________________
उद्देशक : ६, मूलं - २१५, [भा. ६४०७ ]
४१५
कुतः इत्याह- सुप्रज्ञ ऋजुत्वेन, प्राज्ञतया ऋजुतया चेत्यर्थः, स्वल्पप्रयनेनैव प्रज्ञापनीयास्ते, तत आख्यान-विभजनोपनयनानि सुकराणि । "सुह-दुह" त्ति कालस्य स्निग्ध-रूक्षतया सुख-दुःखे उभे अपि तेषां भवतः, तथा “उभयबलाण य"त्ति शारीरं मानसिकं चोभयमपि बलं तेषां भवति, तत एव सुख-दुःखोभयबलोपेतानां परीषहादिकं सुतितिक्षं भवति । "विमिस्सभाव"त्ति नैकास्तेनोपशान्ता न वा उत्कटकषायास्ते, ततो विमिश्रभावादनुशासनमपि सुकरमेव तेषां भवति, अतश्चतुर्यामस्तेषां धर्म इति ।। गतं व्रतद्वारम् । अथ ज्येष्ठद्वारमाह
[भा. ६४०८] पुव्वतंर सामइयं, जस्स कयं जो वतेसु वा ठविओ। एस कितिकम्मजेो, न जाति सुततो दुपक्खे वी ॥
वृ- यस्य सामायिकं 'पूर्वतरं' प्रथमरं 'कृतम्' आरोपितम् यो वा 'व्रतेषु' महाव्रतेषु प्रथमं स्थापितः स एष कृतिकर्मज्येष्ठो भण्यते, न पुनः 'द्विपक्षेऽपि' संयतपक्षे संयतीपक्षे च जातितःबृहत्तरं जन्मपर्यायमङ्गीकृत्य श्रुततः प्रभूतं श्रुतमाश्रित्य ज्येष्ठ इहाधिक्रियते । इह च मध्यमसाधूनां यस्य सामायिकं पूर्वतरं स्थापितं स ज्येष्ठः, पूर्व-पश्चिमानां तु यस्य प्रथममुपस्थापना कृता स ज्येष्ठ इति ।। अथोपस्थापनामेव निरूपयितुमाह
[भा. ६४०९] सा जेसि उवट्ठवणा, जेहि य ठाणेहि पुरिम-चरिमाणं । पंचायामे धम्मे, आदेसतिगं च मे सुणसु ॥
वृ-सा उपस्थापना येषां भवति ते वक्तव्याः । येषु वा 'स्थानेषु' अपराधपदेषु पूर्व-चरमाणां साधूनां पञ्चयामे धर्मे स्थितानामुपस्थापना भवति तान्यपि वक्तव्यानि । तत्र येषामुपस्थापना ते तावदभिधीयन्ते, तत्रादेशत्रयम्-दश वा षड् वा चत्वारो वा उपस्थापनायाम भवन्ति । तच्चाऽऽदेशत्रिकं "मे" इति मया यथाक्रमं वक्ष्यमाणं शृणु ॥
[ भा. ६४१० ] तओ पारंचिया वुत्ता, अणवट्ठा य तिन्नि । दंसणम्मिय वंतम्मिं चरित्तम्मिय केवले ॥
वृ-ये चतुर्थोद्देशके 'त्रयः' दुष्ट-प्रमत्त-अन्योन्यंकुर्वाणाख्याः पाराञ्चिका उक्ताः ३ येच 'त्रयः' साधर्मिका-ऽन्यधार्मिकस्तैन्यकारि-हस्तातालरूपा अनवस्थाप्याः ६ येन च 'दर्शनं' सम्यक्त्वं 'केवलं' सम्पूर्णमपि वान्तं ७ येन वा चारित्रं 'केवलं' सम्पूर्णं मूलगुणविराधनया वान्तम् ८ ॥ [भा. ६४११] अदुवा चियत्तकिच्चे, जीवकाए समारभे । से दस वुत्ते, जस्स उट्ठावणा भणिया ॥
वृ- अथवा यः 'त्यक्तकृत्यः परित्यक्तसकलसंयमव्यापारः आकुट्टिकणा दर्पेण वा 'जीवकायान्' पृथिवीकायादीन् समारभते ९ यश्च 'शैक्षः' अभिनवदीक्षितः स दशमः १० उक्तः । एतद् दशकं मन्तव्यं यस्योपस्थापना प्रथम चरमतीर्थकरैर्भणिता ।। द्वितीयादेशमाहजे य पारंचिया वुत्ता, अणवट्ठप्पा य जे विदू । दंसणम्मि य वंतम्मिं चरित्तम्मि य केवले ॥ अदुवा चियत्तकि, जीवकाए समारभे । सेहे छट्टे वुत्ते, जस्स उवट्ठावणा भणिया ॥
[भा. ६४१२]
[भा. ६४१३]
वृ-ये च पाराञ्चिकाः सामान्यत उक्ताः १ ये च विद्वांसो अनवस्थाप्याः २ येन च दर्शनं केवलं वान्तं ३ येन वा चारित्रं केवलं वान्तम् । अथवा यस्त्यक्तकृत्यो जीवकायान् समारभते ५ यश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org