________________
१४६
बृहत्कल्प-छेदसूत्रम् -३-४/११३ तदीयं लिङ्गं कृत्वेति भावः । एवं भुनानं यदि कोऽपि आभोगयति' उपलक्षयति तदा चतुर्लघवः । एवमुपलक्ष्य यद्यसौ 'उद्धर्षणं' निर्भर्त्सनं करोति ततश्चतुर्गुरुकाः। प्रवचनहीलां वा ते कुर्युः, यथा-दुरात्मानोऽमी भोजननिमित्तमेव प्रव्रजिता इति ॥ अपि च[मा.५०९०] गिहवासे वि वरागा, धुवं खुएते अदिट्ठकल्लाणा।
गलतो नवरिन वलितो, एएसिं सत्थुणा चेव ॥ वृ-गृहवासेऽप्येते वराकाः 'ध्रुवं' निश्चितमेव अष्टकल्याणाः, एतेषां च 'शाखा' तीर्थकृता दुश्चरतरामाहारशुध्धादिचर्यामुपदिशता गलक एव नवरं न वलितः, शेषं तु सर्वमपि कृतमिति भावः ॥गतमाहारविषयं स्तैन्यम् । अथोपधिविषयमाह[भा.५०९१] उवस्सए उवहि ठवेतुं, गतम्मि भिच्छुम्मि गिण्हती लहुगा।
गेण्हण कड्डण ववहार पच्छकडुड्डाह निव्विसए॥ कृ-'उपाश्रये मठे उपधिम् उपकरणंस्थापयित्वा कश्चिभिक्षुकः-बौद्धो भिक्षांगतः, तस्मिन् गते यदि तदीयमुपधिं गृह्णाति तदा चतुर्लघवः । स भिक्षुकः समायातः स्वकीयमुपकरणंस्तेनितं मत्वा तस्य संयतस्य ग्रहणं करोति चतुर्गुरवः । राजकुलाभिमुखमाकर्षति षड्गुरवः । व्यवहारं कारयितुमारब्धेच्छेदः । पश्चात्कृते मूलम् । उड्डहनेऽनवस्थाप्यम्। निर्विषयाज्ञापने पाराञ्चिकम्। अथ सचित्तविषयंस्तैन्यमाह[मा.५०९२] सच्चित्ते खुड्डादी, चउरो गुरुगा यदोस आणादी।
गेण्हण कहण ववहार पच्छकडुड्डाह निव्विसए। कृ-सचित्तस्तैन्ये चिन्त्यमानेभिक्षुकादेः सम्बन्धिनं क्षुल्लकम्आदिशब्दाद्अक्षुल्लकंवायद्यपहरति तदा चत्वारो गुरुकाः आज्ञादयश्च दोषाः । ग्रहणा-ऽऽकर्षण-व्यवहार-पश्चात्कृतोड्डाहनिविषयाज्ञापनादयश्च दोषाः प्राग्वमन्तव्याः।। अथैतेष्वेव प्रायश्चित्तमाह[भा.५०९३] गेहणे गुरुगा छम्मास कड्डणे छेओ होइ ववहारे ।
पच्छाकडम्मि मूलं, उड्डहण विरंगणे नवमं ॥ [भा.५०९४] उद्दावण निविसए, एगमनेगे पदोस पारंची।
अणवठ्ठप्पो दोसु य, दोसु उ पारंचितो होइ॥ वृ-गाथाद्वयं गतार्थम् ॥ [भा.५०९५] खुकुंव खुड्डियं वा, नेति अवत्तं अपुच्छियं तेने ।
वत्तम्मि नत्थि पुच्छा, खेत्तं थामंच नाऊणं॥ वृक्षुल्लको वाक्षुल्लिका वायोऽद्यापि अव्यक्तः स यस्य शाक्यादेः सम्बन्धी तमपृष्टवा यदितं क्षुल्लकं क्षुल्लिका वा नयति ततः ‘स्तेनः' अन्यधार्मिकस्तैन्यकारी स मन्तव्यः, चतुर्गुरुकं च तस्य प्रायश्चित्तम् । यस्तु व्यक्तस्तत्र नास्ति पृच्छा, तामन्तरेणापिस प्रव्राजनीयः । किं सर्वथैव ? उत न? इत्याशङ्कयाऽऽह-क्षेत्रंस्थामच ज्ञात्वा । किमुक्तं भवति? -यदि विवक्षित क्षेत्रंशाक्यादिभावितं राजवल्लभतादिकंवातेषांतत्रबलं तदा पृच्छामन्तरेण व्यक्तोऽपिप्रव्राजयितुंन कल्पते, अन्यथा तु कल्पत इति ॥ एवंतावल्लिङ्गप्रविष्टानां स्तैन्यमुक्तम् । अथ गृहस्थानां तदेवाह
[भा.५०९६] एमेव होति तेत्रं, तिविहं गारत्थियाण जं वुत्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org