________________
४१४
बृहत्कल्प-छेदसूत्रम् - ३-६/२१५
मज्झिमगाण जिनानं, सुविसोझो सुरनुपालो य ॥
वृ- पूर्वेषां साधूनां दुर्विशोध्यः कल्पः, 'चरमाणां' पश्चिमानां दुरनुपाल्यः, मध्यमकानां तु जिनानां तीर्थे साधूनां सुविशोध्यः सुखानुपाल्यश्च भवति । इयमत्र भावना- पूर्वे साधव ऋजुजडाः, ततः परिग्रहव्रत एवान्तर्भावं विक्षित्वा यदि मैथुनव्रतं साक्षान्नोपदिश्यते ततस्ते जडतया नेदमवबुध्यन्ते, यथा-मैथुनमपि परिहर्तव्यम्; यदा तु पृथक् परिस्फुटं मैथुनं प्रतिषिध्यते ततः सुखेनैव पर्यवस्यन्ति परिहरन्ति च । पश्चिमास्तु वक्र-जडाः, ततो मैथुने साक्षादप्रतिषिद्धे परिग्रहान्तस्तदन्तर्भावं जानन्तोऽपि वक्रतया परपरिगृहीतायाः स्त्रयाः प्रतिसेवनां कुर्वीरन्, पृष्टथश्च ब्रवीरन्- नैषाऽस्माकं परिग्रह इति । तत एतेषां पूर्व-पश्चिमानां पञ्चयामो धर्मो भगवता ऋषभस्वामिना वर्द्धमानस्वामिना च स्थापितः । ये तु मध्यमाः साधवस्ते ऋजु -प्राज्ञाः, ततः परिग्रहे प्रतिषिद्धे प्राज्ञत्वेनोपदेशमात्रादपि अशेषहेयोपादेयविशेषाभ्यहनपटीयस्तया चिन्तयेयुः - नापरिगृहीता स्त्री परिभुज्यते अतो मैथुनमपि न वर्तते सेवितुम्; एवं मैथुनं परिग्रहेऽन्तर्भाव्य तथैव परिहरन्ति ततस्तेषां चतुर्यामो धर्मो मध्यमजिनैरुक्त इति । अमुमेवार्थं समर्थयन्नाह
[भा. ६४०४] जड्डुत्तणेण हंदिं, आइक्ख-विभागउवणता दुक्खं । सुहसमुदिय दंताण व, तितिक्ख अनुसासना दुक्खं ॥
वृ- सर्वेषां (पूर्वेषां ) साधूनां जडतया 'हन्दि' इत्युपप्रदर्शने वस्तुतत्त्वस्याख्यानं 'दुःखं' कृच्छ्रेण, महता वचनाटोप प्रयासेन कर्तुं शक्यमित्यर्थः । एवमाख्यातेऽपि वस्तुतत्त्वे विभागः पार्थक्येन व्यवस्थापनं महता कष्टेन कर्तुं शक्यते। विभक्तेऽपि वस्तुतत्त्वे उपनयः- हेतु दृष्टान्तैः प्रतीतावारोपणं कर्तुं दुःशकम् । ते च प्रथमतीर्थकरसाधवः 'सुखसमुदिताः' कालस्य स्निग्धतया शीतोष्णादीनां तथाविधदुःखहेतूनामभावात् सुखेन सम्पूर्णास्ततः 'तितिक्षा' परीषहादेरधिसहनं तेषां 'दुःख' दुष्करम् । तथा दान्ताः-एकान्तेनोपशान्तास्ते ततः क्वचित् प्रमादस्खलितादौ शिष्यमाणानामनुशासनाऽपि कर्तुं दुःशका ॥
[भा. ६४०५ ] मिच्छत्तभावियाणं, दुवियहमतीण वामसीलाणं । आइक्खिउं विभइउं, उवनेउं वा वि दुक्खं तु ॥
वृ- ये तु चरमतीर्थकर साधवस्ते प्रायेण मिथ्यात्वभाविता दुर्विदग्धमतयो वामशीलाश्च, ततस्तेषामपि वस्तुतत्त्वमाख्यातुं विभक्तुमुपनेतुं वा 'दुःखं' दुःखतरम् ॥
[भा. ६४०६] दुक्खेहि भत्थिताणं, तनु-धितिअबलत्तओ य दुतितिक्खं । एमेव दुरनुसासं, मानुक्कडओ य चरिमाणं ।।
वृ- तथा कालस्य रूक्षतया 'दुःखैः' विविधाऽऽधि-व्याधिप्रभृतिभि शारीर-मानसैः 'भर्सितानाम्' अत्यन्तमुपतापितानां तनुः शरीरं धृति-मानसोऽवष्टम्भः तद्विषयं यद् अबलत्वं-बलाभावस्ततः कारणाद् दुस्तितिक्षं तेषां परीषहादिकं भवति । एवमेव मानस्य - अहङ्कारस्य उपलक्षणत्वात् क्रोधादेश्चोत्कटतया दुरनुशासं चरमाणां भवति, उत्कटकषायतया दुःखेनानुशासनां ते प्रपद्यन्त इत्यर्थः । अत एषां पूर्वेषां च पञ्चयामो धर्म इति प्रक्रमः ॥
[भा. ६४०७]
एए चैव य ठाणा, सुप्पनुत्तणेण मज्झाणं । सुह- दुह - उभयबलाण य, विमिस्सभावा भवे सुगमा ॥ वृ-‘एतान्येव' आख्यानादीनि स्थानानि मध्यमानां 'सुगमानि' सुकराणि भवेयुरिति सम्बन्धः ।
For Private & Personal Use Only
- www.jainelibrary.org
Jain Education International