित्तं वा वि खेत्तियस्सेते । मोत्तूण पाडिहारि, असंथरंते वऽणुन्नवणा ।।
वृ- ओघोपधिरुपग्रहोपधिश्च 'सचित्तं वा' शैक्षादिकम्, एतानि क्षेत्रिकस्याभवन्ति । यद्यक्षेत्रिका तेषामेकतरं गृह्णन्ति तदा प्रायश्चित्तम्, परं मुक्त्वा प्रातिहारिकं द्विविधमप्युपधिम्, तं गृहस्थेभ्यो मार्गयन्तो न प्रायश्चित्तभाज इति हृदयम् । यः पुनरप्रातिहारिकस्तं न लभन्ते । अथ शीतादिना परिताप्यन्ते तत एवमसंस्तरद्भिर्वस्त्रादेरनुज्ञापना कर्तव्या । क्षेत्रिकैरपि संस्तरणे तेषामनुज्ञातव्यम् ॥ [ भा. ४८४९] जइ पुन संथरमाणा, न दिंति इतरे व तेसि गिण्हंति । तिविधं आदेसो वा तेन विना जा य परिहानी ॥
वृ- यदि पुनः संस्तरन्तः क्षेत्रिका असंस्तरतामत्रक्षेत्रिकाणां वस्त्रदिकं न प्रयच्छन्ति, 'इतरे वा' अक्षेत्रिकाः संस्तरन्तोऽपि 'तेषां ' क्षेत्रिकाणामनापृच्छया बलामोटिकया वा गृह्णन्ति ततः ‘त्रिविधं’ जघन्य-मध्यमोत्कृष्टनिष्पन्नं पञ्चक-मासलघु-चतुर्लघुलक्षणं प्रायश्चित्तम्, सूत्रस्यादेशाद्वा नवमम् । 'तेन च' वस्त्रदिना विना या परिहानि तन्निष्पन्नमपि तेषां प्रायश्चित्तम् ॥ इदमेव व्यक्तीकरोति
[भा. ४८५० ] जे खेत्तिया मोत्ति न देंति ठागं, लंभे वि जाऽऽ गंतुवयंते हानी । पेल्लंति वाऽऽगंतु असंथरम्मि, चिरं व दोण्हं पि विराधना उ ।
वृ-ये 'क्षेत्रिका वयम्' इति कृत्वा भक्त-पानादेः प्राचुर्येण लाभेऽपि अन्येषां "ठागं' अवकाशं न प्रयच्छन्ति तत आगन्तुकानां व्रजतां या परिहाणिस्तन्निष्पन्नं तेषां प्रायश्चित्तम् । अथ क्षेत्रिकाणामसंस्तरणेऽप्यागन्तुकाः 'प्रेरयन्ति' प्रेर्य तिष्ठन्ति ते चागन्तुका अदेशिकाः प्राघुणकाश्च ततः 'चिरं वा' प्रभूतं कालं वाशब्दाद् अल्पं वा कालमसंस्तरणं तेषां भवेत् ततः 'द्वयेषामपि ' आगन्तुकानां वास्तव्यानां च या विराधना तन्निष्पन्नं प्रायश्चित्तम् ।। यत एवमतः
[ भा. ४८५१] अत्थि हुवसभग्गामा, कुदेसणगरोवमा सुहविहारा।
20 7
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org