________________
४१०
बृहत्कल्प-छेदसूत्रम् -३-६/२१५
गतमौद्देशिकद्वारम् । अथ शय्यातरपिण्डद्वारमाह[भा.६३७८] तित्थंकरपडिकुट्ठो, आणा अन्नात उग्गमो न सुज्झे।
अविमुत्ति अलाघवता, दुल्लभ सेज्जा विउच्छेदो॥ वृ- आद्यन्तवर्जेमध्यमैर्विदेहजैश्च तीर्थकरैराधाकर्म कथञ्चिद् भोक्तुमनुज्ञातं न पुनः शय्यातरपिण्डोअतस्तैःप्रतिक्रुष्ट इति कृत्वा वर्जनीयोऽयम्। “आण"त्तितंगृह्णता तीर्थकृतामाज्ञा कृता न भवति । “अन्नाय"त्ति यत्र स्थितस्तत्रैव भिक्षां गृह्णता अज्ञातोच्छं सेवितं न स्यात् । "उग्गमो न सुज्झे"त्ति आसन्नादिभावतः पुनः पुनस्तत्रैव भिक्षा-पानकादिनिमित्तं प्रविशत उद्गमदोषा न शुध्येयुः । स्वाध्यायश्रवणादिना च प्रीतः शय्यातरः क्षीरादि स्निग्धद्रव्यं ददाति, तच्चगृह्णता अविमुक्ति गाभिावोनकृतः स्यात्।शय्यातर-तत्पुत्र-भ्रातृव्यादिभ्यो बहूपकरणंस्निग्धाहारं चगृह्णत उपकरण-शरीरयोलाघवंन स्यात्। तत्रैवचाहारादिगृह्णतः शय्यातर-वैमनस्यादिकरणात् शय्या दुर्लभास्यात्, सर्वथा तद्व्यवच्छेदोवा स्यात्। अतस्तत्पिण्डोवर्जनीयः। अथ द्वितीयपदमाह[भा.६३७९] दुविहे गेलन्नम्मिं, निमंतणे दव्वदुल्लभे असिवे ।
ओमोदरियपओसे, भए य गहणं अनुन्नातं ।। वृ- 'द्विविधे' आगाढा-ऽनागाढे ग्लानत्वे शय्यातरपिण्डोऽपि ग्राह्यः । तत्रागाढे क्षिप्रमेव अनागाढे पञ्चकपरिहाण्या मासलघुके प्राप्ते सतीति । 'निमन्त्रणे च' शय्यानिर्बन्धे सकृत् तं गृहीत्वा पुनः पुनः प्रसङ्गोनिवारणीयः।दुर्लभेच क्षीरादिद्रव्येऽन्यत्रालभ्यमानेतथाऽशिवेऽवमौदर्ये राजप्रद्वेषेतस्करादिभयेचशय्यातरपिण्डस्य ग्रहणमनुज्ञातम् । अत्र दुर्लभद्रव्यग्रहणे विधिमाह[भा.६३८०] तिक्खुत्तो सक्खेत्ते, चउद्दिसिंजोयणम्मि कडजोगी।
दव्वस्स य दुल्लभता, सागारिनिसेवणा ताहे॥ वृ-त्रिकृत्वः स्वक्षेत्रे चतसृषु दिक्षु सक्रोशयोजने गवेषितस्यापिघृतादेव्यस्य यदा दुर्लभता भवति तदा सागारिकपिण्डस्य निषेवणं कर्तव्यम्॥
गतं सागारिकपिण्डद्वारम् । अथ राजपिण्डद्वारमाह[भा.६३८१] केरिसगुत्ति व राया, भेदा पिंडस्स के व से दोसा ।
केरिसगम्मिव कज्जे, कप्पति काए व जयणाए॥ वृ-कीशोऽसौ राजा यस्य पिण्डः परिहियते? इति । के वा 'तस्य' राजपिण्डस्य भेदाः?। के वा "से" तस्य ग्रहणे दोषाः ? । कीशे वा कार्ये राजपिण्डो ग्रहीतुं कल्पते? । कया वा यतनया कल्पते? । एतानि द्वाराणि चिन्तनीयानि ।। तत्र प्रथमद्वारे निर्वचनं तावदाह[भा.६३८२] मुइए मुद्धभिसित्ते, मुतितो जो होइ जोनिसुद्धो उ।
अभिसित्तो व परेहि, सतं व भरहो जहा राया। वृ-राजा चतुर्की-मुदितो मूर्धाभिषिक्तश्च १ मुदितो नमूर्धाभिषिक्तः २ नमुदितो मूर्धाभिषिक्तः ३न मुदितो न मूर्धाभिषिक्तः । तत्र मुदितो नाम-यो भवति योनिशुद्धः' शुद्धोभयपक्षसम्भूतः, यस्य माता-पितरौ राजवंशीयाविति भावः । यः पुनः परेण मुकुटबद्धेन पट्टबद्धेन राज्ञा प्रजया वा राज्येऽभिषिक्तः । यो वा 'स्वयं' आत्मनैवाभिषिक् यथा भरतो रजा एष मूर्धाभिषिक्त उच्यते ॥ एषु विधिमाह
[भा.६३८३] पढमग भंगे वजो, होतु वमा वा विजे तहिं दोसा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org