________________
४१२
बृहत्कल्प-छेदसूत्रम् -३-६/२१५ चेच्छतोऽनिच्छतश्च संयमविराधनादयो बहवो दोषाः। राजभवनंच प्रविशतः शुद्धशुद्धेनाऽपि चत्वारो मासा गुरुकाः प्रायश्चित्तम् ।। एनामेव गाथां व्याख्यानयति[भा.६३९०] अनत्य एरिसं दुल्लभं तिगेण्हेजऽनेसणिज्जं पि।
अनेणावि अवहिते, संकिज्जति एस तेनो ति॥ वृ- अन्तःपुरिकाभिरुत्कृष्टं द्रव्यं दीयमानं दृष्टवा 'नास्त्यन्यत्रेशम्, दुर्लभं वा' इति लोभवशतोऽनेषणीयमपि गृह्णीयात् । राज्ञश्च विप्रकीर्णे सुवर्णादौ द्रव्येऽन्येनाप्यपहृते स एव साधुः शङ्कयते एष स्तेन इति॥ [भा.६३९१] संका चारिग चोरे, मूलं निस्संकियम्मिअणवट्ठो।
परदारि अभिमरे वा, नवमं निस्संकिए दसमं॥ वृ-चारिकोऽयं चौरो वाऽयं भविष्यति इति शङ्कायां मूलम् । निशङ्कितेऽनवस्थाप्यम् । पारदारिकशङ्कायामभिमरशङ्कायां च 'नवमम्' अनवस्थाप्यम्। निशङ्किते 'दशमं पाराञ्चिकम्। [भा.६३९२] अलभंता पवियारं, इत्थि-नपुंसा बला वि गेण्हेजा।
आयरिय कुल गणेवा, संघेव करेज पत्यारं ॥ वृ-तत्र 'प्रविचारं' बहिर्निर्गममलभमानाः स्त्री-नपुंसका बलादपि साधुं गृह्णीयुः । तान् यदि प्रतिसेवते तदा चारित्रविराधना । अथ न प्रतिसेवते तदा ते उड्डाहं कुर्यु । ततः प्रान्तापनादयो दोषाः । अथवा राजा रुष्ट आचार्यस्य कुलस्य गणस्य वा सङ्घस्य वा 'प्रस्तारं' विनाशं कुर्यात् ॥ [भा.६३९३] अन्ने वि होंति दोसा, आइन्ने गुम्म रतणमादीया।
तन्निस्साए पवेसो, तिरिक्ख मनुया भवे दुट्ठा। वृ-अन्येऽपितत्र प्रविष्टस्य दोषा भवन्ति । तद्यथा-रत्नादिभिराकीर्णे “गुम्म"त्ति गौल्मिकाः' स्थानपालास्ते ‘अतिभूमिप्रविष्टः' इति कृत्वातंसाधुंगृह्णन्तिप्रान्तापयन्तिवा, एवमादयो दोषाः। अथवा 'तन्निश्रया' तस्य-साधोर्निश्रयारत्नादिमोषणार्थस्तेनकाःप्रवेशंकुर्युः । तिर्यञ्चः' वानरादयः 'मनुजाश्च' म्लेच्छादयो दुष्टास्तत्र राजभवने भवेयुस्ते साधोरुपद्रवं कुर्वीरन् ।
एनामेव नियुक्तिगाथां व्याख्याति[भा.६३९४] आइन्ने रतणादी, गेण्हेज सयं परो व तन्निस्सा।
गोम्मिय गहणाऽऽहणणं, रन्नो व निवेदिए जंतु ॥ वृ-रत्नादिभिराकीर्णेसप्रविष्टः स्वयमेवतद्रनादिकंगृह्णीयात, परोवातन्निश्रया गृह्णीयात्। गौल्मिकाश्च ग्रहणमाहननं वा कुर्युः । राज्ञो वातेतंसाधुंनिवेदयन्ति उपढौकयन्तिततो निवेदिते सति ‘यत्' प्रान्तापनादिकमसौ करिष्यति तन्निष्पन्नं प्रायश्चित्तम् ॥ [भा.६३९५] चारिय चोराऽभिमरा, कामी व विसंति तत्थ तन्नीसा ।
वानर-तरच्छ-वग्घा, मिच्छादि नराव घातेजा। वृ-चारिकाश्चौरा अभिमराः कामिनो वा तत्र तस्य-साधोर्निश्रया प्रविशेयुः । तथा वानरतरक्षुव्याघ्रा म्लेच्छादयो वा नरास्तत्र साधुं धातयेयुः ॥ अथ कीशे कार्ये कल्पते? कया वा यतनया? इति द्वारद्वयमाह[भा.६३९६] दुविहे गेलन्नम्मी, निमंतणे दव्वदुल्लभे असिवे।
ओमोयरिय पदोसे, भए य गहणं अनुनायं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org