________________
बृहत्कल्प-छेदसूत्रम् -३-४/१२५
गुरुकाः । यच सचित्तमचित्तं वा वाचनाचार्यस्याभाव्यं तत् ते किञ्चिदपि न लभन्ते, यः पूर्वमभिधारितस्तस्यैवाचार्यस्य तदाभाव्यमिति भावः ॥
अथ भीतादिपदानां क्रमेण व्याख्यानमाह
२०४
[ भा. ५३६८ ] संसाहगस्स सोउं, पडिपंथिगमादिगस्स वा भीओ । आयरणा तत्थ खरा, सयं व नाउं पडिनियत्तो ॥
घृ-संसाघको नाम-वोलापकः पृष्ठतः कुतश्चिदागतो वा साधुस्तन्मुखेन श्रुत्वा, प्रतिपन्थिकःसम्मुखीनः साध्वादिस्तदादेर्वा मुखात् श्रुत्वा, स्वयं वा 'ज्ञात्वा' स्मृत्वा । किम् ? इत्याह- 'आचरणा' चर्या 'तत्र' तस्याचार्यस्य गच्छे 'खरा' कर्कशा । एवं श्रुत्वा ज्ञात्वा वा भीतः सन् यः प्रतिनिवृत्तस्तस्य पञ्चकं भवतीति शेषः ॥ अथ चिन्तयन्निति पदं व्याचष्टे
[भा. ५३६९ ] पुव्वं चिंतेयव्वं, निग्गतो चिंतेति किं नु हु करेमि । वच्चामि नयत्तामि व, तहिं व अन्नत्थ वा गच्छे ॥
वृ- 'पूर्वमेव' यावन्न निर्गम्यते तावच्चिन्तयितव्यम् । यस्तु निर्गतश्चिन्तयति किं करोमि ? व्रजामि निवर्ते वा ?, यद्वा तत्र वाऽन्यत्र वगच्छे गच्छामि ? इति समासलघु प्रायश्चित्तं प्राप्नोति इति प्रक्रमः । व्रजिका-सङ्खडीद्वारद्वयमाह -
[भा. ५३७० ]
उव्वत्तणमप्पत्ते, लहुओ खद्धस्स भुंजणे लहुगा । पीस सुवणे लहुओ, संखडि गुरुगाय जं चऽन्नं ॥
वृ-व्रजिकां श्रुत्वा मार्गादुद्वर्तनं करोति अप्राप्तां वा वेलां प्रतीक्षते लघुमासः । अथ खद्धं प्रभूतं तत्र भुङ्क्ते ततश्चतुर्लघु । प्रचुरं भुक्त्वा अजीर्णभयेन 'निसृष्टं' प्रकामं स्वपिति लघुमासः । सङ्घड्यामप्राप्तकालं प्रतीक्षमाणस्य प्रभूतं गृह्णतो वा चतुर्गुरुकाः । “जं चऽन्नं ति यच्च हस्तेन हस्तसङ्घट्टनं पादेन पादस्याक्रमणं शीर्षेण शीर्षस्याकुट्टनमित्यादिकमन्यदपि सङ्खड्यां भवति तन्निष्पन्नं प्रायश्चित्तम् ॥ अथ प्रतिषेधकद्वारमाह
[भा. ५३७१] अमुगत्य अमुगो वञ्च्चति, मेहावी तस्स कढणट्ठाए । पंथगामे व पहे, वसधीय व कोइ वावारे ॥
[भा. ५३७२ ] अभिलावसुद्ध पुच्छा, रोलेणं मा हु भे विनासेज्जा । इति कते लहुगा, जति सेहट्ठा ततो गुरुगा ॥
वृ- कश्चिदाचार्यो विशुद्धसूत्रार्थ स्फुटविकटव्यञ्जनाभिलापी, तेन च श्रुतम् अमुकाचार्यान्तिको मेधावी साधुरमुकश्रुताध्ययनार्थं व्रजति । ततोऽसौ 'मा मामतिक्रम्यान्यत्र गमद्' इति कृत्वा तस्याकर्षणार्थम् ‘अथ' अनन्तरं शिष्यान् प्रतीच्छकांश्च व्यापारयति । क्व ? इत्याह- "पंथ ग्गामे व पहे” त्ति यत्र पथि ग्रामे स भिक्षां करिष्यति, मध्येन वा समेष्यति, येन वा पथा समागमिष्यति, यस्यां वा वसतौ स्थास्यति तेषु स्थानेषु गत्वा यूयमभिलापशुद्धं परिवर्तयन्तस्तिष्ठत । यदा स आगतो भवति तदा यदि असौ पृच्छेत केन कारणेन यूयमिहागताः ? ; ततो भवद्भिर्वक्तव्यम्अस्माकं वाचनाचार्या अभिलापशुद्धं पाठयन्ति, यदि अभिलापः कथञ्चिदन्यथा क्रियते ततो महदप्रीतिकं ते कुर्वन्ति, भणन्ति च - अत्रोपाश्रये बहूनां रोलेनाभिलापं “भे” यूयं मा विनाशयतेति, ततस्तदादेशेन वयमत्र विजने परिवर्तयामः । एवमाकर्षणं कुर्वतश्चतुर्लघुकाः । अथ तेन आगच्छता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org