________________
उद्देशक : ४, मूलं - १२५, [भा. ५३७२]
२०५
शैक्षः कोऽपि लब्धः तदर्थम् - एष शैक्षो मे भूयाद्' इति कृत्वा आकर्षति ततश्चतुर्गुरुकाः ॥ एवं बहिरावर्ज्य किं करोति ? अत आह
[भा. ५३७३ ] अक्खर - वंजणसुद्धं, मं पुच्छह तम्मि आगए संते । घोसेहि य परिसुद्धं, पुच्छह निउणे य सुत्तत्थे ॥
वृ-स आचार्य शिष्यान् प्रतीच्छकान् वा भणति यदा युष्माकमभिलाप शुद्धगुणनया रञ्जितः स उपाश्रयमागच्छति तदा तस्मिन्नागते अक्षर-व्यञ्जनशुद्धं सूत्रं मां पृच्छत अक्षराणि प्रतीतानि, व्यञ्जनशब्देन अर्थाभिव्यञ्जकत्वाद् अत्र पदमुच्यते । तैरक्षरैर्व्यञ्जनैश्च सुद्धं तथा 'घोषैश्च' उदात्तादिभिः परिशुद्धं सूत्रं पठनीयम्, निपुणांश्च सूत्रार्थान् मां तदानीं पृच्छत। एवमनया भङ्ग्या तमन्यत्र गच्छे गच्छन्तं प्रतिषेधयति ।। गतं प्रतिषेधकद्वारम् । अथ परिसिल्लद्वारमाह
[भा. ५३७४ ] पाउयमपाउया घट्ट मट्ठ लोय खुर विविधवेसहरा । परिसिल्लस्स तु परिसा, थलिए व न किंचि वारेति ॥
वृ-यः परिसिल्ल आचार्य स संविग्नाया असंविग्नायाश्च पर्षदः सङ्ग्रहं करोति, ततस्तस्य साधवः केचित् प्रावृताः केचिदप्रावृताः केचिद् 'घृष्टाः' फेनादिना घृष्टजङ्घाः, केचिद् 'मृष्टाः' तैलेन मृष्टकेशा मृष्टशरीरा वा अपरे लोचलुञ्चितकेशाः, अन्ये क्षुरमुण्डिताः, एवमादिविविधवेषधरा तस्य पर्षत् । स्थली - देवद्रोणी तस्यामिवासौ न किञ्चिरपि वारयति ॥
[भा. ५३७५]
तत्थ पवेसे लहुगा, सच्चित्ते चउगुरुं च आणादी । उवहीनिफन्नं पिय, अचित्त चित्ते य गिण्हंते ॥
वृ- 'तत्र' पर्षद्वतो गच्छे प्रवेशं कुर्वतस्तस्य चतुर्लघु । अथ सचित्तेन शैक्षेण सार्द्धं प्रविशति ततश्चतुर्गुरव आज्ञादयश्च दोषाः । अथाचित्तेन वस्त्रादिना सह प्रविशति तत उपधिनिष्पन्नम् । मिश्रे संयोगप्रायश्चित्तम् । तथा सचित्ता ऽचित्तं ददतो गृह्णतश्चैवमेव प्रायश्चित्तम् ॥
-
अथ पिशुकादिद्वारं गुरुप्रेषितद्वारं चाह
[भा. ५३७६ ] ढिंकुण-पिसुगादि तर्हि, सोतुं नाउं व सन्निवत्तंते । अमुगसुतत्थनिमित्तं, तुज्झम्मि गुरूहि पेसविओ ॥
बृ- ढिड्डुण-पिशुक-दंश-मशकादीन् शरीरोपद्रवकारिणस्तत्र श्रुत्वा ज्ञात्वा वा सन्निवर्तमानस्य मासलघु । तथा 'अमुक श्रुतार्थनिमित्तं गुरुभिर्युष्मदन्तिके प्रेषितोऽहम्' इति भणतो मासलघु ॥ आह एवं भणतः को नाम दोषः ? सूरिराह
[भा. ५३७७] आणाए जिणिंदाणं, न हु बलियतरा उ आयरियआणा । जिन आणाए परिभवो एवं गव्वो अविनतो य ॥
वृ- जिनेन्द्रैरेव भगवद्भिरुक्तम्, यथा- निर्दोषो विधिना सूत्रार्थनिमित्तं यः समागतस्तस्य सूत्रार्थी दातव्यौ । न च जिनेन्द्राणामाज्ञायाः सकाशादाचार्याणामाज्ञा बलीयस्तरा । अपि च'एवम्' आचार्यानुवृत्त्या श्रुते दीयमाने जिनाज्ञायाः परिभवो भवति, तथा प्रेषयत उपसम्पद्यमानस्य प्रतीच्छतश्च त्रयाणामपि गर्वो भवति, तीर्थकृतां श्रुतस्य चाविनयः कृतो भवति, ततः 'गुरुभिः प्रेषितोऽहम्' इति न वक्तव्यम् । यस्तु भीतादिदोषविप्रमुक्तोऽभिधारिताचार्यस्यान्तिके आयातः स शुद्धः । यस्तु प्रतिषेधकादीनां पार्श्वे तिष्ठति तत्र विधिमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org