SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ उद्देशकः ६, मूलं-२१५, [भा. ६३९७] ४१३ [भा.६३९७] तिक्खुत्तो सक्खित्ते, चउद्दिसिंजोयणम्मि कडजोगी। . दव्वस्स य दुल्लभया, जयणाए कप्पई ताहे ।। वृ-गाथाद्वयंशय्यातरपिण्डवद्रष्टव्यम्।नवरम् आगाढे ग्लानत्वेक्षिप्रमेव राजपिण्डंगृह्णाति। अनागाढे तु त्रिकृत्वो मार्गयित्वा यदा न लभ्यते तदा पञ्चकपरिहाण्या चतुर्गुरुकप्राप्तो गृह्णाति । 'निमन्त्रणेतु राज्ञा निर्बन्धेन निमन्त्रितो भणति-यदि भूयोनभणसिततोगृह्णीमो वयम् नान्यथा। अवमेऽशिवे चान्यत्रालभ्यमाने राजकुलं वा नाशिवेन गृहीतं ततस्तत्र गृह्णाति । राजद्विष्टे तु अपरस्मिन् राज्ञि कुमारे वा प्रद्विष्टे बोधिकम्लेच्छभये वा राज्ञो गृहादनिर्गच्छन् गृह्णीयात्।। गतं राजपिण्डद्वारम् । अथ कृतिकर्मद्वारमाह[भा.६३९८] कितिकम्मं पि य दुविहं, अब्युट्टाणं तहेव वंदनगं। समणेहि य समणीहि य, जहारिहं होति कायव्वं ॥ वृ-कृतिकर्मापि च द्विविधम्-अभ्युत्थानं तथैव वन्दनकम् । एतच्च द्विविधमपि तृतीयोद्देशके सविस्तरं व्याख्यातम्। उभयमपिच श्रमणैःश्रमणीभिश्च यथाहँ' यथारत्नाधिकंपरस्परंकर्तव्यम्। तथा श्रमणीनामयं विशेषः[भा.६३९९] सव्वाहि संजतीहिं, कितिकम्मं संजताण कायव्वं । पुरिसुत्तरितो धम्मो, सव्वजिनानं पि तित्थम्मि॥ वृ-सर्वाभिरपि संयतीभिश्चिरप्रव्रजिताभिरपि संयतानां तद्दनिदीक्षितादीनामपि कृतिकर्म कर्तव्यम् । कुतः ? इत्याह-'सर्वजिनानामपि सर्वेषामपि तीर्थकृतांतीर्थे पुरुषोत्तरोधर्म इति॥ [भा.६४००] तुच्छत्तणेण गव्बो, जायति न य संकते परिभवेणं। अन्नो वि होज्ज दोसो, थियासुमाहुज्जहज्जासु॥ वृ-स्त्रियाः साधुना वन्द्यमानायास्तुच्छत्वेनगर्वोजायते।गर्विताचसाधुंपरिभवबुध्यापश्यति। ततः परिभवेन 'न च' नैव साधोः 'शङ्कते' बिभेति । अन्योऽपि दोषः स्त्रीषु 'माधुर्यहार्यासु' मार्दवग्राह्यासु वन्द्यमानासु भवति, भावसम्बन्ध इत्यर्थः ।। [भा.६४०१] अवि यहु पुरिसपणीतो, धम्मो पुरिसो य रखिउं सत्तो। लोगविरुद्धं चेयं, तम्हा समणाण कायव्वं ॥ वृ-'अपिच' इति कारणान्तराभ्युच्चये। पुरुषैः-तीर्थकर-गणधरलक्षणैः प्रणीतः पुरुषप्रणीतो धर्म । पुरुष एव च तं धर्मं रक्षितुं' प्रत्यनीकादिनोपद्रूयमाणं पालयितुं शक्तः । लोकविरुद्धं च 'एतत् पुरुषेण स्त्रिया वन्दनम् । तस्मात् श्रमणानां ताभिः कर्तव्यम्॥ गतंकृतिकर्मद्वारम् । अथ व्रतद्वारमाह[भा.६४०२] पंचायामो धम्मो, पुरिमस्स य पच्छिमस्स य जिनस्स। मज्झिमगाण जिनानं, चाउज्जामो भवे धम्मो।। वृ-पञ्च यामाः-व्रतानि यत्रसपञ्चयामः, “दीर्घ-हस्वौ मिथो वृत्तौ" इतिप्राकृतलक्षणवशात् चकारस्य दीर्घत्वम् । एवंविधो धर्म पूर्वस्य च पश्चिमस्य च जिनस्य । मध्यमकानां जिनानां पुनश्चतुर्यामो धर्मो भवति, मैथुनव्रतस्य परिग्रहव्रत एवान्तर्भावविवक्षणात् ॥ कुत एवम् ? इति चेद् उच्यते[भा.६४०३] पुरिमाण दुव्विसोझो, चरिमाणं दुरनुपालओ कप्पो । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy