________________
उद्देशक : ४, मूलं- १२५, [भा. ५३६३]
आपुच्छऊण गमनं, भीतो न नियत्तते कोती १ ॥ [भा. ५३६४ ] चिंतंतो २ वइगादी ३, संखडि ४ पिसुगादी ५ अपडिसेहे य ६ । परिसिल्ले सत्तम ७, गुरुपेसविए य ८ सुद्धे य ॥
वृ-स्थानं कारणमित्येकोऽर्थः, ततस्त्रिभिः स्थानैः कारणैर्गच्छाद् अपक्रमणं भवति-ज्ञानार्थं दर्शनार्थं चारित्रार्थं च । अथ निष्कारणन्यं गणमुपसम्बद्यते ततश्चतुर्गुरुकं आज्ञादयश्च दोषाः । कारणेऽपि यदि गुरुमनापृच्छय गच्छति ततश्चतुर्गुरुकम्, तस्माद् आपृच्छय गन्तव्यम् । तत्रज्ञानार्थं तावद् अभिधीयते यावद् आचार्यसकाशे श्रुतमस्ति तावद् अशेषमपि केनापि शिष्येणाधीतम्, अस्ति च तस्यापरस्यापि श्रुतस्य ग्रहणे शक्तिस्ततोऽधिक श्रुतग्रहणार्थमाचार्यमापृच्छति । आचार्येणापि स विसर्जयितव्यः । तस्यैवमापृच्छय गच्छत इमेऽतिचारा भवन्ति ते परिहर्तव्याः । तत्र कश्चित तेषामाचार्याणां कर्कशचर्यां श्रुत्वा मीतः सन् निवर्तते १ । तथा 'किं व्रजामि ? मावा ?' इति चिन्तयन् व्रजति २ । व्रजिकायां वा प्रतिबन्धं करोति, आदिशब्दाद् दानश्राद्धादिषु दीर्घा गोचरचर्यां करोति, अप्राप्तं वा देशकालं प्रतीक्षते ३ । "संखडि " त्ति सङ्घड्यां प्रतिबध्यते ४ । "पिसुगाइ " ति पिशुक - मत्कुणादिभयाद् निवर्तते अन्यत्र वा गच्छे गच्छति ५ । “अप्पडिसेह" त्ति कश्चिदाचार्यस्तं परममेघाविनमन्यत्र गच्छन्तं श्रुत्वा परिस्फुटवचसा तं न प्रतिषेधयति किन्तु शिष्यान् व्यापारयति-तस्मिन्नागते व्यञ्जन-घोषशुद्धं पठनीयम् येनात्रैवैष तिष्ठति; एवमप्रतिषेधयन्नपि प्रतिषेधको लभ्यते, तेनैवं विपरिणामितः सन् तदीये गच्छे प्रविशति ६ । “परिसिल्ले"त्ति पर्षद्वान् स उच्यते यः संविज्ञाया असंविज्ञायाश्च पर्षदः सङ्ग्रहं करोति, तस्य पार्श्वे तिष्ठतः सप्तमं पदम् । "गुरुपेसविए य" त्ति तत्र सम्प्राप्तो ब्रवीति - अहमाचार्यै श्रुताध्ययननिमित्तं युष्मदन्तिके प्रेषितः ८ । एतेषु भीतादिष्वष्टस्वपि पदेषु वक्ष्यमाणनीत्या प्रायश्चित्तम् । यत्सु भीतादिदोषविप्रमुक्तः समागतोब्रवीति-‘अहमाचार्यविसर्जितो युष्मदन्तिके समायातः' इति सः 'शुद्धः' न प्रायश्चित्तभाक् । भीतादिपदेषु प्रायश्चित्तमाह
[ भा. ५३६५ ] पनगं च भिन्नमासो, मासो लहुगो य संखडी गुरुगा । पिसुमादी मासलहू, चउरो लहुगा अपडिसेहे ॥
वृ- भीतस्य निवर्तमानस्य पञ्चकम् । चिन्तयतो भिन्नमासः । व्रजिकादिषु प्रतिबध्यमानस्य मासलघु । सङ्खड्यां चतुर्गुरुकाः । पिशुकादिभयान्निवर्तमानस्य मासलघु । अप्रतिषेधकस्य पार्श्वे तिष्ठतश्चत्वारो लघुकाः ॥
[भा. ५३६६ ] परिसिल्ले चउलहुगा, गुरुपेसवियम्मि मासियं लहुगं । सेहेण समं गुरुग, परिसिल्ले पविसमाणस्स ॥
२०३
वृ- पर्षद्वत आचार्यस्य सकाशे तिष्ठतश्चतुर्लघुकाः 'गुरुभि प्रेषितोऽहम्' इति भणने लघुमासिकम् । शैक्षेण समं पर्षद्वतो गच्छे प्रविशतश्चतुर्गुरुकाः । गृहीतोपकरणस्य तत्र प्रविशत उपधिनिष्पन्नम्।। [भा. ५३६७ ] पडिसेहगस्स लहुगा, परिसेल्ले छ च्च चरिमओ सुद्धो ।
सिं प होंति गुरुगा, जं चाऽऽभव्वं न तं लभती ॥
वृ- 'प्रतिषेधकस्य' प्रतिषेधकत्वं कुर्वतश्चतुर्लघु । पर्षदं मीलयतः षड् लघुकाः । 'चरमः’ भीतादिदोषरहितः स शुद्धः । 'तेषामपि' प्रतिषेधकादीनामाचार्याणां तं स्वगच्छे प्रवेशयतां चत्वारो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org