________________
उद्देश : ४, मूलं - ११२, [भा. ५०८४ ]
१४५
गणे तावदास्ते यावदेकोऽपि गीतार्थो निष्पन्नः, पश्चात् तस्याऽऽत्मीया इच्छा, तत्र वा तिष्ठति पूर्वेषां वा सकाशे गच्छति । यस्तु निष्कारणेऽपहृतः स एकस्मिन् निर्माते नियमात् पूर्वेषामन्तिके गच्छति, न तस्याऽऽत्मीयेच्छेति भावः ।। गतं शैक्षद्वारम् । अथाऽऽहारविधिमाह
[भा. ५०८५ ] ठवणाघरम्मि लहुगो, मादी गुरुगो अनुग्गहे लहुगा । अप्पत्तियम्मि गुरुगा, वोच्छेद पसजणा सेसे ॥
वृ-दानश्राद्धादिकुलं स्थापनागृहं भण्यते, तस्मिन् य आचार्यै असन्दिष्टः अननुज्ञातो वा प्रविशति तस्य मासलघु । अथवा 'प्राघूर्णक-ग्लानार्थमहमिहाऽऽयातः' इति तेषां श्राद्धानां पुरतो मायां करोति ततो मायिनो मासगुरुकम् । एवमुक्ते यदि ते श्राद्धाः 'अनुग्रहोऽयम्' इति मन्यन्ते तदा चतुर्लघु । अथाप्रीतिकं कुर्वन्ति ततश्चतुर्गुरवः, यच्च तद्रव्यवच्छेदादिशेषदोषाणां 'प्रसजना' प्रसङ्गस्तन्निष्पन्नं प्रायश्चित्तम् ॥ इदमेव व्याचष्टे
[भा. ५०८६]
अज अहं संदिट्ठो, पुट्ठोऽपुट्ठो व साहती एवं । पाहुणग- गिलाणट्टा, तं च पलोट्टेति तो बितियं ॥
वृ- कश्चिदाचार्यैरसन्दिष्टः स्थापनाकुलेषु प्रविश्य पृष्टोऽपृष्टो वा इदं भणति - अद्याहं गुरुभिः 'सन्दिष्टः' प्रेषित इति, ततो मासलघु । यदि च पूर्वं सन्दिष्टः सङ्घाटकः प्रविष्ट आसीत् श्राद्धैश्च तस्यासन्दिष्टस्याग्रे इदं भणितं भवेत् सन्दिष्टसङ्घाटकस्य दत्तमिति; ततो ब्रूयात् प्राघूर्णकार्थं ग्लानार्थं वा साम्प्रतमहमागत इति, एवं 'तं' श्राद्धजनं मायया यदि प्रलोटयति प्राघूर्णकार्थं ग्लानार्थं वा साम्प्रतमहमागत इति, एवं 'तं' श्राद्धजनं मायया यदि प्रलोटयति ततो 'द्वितीयं' मासगुरु ॥
ते च श्राद्धा विपरिणमेयुः, विपरिणताश्चाऽऽचार्यादीनां प्रायोग्यं न दद्युः ततः शुद्धं शुद्धेनाप्येतत् प्रायश्चित्तम्
[भा. ५०८७] आयरि-गिलाण गुरुगा, लहुगा य हवंति खमग पाहुणए । गुरुगो य बाल- वुड्डे, सेसे सव्वेसु मासलहुँ ।
वृ- आचार्यस्य ग्लानस्य च प्रायोग्यमददानेषु श्राद्धेषु चतुर्गुरवः । क्षपकस्य प्राघुणकस्य च योग्यमददानेषु चतुर्लघवः । बालृवृद्धानां योग्येऽलभ्यमाने गुरुमासः । 'शेषाणाम्' एतद्व्यति रिक्तानां सर्वेषामपि प्रायोग्येऽलभ्यमाने मासलघु ।। गतं साधर्मिकस्तैन्यम् ।
अथाऽन्यधार्मिकस्तैन्यमाह
[ भा. ५०८८] परधम्मिया वि दुविहा, लिंगपविट्ठा तहा गिहत्था य । तेसिं तिनं तिविहं, आहारे उवधि सच्चित्ते ॥
वृ-परधार्मिका अन्यधार्मिका इत्येकोऽर्थः । तेच द्विविधाः लिङ्गप्रविष्टा गृहस्थाश्च । 'लिङ्गप्रविष्टाः ' शाक्यादयः, 'गृहस्थाः' प्रतीताः । 'तेषाम्' उभयेषामपि स्तैन्यं त्रिविधम्-आहारविषयमुपधिविषयं सचित्तविषयं चेति ॥ तत्राऽऽहारविषयं तावदाह
[ भा. ५०८९ ] भिक्खूण संखडीए, विकरणरूवेण भुंजती लुद्धो । आभोगण उद्धंसण, पवयणहीला दुरप्प त्ती ॥
वृ
- भिक्षवः- बौद्धास्तेषां सङ्खड्यां कश्चिद् लुब्धो "विकरणरूवेण" लिङ्गविवेकेन भुङ्क्ते,
20 10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org