________________
-
१८२
बृहत्कल्प-छेदसूत्रम् -३-४/१२२ [भा.५२६४] बितियाउ पढम पुट्विं, उवातिणे चउगुरुंच आणादी।
दोसा संचय संसत्त दीह साणे य गोणे य॥ वृ-आस्तां तावत् पश्चिमाचतुर्थी पौरुषी किन्तु द्वितीयायाः पौरुष्याः प्रथमाऽपिपूर्वाभण्यते प्रथमायाश्च द्वितीया पाश्चात्या, एवं तृतीयाया द्वितीया पूर्वा द्वितीयायास्तृतीया पाश्चात्या, चतुस्तृितीया पूर्वा तृतीयस्याश्चतुर्थी पश्चिमा । ततः प्रथमायाः पौरुष्या द्वितीयायामशनादिकमतिक्रामयतश्चतुर्गुरुकम्, आज्ञादयश्च दोषाः। तथा सञ्चयो भवति । चिरं चावतिष्ठमानं तदशनादिकंप्राणिभिसंसक्तंभवति।दीर्घजातयोवाश्वावासमागच्छेत्ततःसद्रवभाजनव्यग्रहस्त उत्थातुमशक्नुवन् ताभ्यांखाद्येत । 'गौः' बलीवर्दस्तेन वा हन्येत । अत्राऽऽत्मविराधनानिष्पन्नं चतुर्गुरु।तद्भयेन च इतस्ततःस्दमानो भाजनं भिन्द्यात्तत्रचतुर्लघु।तेन चविनायापरिहाणिस्तनिष्पन्नम् । अथैतेषां भयानिक्षिपति ततश्चतुर्लघु ॥ [भा.५२६५] अगनि गिलाणुचारे, अब्मुट्ठाणे य पाहुण निरोधे।
. सज्झायविणय काइय, पयलंत पलोट्टणे पाना॥ - “अगनि" त्ति अग्नावुत्थिते भाजनमारव्यापृत्वेनानिर्गच्छन् दह्येत, तत्प्रतिबन्धेन वा उपधेर्दाहो भवेत् तत्रोपधिनिष्पन्न प्रायश्चित्तम् । ग्लानस्य वैयावृत्यमुद्वर्तनादिकं भारव्यापृतोन करोति, अक्रियमाणे परितापनादिकंस प्राप्नुयात् तनिष्पनं चतुर्लघुकादि पाराञ्चिकान्तम्, अथ निक्षिप्य करोति ततो मासलघु । तेन परिगृहीतेनोच्चारं व्युत्स्रष्टु न शक्नोति ततो धारयतो ग्लानत्वारोपणा, अथ गृहीतेन व्युत्सृजति तत उड्डाहः । गुरूणां प्राघुणकस्य चाऽभ्युत्थानं न करोति चतुर्लघु, अथ करोति ततो भाजनभेदादयो दोषाः । मृतभाजनधारणे गात्रनिरोधेनासभाधिर्भवेत् । तथास्वाध्यायंन प्रस्थापयति।आचार्यादीनांपादप्रक्षालनादिकं विनयंन करोति । कायिकीं न व्युत्सृजति, गृहीतेन वा व्युत्सृजति । प्रचलायमानस्य वा भाजनं प्रलुठेत्, तस्य च प्रलोठने पानकादिना प्लाव्यमानाः प्राणिनो विपद्यन्ते ॥
अथामूनेव सञ्चयादिदोषान् व्याचष्टे[भा.५२६६] निस्संचयाउ समणा, संचयितु गिहीव होतिधारेंता।
संते अनुवभोगो, दुक्खं च विगिंचिउं होति ।। वृ-निस्सञ्चयाः श्रमणा उच्यन्ते, ततो यदितेऽपिगृहीत्वाधारयन्ति तदा गृहिण इवसञ्चयिनो भवन्ति । चिरं चावतिष्ठमानं तद् भक्त-पानं संसज्येत । संक्तं च साधूनामुपबोक्तुंन कल्पते, 'विवेक्तुं च' परिष्ठापयितुं तद् दुःखं भवति, यतस्तत्र परिष्ठाप्यमाने यैः प्राणिमि संसक्तं ते विनाशमश्नुवते॥ [भा.५२६७] एमेव सेसएसु वि, एगतर विराधना उभयतो वि।
असमाधि विनयहानी, तप्पञ्चयनिजराए य॥ वृ-एवमेव शेष्वपि' दीर्घादिषु द्वारेषुभावना कर्तव्या, साचप्रागेवकृता।तथा 'एकतरस्य' साधो जनस्यवा विराधनआ धईरअघजातीयदिषु भवति । उभयम्-आत्मा संयमश्चेति द्वयं तस्यविराधनाउभयविराधना। “असमाहि" तिअग्निनादह्यमानस्यासमाधिमरणंभारेणाक्रान्तस्य वा असमाधि-दुःखेनावस्थानं भवेत् । गुरुप्रभृतीनां च विनयहानि कुर्वतस्तप्रत्ययनिर्जराया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org