________________
उद्देशक : ३, मूलं - ११०, [भा. ४८६४]
१०१
वृ- 'दुर्गे स्थिताः' स्तेन- परचक्राद्यगम्ये स्थाने स्थिता साऽन्या व्रजिका, यद्वा वीरेण स्वामिना सा अधिष्ठिता, अथवा तैः 'पूर्वं स्थितैः' प्रथमव्रजिकासम्बन्धिभिर्गोकुलिकैस्तत्र 'निपानं' जलपानस्थानं कृतमस्ति, ततो भयेन तोयस्य वा कारणेन तस्यां व्रजिकायां तिष्ठतामपरेषां गोकुलिकानां निश्रा भवति । एवमागन्तुका व्रजिका येन कारणेन पूर्वस्या निश्रां प्रतिपद्यते तदभिहितम् । अथागन्तुकाया निश्रां यथा पर्वा प्रतिपद्यते तथा दर्शयति
[भा. ४८६५ ] भयसा उट्ठेतुमना, वइगा अन्ना य तत्थ जइ एज्जा । पच्छापत्ते निस्सा, जे पुव्वठिया न ते पभुणो ॥
वृ- काचिद् व्रजिका भयेन 'उत्थातुमनाः' प्रचलितुकामा, 'अन्या च' नवा व्रजिका यदि तत्रागच्छेत्, सा च बलवता परिगृहीता, ततः पश्चात्प्राप्ताया अपि तस्या निश्रां पूर्वा प्रतिपद्यते, ततो ये पूर्वस्थिताः साधवस्तेऽवग्रहस्य न प्रभवः किन्तु पश्चात्प्राप्ता इति ।।
अथ व्रजिकाया एव प्रकारान्तरमाह
[भा. ४८६६ ]
इगाए उट्टियाए, अच्छंते अहव होज्ज गेलनं । अन्ने तत्थ पविट्ठा, तम्मि व अन्नम्मि वा तूहे ॥
वृ- यस्यां व्रजिकायां साधवः स्थिता सा उत्थिता अन्या च तत्रागन्तुकामा तैः श्रुता तत उत्थितायामपि व्रजिकायां तिष्ठताम् अथवा ग्लानत्वं कस्यापि साधोर्भवेत् ततस्तत्रैव स्थितानामन्ये गोकुलिकाः साधुभिः सहिताः 'तत्र' प्राचीनव्रजिकास्थाने प्रविष्टास्ते च तत्र वा 'तूहे” तीर्थे गाः पानीयं पाययेयुः अन्यत्र वा ततोऽत्रावग्रहमार्गणा क्रियते ॥
[भा. ४८६७ ] जइ वा कुडी-पडालिसु, पुव्विल्लकतासु ते ठिता संता । अन्नमिवि पता, तूहे अस्सामिणो होंति ।।
वृ- वाशब्दः प्रकारान्तरद्योतकः । यदि 'ते' आगन्तुका गोकुलिका पूर्वगोकुलिककृतासु कुटीपडालिकासु स्थितास्ततोऽन्यस्मिन्नपि तीर्थे गाः पाययन्तोऽस्वामिनो भवन्ति । ततो यदि ते पूर्वस्थिताः साधवो निष्कारणिका तदा न प्रभवः । अथ ग्लानादिकारणेन स्थितास्तदा ते स्वामिनः, नागन्तुकाः तत्रावग्रहस्य प्रभवः ॥
[भा. ४८६८]
अन्नत्थ वा वि ठाउं, पाइंति कइल्लए जइ निवाणे । खलु न होंति पहुणो, सभावतूहे पहू हुंति ॥
वृ- यद्वा पूर्वकृताः कुटी - पडालिका वर्जयित्वाऽन्यत्र स्थाने स्थित्वा आगन्तुका गोकुलिका यदि पूर्वे कृते निपाने गाः पाययन्ति तदा 'ते खलु' आगन्तुकाः साधवो न प्रभवो भवन्ति । यदि तु ‘स्वभावतीर्थे' स्वाभाविके निपाने पाययन्ति तदा आगन्तुकाः साधवः प्रभव इति ।।
[भा. ४८६९ ] एमेव मासकप्पे, अतीरिए उट्ठियाए पत्तियरा । पुव्विल्ला हुंति पहू, पुत्रे हट्ठा य न लहंति ॥
वृ- एवमेव 'अतीरिते' असम्पूर्णे मासकल्पे उत्थितायां पूर्वव्रजिकायाम् इतरा व्रजिका तंत्र प्राप्ता ततः पूर्वसाधव एव प्रभवः । अथ मासकल्पः पूर्णस्ते च 'हृष्टाः' अग्लाना अपि तत्रैव स्थितास्ततो नावग्रहं लभन्ते, पश्चाव्याप्ता एव तत्र प्रभव इति ॥
[भा. ४८७० ] फासुग गोयरभूमी, उच्चारे चेव छन्न वसही य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org