________________
९८
बृहत्कल्प-छेदसूत्रम् - ३-३/११०
बहुगच्छुवग्गहकरा, सीमच्छेदेण वसियव्वं ॥
वृ- 'सन्ति' विद्यन्ते वृषभग्रामाः । इहाचार्य आत्मद्वितीयो गणावच्छेदिक आत्मतृतीय एष पञ्चको गच्छो भवति, ईशास्त्रयो गच्छाः पञ्चदश जनाः, एते यत्र ऋतुबद्धे निर्वहन्ति; वर्षासु पुनः सप्तको गच्छः, तद्यथा - आचार्य आत्मतृतीयो गणावच्छेदिक आत्मचतुर्थः, ईशास्त्रयो गच्छा एकविंशतिर्जना भवन्ति, एते यत्र वर्षावासे जघन्येन निर्वहन्ति ते वृषभग्रामा उच्यन्ते । ते च कीशाः ? इत्याह- कुदेशस्य यन्नगरं तेनोपमा येषां ते कुदेशनगरोपमाः, ते च 'सुखविहाराः ' सुलभभक्त-पाना निरुपद्रवाश्च, अत एव बहूनामन्तरोक्तप्रमाणनां त्रिप्रभृतीनांगच्छानामुपग्रहकराः, ततस्तेषु सीमाच्छेदेन बहुभिरपि गच्छैर्वस्तव्यम्, न कोऽपि परस्परं मत्सरो विधेय इति भावः । सीमाच्छेदो नाम - साहिका ग्रामार्ध-वाटकादिविभजनम् । यथा - अस्यां साहिकायां भवद्भिः पर्यटनीयम् अस्या पुनरस्माभिरित्यादि । यद्वा ये तत्र क्षेत्रे समकं प्राप्तास्तैः सीमाच्छेदेन वस्तव्यम् । यथा- युष्माकं सचित्तमस्माकमचित्तम्, अथवा युष्माकमन्तः अस्माकं बहि, युष्माकं स्त्रियः अस्माकं पुरुषाः, युष्माकं श्राद्धाः अस्माकमश्राद्धाः, अथवा यो यद् लप्स्यते तस्यैव तद् आभाव्यम् ॥ इदमेव व्याख्यानयति
[भा. ४८५२ ]
एक्कवीस जहन्त्रेणं, पुव्वट्ठितै उग्गहो इतरे भत्तं । पल्ली पडिवसमेवा, सीमाए अंतरा गामो ॥
वृ-पूर्वोक्तनीत्या वर्षासु एकविंशतिर्जनाः उपलक्षणत्वाद् ऋतुबद्धे पञ्चदश जना यत्र जघन्येन संस्तरन्ति स वृषभग्राम उच्यते, उत्कर्षतस्तु द्वयोरपि कालयोर्द्वात्रिंशत्सहस्रसङ्ख्याको गच्छो यत्र संस्तरति स वृषभग्रामः, तत्र ये पूर्वस्थितास्तेषामवग्रहः, इतरे भक्त - पानमात्रसंतुष्यस्तिष्ठन्ति, तत्र च सीमाच्छेदो विधात्यः । कथम् ? इत्याह- "पल्ली" इत्यादि, युष्माभिरन्तरप्ल्यां पर्यटनीयम्, अस्माभि प्रतिवृषभग्रामे । प्रतिवृषभग्रामो नाम मूलग्रामादर्घयोजने महान् ग्रामः । अथवा अन्तरपल्लयाः प्रतिवऋषभस्य वा अर्धं युष्माकमर्धमस्माम् । एवं सीमायां मूलग्रामस्य प्रतिवृषभग्रामस्य वाऽन्तरा यो ग्रामस्तस्याप्यर्धं युष्माकमधर्मस्माकम् । एतदचलमनिन्द्रं च क्षेत्रं यन्तव्यम् ॥ अथाचलयैन्द्रं क्षेत्रमाह
[भा. ४८५३ ] इंदक्खीलमनोग्गहो, जत्थ य राया जहिं च पंच इमे । सेट्ठि अमच्च पुरोहिय, सेनावत्ति सत्थवाहे य ॥
वृ- इन्द्रकीलको नाम- इन्द्रस्थूणा सा यजोत्तिष्ठते इन्द्रमातृका वा तत्र 'अववग्रहः' अवग्रहो न भवति । अनिन्द्रकीलकेऽपि यत्र राजा मूर्धाभिषिक्तः परिवसति । राजरहितेऽपि यत्रेमे पञ्च वसन्ति श्रेष्टी अमात्यः पुरोहितः सेनापति सार्थवाहश्चेति ॥
[भा. ४८५४] अद्धाणसीसए वा, समोसरणे वा वि ण्हाण अनुयाणे । एतेसु नत्थि उग्गहो, वसहीए मग्गण अखेत्ते ॥
वृ- अध्वशीर्षकं नाम यतः परं समुदायेन यन्तव्यं सम्यग् मार्गावहनात् तत्र मिलितानाम्, समवसरणं नाम - कुलसमवायो गणसमवायः सङ्घसमवायो वा (तत्र मिलितानाम्, ] स्नानम्अर्हव्यतिमास्नपनं तन्नियित्तमेकत्र मिलितानाम्, अनुयानं रथयात्रा तत्र वा मिलितानाम्, एतेषु नास्त्यवग्रहः । अथ एवाक्षेत्रतया एतेषु वसताववग्रहस्य मार्गणा कर्त्तव्या ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org