________________
२०८
बृहत्कल्प-छेदसूत्रम् -३-४/१२५ तस्य सुतरांदातव्या इतिभावः । तेचसहाया द्विधा-आत्यन्तिकाअनात्यन्तिकाश्च आत्यन्तिका नाम-ये तेन सार्द्ध तत्रैवासितुकामाः, ये तु तं तत्र मुक्त्वा प्रतिनिवर्तिष्यन्ते ते अनात्यन्तिकाः । तत्रात्यन्तिकेषुसहायेषुय व्यक्तः क्षेत्रविवर्ज' परक्षेत्रंमुक्त्वा सचित्तादिकं लभतेतत् "पुरिल्ले" त्ति यस्याऽऽचार्यस्याभिमुखं व्रजति स पुरोवर्ती भण्यते, अभिधारित इत्यर्थः, तस्य सर्वमपि सचित्तादिकमाभवति । परक्षेत्रे तु लब्धं क्षेत्रिकस्याभाव्यम् ।। [भा.५३८९] जइ नेउं एतुमना, जंते मग्गिल्ले वत्ति पुरिमस्स।
नियमऽव्वत्त सहाया, नेतु नियत्तंति जंसो य॥ . वृ-अथ ते सहायास्तं तत्र नीत्वा आगन्तुकामाः, अनात्यन्तिका इत्यर्थः, ततो यत् ते सहाया लभन्ते तत् सर्वमपि “मग्गिल्ले"त्ति यस्य सकाशत् प्रस्थिताः तस्यात्मीयस्याचार्यस्याभवति । "वत्तिपुरिमस्स"ततियत्पुनः सव्यक्तः स्वयमुत्पादयतितत् 'पुरिमस्य' अभिधारितस्याभवति। यःपुनरव्यक्तस्तस्य नियमेनैव सहाया दीयन्ते, तेच सहाया यदि आत्यन्तिकास्तदा यद् असौ ते च लभन्ते तद्अभिधारितस्याभाव्यम् । अथ तंतत्र नीत्वा निवर्तन्ते ततो यद् असौ तेच परक्षेत्रं मुक्त्वा लभन्ते तत् सर्वं पूर्वाचार्यस्याभवति यावद् अद्याऽप्यसौ नार्पितो भवति । [भा.५३९०] बितियं अपहुच्चंते, न देज्ज वा तस्स सो सहाएतु।
वइगादिअपडिबझंतगस्स उवही विसुद्धो उ॥ वृ-द्वितीयपदमत्र भवति-अपूर्यमाणेषु साधुषु सहायान् साधून् तस्याचार्यो न दद्यादपि । स चात्मना श्रुतेन वयसा च व्यक्तः, तस्य च वजिकादावप्रतिबध्यमानस्योपधिर्विशुद्धो भवति, नोपहन्यते। अथ व्रजिकादिषु प्रतिबध्यते तत उपधेरुपघातो भवति॥ [भा.५३९१] एगे तू वचंते, उग्गहवजंतुलभति सच्चित्तं।
वच्चंत गिलाणे अंतरातु तहि मग्गणा होइ॥ वृ-यो व्यक्त एकाकी व्रजति स यदि अन्यस्याचार्यस्य योऽवग्रहस्तद्वर्जितेऽनवग्रहक्षेत्रे यत् किञ्चिद् लभते तत् सचित्तमभिधार्यमाणस्याभवति । “वचंत" इत्यादि, योऽसौ ज्ञानार्थं व्रजति स द्वौ त्रीन् वाऽऽचार्यान् कदाचिद् अभिधारयेत् तेषां मध्ये यो मे अभिरोचिष्यत तस्यान्तिके उपसम्पदंग्रहीष्यामि' इति कृत्वा ।सचान्तराग्लानो जातः, तैश्चाचार्यश्रुतम्, यथा-अस्मानभिधार्य साधुरागच्छन् पथिग्लानो जात इति; तत्रेयमाभाव्या-ऽनाभाव्यमार्गणा भवति॥ [मा.५३९२] आयरिय दोनिआगत, एक्के एक्के वऽनागए गुरुगा।
न य लभती सच्चित्तं, कालगते विप्परिणए वा॥ वृ- यदि तौ द्वावपि आचार्यावगातौ ततो यत् तेन लब्धं तद् उभयोरपि साधारणम् । अथैकस्तयोरागतः “एकश्च' द्वितीयो नागतः ततोऽनागतस्य चतुर्गुरु, यच्च सचित्तमचित्तं वा तदसौनलभते, यस्तंगवेषयितुमागतस्तस्य सर्वमाभवति।एवंत्र्यादिसङ्ख्याकेष्वाचार्येष्वभिधारितेषु भावनीयम् । अथासौ ग्लानः कालगतस्तदाऽपि यो गवेषयितुमागच्छति तस्यैवाभवति, नेतरेवाम् । अथासौ विपरिणतस्ततो यस्य विपरिणतः स न लभते । यत् पुनः सचित्तादिकमभिधार्यमाणे लब्धपश्चा विपरिणतस्ततो यदविपरिणते भावे लब्धंतद् लभते, विपरिणते भावे लब्धं न लभते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org