________________
१००
बृहत्कल्प-छेदसूत्रम् -३-३/११०
एतेसिं नाणत्तं वोच्छामि अहानुपुव्वीए ॥
वृ- व्रजिका सार्थ सेना संवर्त्त इति चतुर्विधं चलं क्षेत्रम् । एतेषां चतुर्णामपि नानात्वं वक्ष्यामि यथाऽऽनुपूर्व्या । प्रतिज्ञातमेव करोति
[ भा. ४८६० ] जेनोग्गहिता वइगा, पमाण तूह दुह भंडि परिभोगे ।
समवइग पुव्व उग्गह, साहारण जं च नीसाए ॥
वृ- येन साधुना सा व्रजिका पूर्वमवगृहीता स व्रजिकावग्रहस्य स्वामी भवति । तस्य च व्रजिकावग्रहस्य किं प्रमाणम् ? इति चिन्तायां चरितुं व्रजन्ति तावान् व्रजिकाया अवग्रहः; अपरो ब्रवीति - "तू" ति तीर्थं जलपानस्थानमित्येकोऽर्थः, तत्र जलपानार्थं गावो यावद् गच्छन्ति; अन्यः प्राह - "दुह "त्ति यत्रोपस्थाने गावो दुह्यन्ते । आचार्य प्राह त्रयोऽप्येते ऽनादेशाः, अयं तु समीचीन आदेशः-“भंडजि परिभोगे"त्ति यावति भूभागे 'भण्डिकाः ' गन्त्रयस्तिष्ठन्ति यावच्च व्रजिकायाः समीपे गोभि परिभुक्तम्, एवाद् व्रजिकावग्रहस्य प्रमाणं मन्तव्यम् । तत्र च यदि समकं द्वौ साधुवर्गावेकस्यां व्रजिकायां स्थितौ तदा साधारणा सा व्रजिका । अथैकः पूर्वं स्थितो द्वितीयस्तु ब्रजिकान्तरेण समं पश्चादायातस्ततः पूर्वस्यावग्रहो भवति । अथ परस्परनिश्रया स्थितास्ततः साधारणं तत् क्षेत्रम् । यस्याश्च व्रजिकाया निश्रया द्वितीया व्रजिका स्थिता तस्यां ये साधवस्तेषामवग्रह आभवतीति सङ्ग्रहगाथासमासार्थः । अथैनामेव विवरीषुरनादेशत्रयं निरस्याचार्यमतं तावद विभावयति
[ भा. ४८६१] न गोयरो नेव य गोणिपानं, नोवट्ठ दुज्झंति व जत्थ गावो । अब्भत्थ गोणादिसु जत्थ खुन्नं, स उग्गहो सेसमनुग्गहो तु ॥
वृ- न '‘गोचरः' गवां चारिस्थानं नैव च गवां यत्र पानं न वा यत्रोपस्थाने गावो दुह्यन्ते किन्तु व्रजिकाया अभ्यासे गवादिभिर्यत्र क्षुन्नं आदिशब्दाद् गन्त्रीभिश्च यावदाक्रान्तं तावानवग्रहः 'शेषं तु' गोचरादिस्थानं सर्वमप्यनवग्रहः ॥
[ भा. ४८६२] जइ समगं दो वइगा, ठिता तु साधारणं ततो खेत्तं । अन्नवइगाए सहिता, तत्थेवऽन्ने ठिता अपभू ॥
वृ- यदि समकमेकस्यां व्रजिकायां द्वौ गच्छौ स्थितौ ततः साधारणं तत् क्षेत्रम् । अथ काचिद् व्रजिका पूर्वं साधुभिरवगृहीता तत्रान्ये साधवो अन्यया व्रजिकया सहिताः पश्चादागताः तत्रैव व्रजिकायां स्थितास्तदा ते पश्चादागता अप्रभवः, पूर्वस्थिता एव स्वामिन इति ।।
[भा. ४८६३]
अन्नोन्नं नीसाए, ठिताण साहारणं तु दोन्हं पि ।
नीसट्ठिताए अपभू, तत्थ व अन्नत्थ व वसंता ॥
वृ- अथ पूर्वस्थिताः पश्चादागताश्च 'अन्योन्यं' परस्परं निश्रया स्थितास्ततस्तेषां द्वयेषामपि साधारणं क्षेत्रम् । अथ पूर्वस्या व्रजिकाया निश्रया स्थितायामागन्तुकव्रजिकायां ये साधवो वर्तन्ते ते तत्र वाऽन्यत्र वा वसन्तोऽवग्रहस्य 'अप्रभवः' न स्वामिनः ॥
अथ किमर्थमन्यस्या व्रजिकाया निश्रां सा व्रजिका प्रतिपद्यते ? उच्यते[भा. ४८६४] दुग्गट्ठिए वीरइहिट्ठिए वा, कते निवाणे व ठिएहि पुव्वं । भएण तोयस्स व कारणेणं, ठायंतगाणं खलु होइ निस्सा ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org