SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ४, मूलं - १२५, [भा. ५३८३ ] वृ- यस्तेन शैक्ष आनीतः स परममेधावी, तस्य च गच्छे नास्ति कोऽप्याचार्यपदयोग्यः, यच्च तस्य पूर्वगतं कालिकश्रुतं वा समस्ति तस्यापरो ग्रहीता न प्राप्यते, ततस्तयोर्व्यवच्छेदं ज्ञात्वा स्वयमेव तस्यात्मीयं दिग्बन्धं कुर्यात्, न 'तेषां' प्रागभिधारितानां पार्श्वे प्रेषयेत् ।। अथ पर्षद्वतो अपवादमाह [भा. ५३८४ ] असहातो परिसिल्लत्तणं पि कुज्जा उ मंदधम्मेसू । पप्प व काल - ऽद्धाणे, सच्चित्तादी वि गेहेज्जा | २०७ वृ- ‘असहायः' एकाकी स आचार्यस्ततः संविग्नमसंविग्नं वा सहायं गृह्णीयात् । शिष्या वा मन्दधर्माण गुरूणां व्यापारं न वहन्ति ततो यं वा तं वा सहयं गृह्णानः पर्षद्वत्त्वमपि कुर्यात् । श्राद्धा वा मन्दधर्माणो न वस्त्र पात्रादि प्रयच्छन्ति ततो लब्धिसम्पन्नं शिष्यं यं वा तं वा परिगृह्णीयात् । दुर्भिक्षादिकं वा कालमध्वानं वा प्राप्य ये उपग्रहकारिणः शिष्यास्तान् सङ्ग ह्वीयात् । एवं पर्षद्वत्त्वं कुर्वन् प्रतीच्छकस्य सचित्तादिकं तत्र प्रेषयेत्, पूर्वोक्तकारणे वा सञ्जाते स्वयमपि गृह्णीयात् ॥ अथ योऽसौ प्रतीच्छको गच्छति तस्यापवादमाह [ भा. ५३८५ ] कालगयं सोऊणं, असिवादी तत्थ अंतरा वा वि । परिसेल्लय पडिसेहं, सुद्धो अन्नं व विसमाणो ।। वृ- यमाचार्यमभिधार्य व्रजति तं कालगतं श्रुत्वा, यद्वा यत्र गन्तुकामस्तत्र अन्तरा वा अशिवादीनि श्रुत्वा पर्षद्वतः प्रतिषेधकस्य वा अन्यस्य वा पार्श्वे प्रविशन् शुद्धः । एतद् अविशेषितमुक्तम् । अथात्रैवाऽऽभाव्याऽनाभाव्यविशेषं बिभणिषुराह [भा. ५३८६ ] वच्चंतो वि य दुविहो, वत्तमवत्तस्स मग्गणा होति । वत्तम्मि खेत्तवज्जं, अव्वत्ते अणप्पिओ जाव ॥ वृ-यः प्रतीच्छको व्रजति सोऽपिच द्विविधः व्यक्तोऽव्यक्तश्च । तयोः सहायः किं दातव्यो ? नवा ? इति मार्गणा कर्तव्या । तत्र व्यक्तस्य यः सचित्तादिलाभः 'क्षेत्रवर्जं' परक्षेत्रं मुक्त्वा भवति स सर्वोऽप्यभिधारिताचार्यस्याभवति । यः पुनरव्यक्तः स सहायैर्यावदद्यापि तस्याचार्यस्यापिंतो न भवति तावत् परक्षेत्रं मुक्त्वा यत् ते सहाया लभन्ते तत् पूर्वाचार्यस्यैवाभवति इति सङ्ग्रहगाथासमासार्थः ॥ अथैनामेव विवृणोति [भा. ५३८७ ] सुतअव्वत्तो अगीतो, वएण जो सोलसण्ह आरेणं । तव्विवरीओ वत्तो, वत्तमवत्ते य चउभंगो ।। वृ- अव्यक्तो द्विधा - श्रुतेन वयसा च । तत्र श्रुतेनाव्यक्तोऽगीतार्थ, वयसाऽव्यक्तस्तु षोडशानां वर्षाणामर्वाग् वर्तमानः, तद्विपरीतो व्यक्त उच्यते । अत्र च व्यक्ता -ऽव्यक्ताभ्यां चतुर्भङ्गी भवति श्रुतेनाप्यव्यक्तो वयसाऽप्यव्यक्तः १ श्रुतेनाव्यक्तो वयसा व्यक्तः २ श्रुतेन व्यक्तो वयसाऽव्यक्तः ३ श्रुतेन व्यक्तो वयसाऽपि व्यक्तः ४ ॥ अस्य च सहायाः किं दीयन्ते ? उतन दीयन्ते ? इत्याह [भा. ५३८८] वत्तस्स वि दायव्वा, पहुप्पमाणा सहाय किमु इयरे । खेत्तविवज्रं अच्चंतिएस जं लब्भति पुरिल्ले ॥ वृ- आचार्येण पूर्यमाणेषु साधुषु व्यक्तस्यापि सहाया दातव्याः किं पुनः 'इतरस्य' अव्यक्तस्य?, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy