________________
___
१८१
उद्देशकः ४, मूलं-१२०, [भा. ५२६१]
. जोव्वण तरुणी पेल्लण, भगिनी सारक्खणा वीसुं॥ [भा.५२६२] सोचेव यपडियरणे, गमतो जुवतिजन वारण परिना।
कालगतो त्ति समोहतो, उज्झण गणिया पुरिसवेसी॥ वृ-क्वापि विपुलकुले समुद्भूतंभगिनीद्वयंप्रव्रजितम्।ततः कुलवंशस्तथैवसर्वोऽपिप्रक्षीणः। नवरमेकः कल्पस्थकोजीवति। ततः संज्ञातकदर्शनायागतेनतेनार्यिकाद्वयेन किढिका-स्थविरा मातेत्यर्थः तत्प्रभृतिकुटुम्बस्य कालकरणं श्रुतम् । सचकल्पस्थकः प्रव्राज्य गुरूणांदत्तः। यौवनं च प्राप्तोऽसावतीव रूपवान् समजनि, ततस्तरुणीभिः प्रेर्यते । ततो गुरूणामाज्ञया ते भगिन्यौ विष्वगुपाश्रये नीत्वा संरक्षितवत्यौ ॥ कथम् ? इत्याह-स एव 'प्रतिचणे' रक्षणे गमो भवति यः सुकुमारिकायाउक्तः एवं युवतिजनवारणे क्रियमाणेतस्य भगिनीदुःखंतथाविधं दृष्ट्वा भक्तपरिज्ञा। ततः समवहतः कालगत इतिविज्ञाय उज्झन परिष्ठापनम्।तस्य च स्त्रस्पर्शेन समाश्वासितस्य पुनश्चैतन्ये सजाते पुरुषद्वेषिण्यागणिकया ग्रहणम्। ततस्तस्याः पति सञ्जातः।कियत्यपि काले गते समागताभ्यां भगिनीभ्यां प्रत्यभिज्ञाय भूयः प्रव्राजित इति॥
मू. (१२१) नो कप्पइ निग्गंथाण वा निग्गंथीण वा असनं वा पानं वा खाइमं वा साइमं वा पढमाए पोरिसीए पडिग्गाहित्ता पच्छिमं पोरिसिं उवाइणावित्तए । से य आहच्च उवाइणाविए सिया तं नो अप्पणा भुंजिज्जा, नो अन्नेसिं अनुप्पएज्जा, एगंते बहुफासुए थंडिले पडिलेहित्ता पमज्जिता परिट्टवेयव्वे सिया । तं अप्पणा भुंजमाणे अन्नेसिं वा दलमाणे आवजइ चाउम्मासियं परिहारट्ठाणं उग्धाइयं॥
मू. (१२२) नो कप्पइ निग्गंथाण वा २ असनं वापरं अद्धजोयणमेराए उवायणावित्तए। सेय आहच्च उवाइणाविए सिया तंनोअप्पणा भुंजिजा जाव आवजइ चाउम्मासियंपरिहारहाणं उग्घाइयं॥
वृ-अस्य सूत्रद्वयस्य सम्बन्धमाह[भा.५२६३] भावस्स उ अतियारो, मा होज इती तु पत्थुते सुत्ते।
कालस्स य खेत्तस्स य, दुवे उ सुत्ता अनतियारे ।। वृ-'भावस्य' ब्रह्मव्रतपरिणामस्य 'अतिचारः' अतिक्रमो मा भूदिति अनन्तरप्रस्तुते सूत्रे प्रतिपादिते।अथ कालस्य च क्षेत्रस्य चातिचारः-अतिक्रमो मा भूदिति द्वे सूत्रे प्रारभ्येते॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानांवा निर्ग्रन्थीनांवा अशनं वा पानं वाखादिमं वा स्वादिमंवा प्रथमायां पौरुष्यांप्रतिगृह्य पश्चिमांपौरुषी “उवाइणावित्तए"त्ति उपानाययितुं' सम्प्रापयितुमिति।तच “आहच्च"कदाचिद्उपानायितं स्यात्ततः तद्' अशनादिकंनाऽऽत्मना भुञ्जीत न वा अन्येषां साधूनामनुप्रदद्यात् । किं पुनस्तर्हि विधेयम् ? इत्याह-एकान्ते बहुप्राशुके स्थण्डिले प्रत्युपेक्ष्यचक्षुषा प्रमृज्यरजोहरणेनपरिष्ठापयितव्यं स्यात्।तद् आत्मना भुआनोऽन्येषां वा ददान आपद्यतेचातुर्मासिकंपरिहारस्थानमुद्धातिकम्॥एवं क्षेत्रातिक्रान्तसूत्रमपि वक्तव्यम्। नवरम्-अर्द्धयोजनलक्षणाया मर्यादाया अतिक्रामयितुमशनादिकंन कल्पते। स्यात्तदुपानायितं भवेत् ततो यः स्वयं तद् भुङ्क्तेऽन्येषां वा ददाति तस्य चतुर्लघुकमिति सूत्रद्वयार्थः॥ - अथ नियुक्तिविस्तरः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org