________________
९९
उद्देशकः ३, मूलं-११०, [भा. ४८५४]
अथ किमर्थमेतेष्ववग्रहो न भवति? इत्युच्यते[भा.४८५५] बहुजनसमागमो तेसु होत्ति बहुगच्छसत्रिवातोय।
वा पुव्वं तु तदट्ठा, पेल्लेज अकोचिया खेत्तं॥ वृ-'तेषु' इन्द्रकीलकादिषु बहोः-प्रभूतस्य जनस्य समागतो भवति, अध्वशीर्षकादिषु च बहूनांगच्छानां सन्निपातः-मीलकोभवति, अतः केचिदकोविदाः तदर्थं क्षेत्रमिदमस्माकमेवाभाव्यं भवतु' इति कृत्वा पूर्वम्' अन्येभ्यःप्रथमंसमागत्यमा क्षेत्रं प्रेरयेयुः इत्येतेषुनावग्रहोऽधिक्रियते।।
इदमेव भावयति[भा.४८५६] सड्ढा दलंता उवहिं निसिद्धा, सिढे रहस्सम्मि करेज मन्नु।
पभावयंते य न मच्छरेणं, तित्यं सलद्धी दुहतो वि हानी॥ वृ-तत्रेन्द्रकीलादौ श्राद्धाः केषाञ्चिदाचार्याणां 'उपधिम् वस्त्राद्युपकरणं दातुं लग्नाः, तैश्च 'नवर्ततेऽस्माकमिदं ग्रहीतुम्' इति भणित्वा तेनिषिद्धाः; ततः श्राद्धाः पृच्छेयुः-एषमीयान्यप्यमूनि वस्त्राणि किमिति न कल्पन्ते ?; ततो रहस्यम्-'नास्माकममूनि आभवन्ति' इतिलक्षणं तेषां पुरतः कथयितव्यम्, तत्र च 'शिष्टं' कथिते सति ते श्राद्धाः ‘मन्युम्' अप्रीतिकं कुर्वीरन् । येच 'सलब्धयः' धर्मकथादिलब्धिसम्पन्नास्ते मत्सरेण 'वयं किमपि तावद् न लप्स्यामहे अतः किमर्थमेवमेव प्रयासं कुर्मः?' इत्यनुशयेन तीर्थं धर्मकथादिनान प्रभावयन्ति। ततः “दुहतो वि हाणि"त्तिद्वयोरपि-सचित्ता-ऽचित्तलाभयोः परिहाणिर्भवति।तत्र सचित्तहानि कोऽपिदेशविरतिं सर्वविरतिवान प्रतिपद्यते, अचित्तहानिराहार-वस्त्रादि तथाविधंन प्राप्यते।अतएतेषुनावग्रहो भवति । वसतिं प्रतीत्य पुनरेतेष्वपि भवति ॥ कथम् ? इत्याह[भा.४८५७] एगालयट्ठियाणं, तु मग्गणा दूरे मग्गणा नत्थि।
आसने तुठियाणं, तत्थ इमा मग्गणा होइ॥ वृ-'एकालये' एकस्यां वसतौ स्थितानामवग्रहस्य मार्गणा भवति । तत्रयः पूर्वं तस्यां वसतौ स्थितः तस्य सचित्तमचित्तं वा आभवति । अथ समकं द्वौ बहवो वा स्थितास्तदा साधारणा सा वसतिः । ये तु तस्या वसतेदूर स्थिताः तेषासवग्रहस्य मार्गणा नास्ति । ये पुनरात्तन्ने स्थितास्तेषामियमवग्रहस्य मार्गणा भवति॥ .. [भा.४८५८] तज्झाय काल काइय, निल्लेवण अच्छणे असति जंतो।
वसहिगमो पेलंते, वसही पुन जा समापुना ॥ वृ-'अन्तः' प्रतिश्रयस्याभ्यन्तरे यदि स्वाध्यभूमेः कायिकाभूमेः पात्रविलेपनभूमेः आसनम्ध्यानादिनिमित्तमुपवेशनं तद्भूमेश्चाभावस्ततोया बहिस्वाध्यायभूमिप्रभृतयस्ताः समकमनुज्ञापिताः साधारणाः । अथैके पूर्व स्थिता अपरे च पश्चात् ततः पूर्वस्थितानामवग्रहः, पश्चादागतास्तु पूर्वस्थिताननुज्ञापयन्ति । यदि ते पूर्यमाणेऽवकाशे नानुजानन्ति इतरे वा तमपूर्यमाणं प्रेरयन्ति ततो वसतिविषयोऽपि स एव प्रायश्चित्तादिर्गमो भवति यः पूर्वं क्षेत्रं प्रेरयताम् उपलक्षणत्वाद् अननुज्ञापयतांचोक्तः । वसतिपुनरिह या समापूर्णा' श्रमणैराकुला तस्याःप्रेरणेदोषामन्तव्याः।। उक्तमचलक्षेत्रम् । अथ चलमाह
[भा.४८५९] वइगा सत्थो सेना, संवट्टो चउविहं चलं खेत्तं ।
ति
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org