________________
२०६
बृहत्कल्प-छेदसूत्रम् -३-४/१२५
[भा. ५३७८]
अन्नं अभिधारेतुं, उप्पडिसेह परिसिल्लमन्नं वा । पविसंते कुलादिगुरू, सच्चित्तादी व से हाउं ॥
[भा. ५३७९ ] ते दोऽवुवालभित्ता, अभिधारेज्जंते देंति तं थेरा । घट्टण विचालणं ति य, पुच्छा विष्फालनेगट्ठा ॥
वृ-यः पुनरन्यमाचार्यमभिधार्य अप्रतिषेधकं वा पर्षद्वन्तं वाऽन्यं वा प्रविशति, तस्य पार्श्वे उपसम्पद्यत इत्यर्थः, तं यदि 'कुलादिगुरवः' कुलस्थविरा गणस्थविराः सङ्घस्थविरा वा जानीयुस्ततो यत् तेनाचित्त सचित्तं वा सत्याचार्यस्योपनीतं तत् तस्य सकाशाद् हृत्वा तौ 'द्वावपि' आचार्यप्रतीच्छकौ स्थविरा उपालभन्ते कस्मात् त्वया अयमात्मपार्श्वे स्थापितः ? कस्माद् वा त्वमन्यमभिधार्य अत्र स्थितः ? ; एवम् 'उपालभ्य' तं प्रतीच्छकं घट्टयित्वा 'तत्' सचित्तादिकं सर्वमभिधारितस्याचार्यस्य 'ददति' प्रयच्छन्ति, तदन्तिके प्रेषयन्तीत्यर्थः । अथ घट्टयित्वेति कोऽर्थः ? इत्याह-घट्टनेति वा विचारणेति वा पृच्छेति वा विस्फालेति वा एकार्थानि पदानि ।। ततःघट्टेउं सच्चित्तं, एसा आरोवणा उ अविहीते । बितियपदमसंविग्गे, जयणाए कयम्मि तो सुद्धो ॥
[भा. ५३८० ]
वृ-तं प्रतीच्छकं 'घट्टयित्वा' 'कमभिधार्य भवान् प्रस्थित आसीत् ? ' इति पृष्ट्वा सचित्तादिकं तस्याभिधारितस्य पार्श्वे स्थविराः प्रेषयन्तीति गम्यते । “एसा आरोवणा अविहीए "त्ति या पूर्वं प्रतिषेधकत्वं पर्षन्मीलनं वा कुर्वत आरोपणा भणिता सा अविधिनिष्पन्ना मन्तव्या । विधिना तु कारणे कुर्वाणस्य न प्रायश्चित्तम्, तथा चाह - "बिइयपय" इत्यादि, यमसावभिधारयति स आचार्योऽसंविग्नस्ततो द्वितीयपदे यतनया प्रतिषेधकत्वं कुर्यात् । का पुनर्यतना ? इति चेद् उच्यते प्रथमं साधुभिस्तं भाणयति मा तत्र व्रज । पश्चादात्मनाऽपि भणेत्, पूर्वोक्तेन वा शिष्यादिव्यापारणप्रयोगेण वारयेत् । एवं यतनया प्रतिषेधकत्वे कृतेऽपि 'शुद्धः' निर्दोषः ॥
अमुमेवार्थमाह
[भा. ५३८१] अभिधारेंतो पासत्यमादिनो तं च जति सुतं अत्थि । जे अ पडिहदोसा, ते कुव्वंतो वि निद्दोसो ॥
वृ- यान् अभिधारयन्नसौ व्रजति ते आचार्या पार्श्वस्थादिदोषदुष्टाः, यच्च श्रुतमसावभिलषति तद् यदि तस्य प्रतिषेधकस्यास्ति, ततो ये प्रतिषेधकत्वं कुर्वतः 'दोषाः ' शिष्यव्यापारणादयस्तान् कुर्वन्नपि निर्दोषस्तदा मन्तव्यः ॥
[ भा. ५३८२] जं पुन सच्चित्ताती, तं तेसिं देति न वि सयं गेहे । बितियऽच्चित्त न पेसे, जावइयं वा असंथरणे ॥
वृ- यत् पुनः सचित्तादिकं प्रतीच्छकेनागच्छता लब्धं तत् 'तेषाम्' अभिधारिताचार्याणां ददाति न पुनः स्वयं गृह्णाति । द्वितीयपदे यद् वस्त्रदिकमचित्तं तद् अशिवादिभि कारणैः स्वयमलभमानो न प्रेषयेदपि अथवा यावदुपयुज्यते तावद् गृहीत्वा शेषं तेषां समीपे प्रेषयेत् । असंस्तरणे वा सर्वमपि गृह्णीयात् । सचित्तमप्यमुना कारणेन न प्रेषयेत् ॥
[भा. ५३८३]
नाऊण य वोच्छेयं, पुव्वगए कालियानुओगे य । सयमेव दिसाबंधं, करेज्ज तेसिं न पेसेज्जा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org