________________
उद्देशक : ६, मूलं-२१५, [भा. ६३८३]
४११ सेसेसु होतऽपिंडो, जहि दोसा ते विवजंति ॥ वृ-प्रथमे भङ्गे राजपिण्ड: 'वज्य: परित्यक्तव्यः, ये 'तत्र' राजपिण्डे गृह्यमाणे दोषास्ते भवन्तु वा मा वा तथापि वर्जनीयः। शेषेषु' त्रिषु भङ्गेषु अपिण्डः' राजपिण्डो न भवति तथापि येषु दोषा भवन्ति 'तान्' द्वितीयादीनपि भङ्गान् वर्जयन्ति । इयमतर भावना-यः सेनापति-मन्त्रिपुरोहित-श्रेष्ठि-सार्थवाहसहितो राज्यं भुङ्के तस्य पिण्डो वर्जनीयः, अन्यत्र तु भजनेति ।। गतं 'कीशो राजा?' इति द्वारम् । अथ के तस्य भेदाः?' इति द्वारं चिन्तयन्नाह[भा.६३८४] असणाईआ चउरो, वत्थे पादे य कंबले चेव ।
पाउंछणए य तहा, अट्ठविधो रायपिंडो उ॥ वृ-'अशनादयः' अशन-पान-खादिम-स्वादिमरूपाये चत्वारो भेदाः ४ यच्च वस्त्र ५ पात्रं कम्बलं७ पादप्रोज्छनकं रजोहरणं ८एषोऽष्टविधोराजपिण्डः ॥अथ केतस्य दोषाः?' इति द्वारमाह[भा.६३८५] अट्ठविह रायपिंडे, अन्नतरागंतु जो पडिग्गाहे ।
सो आणा अवत्थं, मिच्छत्त विराधनं पावे ॥ वृ-अष्टविधे राजपिण्डे 'अन्यतरत्' अशनादिकं यः प्रतिगृह्णाति स साधुराज्ञाभगमनवस्थां मिथ्यात्वं विराधनांच प्राप्नुयात् ॥ एते चापरे दोषाः[भा.६३८६] ईसर-तलवर-माइंएहि सिट्ठीहि सत्थवाहेहिं ।
नितेहि अतितेहि य, वाघातो होति भिक्खुस्स ॥ वृ- ईश्वर-तलवर-माडम्बिकैः श्रेष्ठिभिः सार्थवाहैश्च निर्गच्छद्भिः ‘अतियद्भिश्च प्रविशद्भिर्भिक्षोभिक्षार्थं प्रविष्टस्य व्याघातो भवति॥ एतदेव व्याचष्टे[भा.६३८७] ईसर भोइयमाई, तलवरपट्टेण तलवरो होति।
वेट्टणबद्धो सेट्ठी, पच्चंतऽहिवो उ माडंबी॥ वृ-ईश्वरः 'भोगिकादिः' ग्रामस्वामिप्रभृतिक उच्यते । यस्तु परितुष्टनृपतिप्रदत्तेन सौवर्णेन तलवरपट्टेनाङ्कितशिराः स तलवरो भवति । श्रीदेवताध्यासितः पट्टो वेष्टनकमुच्यते, तद् यस्य राज्ञाऽनुज्ञातं स वेष्टनकबद्धः श्रेष्ठी । यस्तु 'प्रत्यन्ताधिपः' छित्रमडम्बनायकः स माडम्बिकः। सार्थवाहः प्रतीत इति कृत्वा न व्याख्यातः॥ [भा.६३८८] जा निति इति ता अच्छओ असुत्तादि-भिक्खहानी य।
___ इरिया अमंगलं ति य, पेल्लाऽऽहनना इयरहा वा॥ वृ-एते ईश्वरादयो यावद् निर्गच्छन्ति प्रविशन्ति च तावद् असौ साधुः प्रतीक्षमाण आस्ते, तत एवमासीनस्य सूत्रार्थयोर्भेक्षस्य च परिहाणिर्भवति। अश्व-हस्त्यादिसम्मर्दैनचेयाँ शोधयितुं न शक्नोति । अथ शोधयति ततस्तैरभिघातो भवति । कोऽपि निर्गच्छन् प्रविशन् वा तं साधु विलोक्यामङ्गलमितिमन्यमानस्तेनैवाश्व-हस्त्यादिना प्रेरणंकशादिना वाऽऽहननं कुर्यात् । “इतरहा व"त्ति यद्यपि कोऽप्यमङ्गलं न मन्यते तथापि जनसम्पर्दे प्रेरणमाहननं वा यथाभावेन भवेत्॥ [भा.६३८९] लोभे एसणघाते, संका तेने नपुंस इत्थी य ।
इच्छंतमनिच्छंते, चाउम्मासा भवे गुरुगा। वृ-राजभवनप्रविष्टः 'लोभे उत्कृष्टद्रव्यलोभवशत एषणाघातं कुर्यात् । 'स्तेनोऽयम्' इत्यादिका च शङ्का राजपुरुषाणां भवेत् । नपुंसकः स्त्रयो वा तत्र निरुद्धन्द्रियाः साधुमुपसर्गयेयुः तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org