________________
उद्देश : ६, मूलं - २१५, [भा. ६३७२]
४०९
वृ- निरुपहतो नाम - नीरोगस्तस्य लिङ्गभेदं कुर्वतश्चतुर्गुरुकाः । अथवा निरुपहतं नामयथाजातलिङ्गं तस्य भेदे चतुर्गुरु ॥ तस्य च लिङ्गभेदस्येमे भेदाः
[भा. ६३७३] खंधे दुवार संजति, गरुलऽद्धंसे य पट्ट लिंगदुवे । लहुगो लहुगो लहुगा, तिसु चउगुरु दोसु मूलं तु ।।
वृ- स्कन्धे कल्पं करोति मासलघु । शीर्षद्वारिकां करोति मासलघु । संयतीप्रावरणं करोति चतुर्लघु । गरुडपाक्षिकं प्रावृणोति, अर्धांसकृतं करोति, कटीपट्टकं बध्नन्ती, एतेषु त्रिष्वपि चतुर्गुरु । गृहस्थलिङ्गं परलिङ्गं वा करोति द्वयोरपि मूलम् । द्वितीयपदे तु-कारणजाते लिङ्गभेदोऽपि कर्तुं कल्पते । कुत्र ? इत्याह-ग्लानत्वं कस्यापि विद्यते तस्योद्वर्त्तनमुपवेशनमुत्थापनं वा कुर्वन् कटीपट्टकं बध्यात् । लोचं वाऽन्यस्य साधोः कुर्वाणः कटीपट्टकं बघ्नाति । " रोगि 'त्ति कस्यापि रोगिणोऽर्शासि लम्बन्ते द्वौ भ्रातरौ वा शूनौ स कटीपट्टकं बध्न्यात् । “सरीरवेयावडियं" ति मृतसंयमशरीरस्य वैयावृत्यं-नीहरणं कुर्वन्, आदिग्रहणात् प्रतिश्रयंप्रमार्जयन् अलाबूनि वा विहायसि लम्बमानः कटीपट्टकं बध्नीयात् ।। गृहिलिङ्गा-ऽन्यलिङ्गयोरयमपवादःअसिवे ओमोयरिए, रायद्दुट्ठे व वादिदुट्ठे वा । आगाढ अन्त्रलिंगं, कालक्खेवो व गमणं वा ॥
[भा. ६३७४]
वृ-स्वपक्षप्रान्ते आगाढे अशिवेऽन्यलिङ्गं कृत्वा तत्रैव कालक्षेपं कुर्वन्ति, अन्यत्र वा गच्छन्ति । एवं 'राजद्विष्टे' राज्ञि साधूनामुपरि । द्वेषमापत्रे, 'वादिद्विष्टे वा' वादपराजिते क्वापि वादिनि व्यपरोपणादिकं कर्तुकामे, एवंविधे आगाढे कारणेऽन्यलिङ्गम् उपलक्षणत्वाद् गृहिलिङ्गं वा कृत्वा कालक्षेपो वा गमनं वा विधेयम् ।। गतमाचेलक्यद्वारम् । अथौधिशिकद्वारमाह
[भा. ६३७५] आहा अधेय कम्मे, आयाहम्मे य अत्तकम्मे य ।
तं पुन आहाकम्मं, कप्पति न व कप्पती कस्स ॥
वृ- आधाकर्म अधःकर्म आत्मघ्नम् आत्मकर्म चेति औद्देशिकस्य-साधूनुद्दिश्य कृतस्य भक्तादश्ञ्चत्वारि नामानि । 'तत् पुनः' आधाकर्म कस्य कल्पते ? कस्य वा न कल्पते ? ॥ एवं शिष्येण पृष्टे सुरिराह
[भा. ६३७६ ] संघस्सोह विभाए, समणा-समणीण कुल गणे संघे । कडमिह ठिते न कप्पति, अट्ठित कप्पे जमुद्दिस्स ॥
वृ- अस्या व्याख्या सविस्तरं तृतीयोद्देशके कृता अतोऽत्राक्षरार्थमात्रमुच्यते - ओघतो वा विभागतो वा सङ्घस्य श्रमणानां श्रमणीनां कुलस्य गणस्य सङ्घस्य वा सङ्कल्पेन यद् भक्तपानादिकं कृतं तत् 'स्थितकल्पिकानां' प्रथम-पश्चिमसाधूनां न कल्पते। ये पुनरस्थितकल्पे स्थिताः तेषां यमुद्दिश्य कृतं तस्यैवैकस्य न कल्पते अन्येषां तु कल्पते ॥
द्वितीयपदे तु स्थितकल्पिकानामपि कल्पते । यत आह
[भा.६३७७] आयरिए अभिसेए, भिक्खुम्मि गिलाणगम्मि भयणा उ । तिक्खुत्तssविपवेसे, चउपरियट्टे ततो गहणं ॥
वृ- आचार्येऽभिषेके भिक्षौ वा ग्लाने सञ्जाते सति आधाकर्मणो 'भजना' सेवनाऽपि क्रियते । तथा अटवी विप्रकृष्टोऽध्वा तस्यां प्रवेशे कृते यदि शुद्धं न लभ्यते ततः त्रिकृत्वः शुद्धमन्वेषितमपि यदि न लब्धं ततश्चतुर्थे परिवर्ते आधाकर्मणो ग्रहणं कार्यम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org