SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ४, मूलं - ११२, [भा. ५०९६] १४७ गहणादिगा य दोसा, सविसेसतरा भवे तेसु ॥ वृ- एवमेवागारस्थानामपि 'त्रिविधम् ' आहारादिभेदात् त्रिप्रकारं स्तैन्यं भवति यदनन्तरमेव परतीर्थिकानामुक्तम् । 'तेषु च ' गृहस्थेषु आहारादिकं स्तेनयतां ग्रहणादयो दोषाः सविशेषतरा भवेयुः । ते हि राजकुले करादिकं प्रयच्छन्ति, ततस्तद्वलेन समधिकतरान् ग्रहणा-SSकर्षणादीन् कारयेयुः ॥ कथं पुनरमीषामाहारादिकं स्तेनयति ? इति उच्यतेआहारे पिट्ठाती, तंतू खुड्डादिजं भणित पुव्वं । पिडुंडिय कब्बट्ठी, संछुभण पडिग्गहे कुसला ॥ [भा. ५०९७] तत्र वृ- आहारे- पिष्टादिकं बहिर्विरल्लितं दृष्ट्वा क्षुल्लिकाः स्तेनयति । उपधी- "तंतु "त्ति सूत्राटिकाम् उपलक्षणत्वाद् वस्त्रादिकं वाऽपहरति । सचित्ते क्षुल्लकः- बालकस्तम् आदिशब्दाद् अक्षुल्लकं वा स्तेनयति । इत्याह- "पिटुंडि" इत्यादि, काश्चित् क्षुल्लिका भिक्षामटन्त्यः किञ्चिद् गृहं प्रविष्टाः, च बहिः पिष्टं विसारितमास्ते, तच्च दृष्ट्वा तासां मध्यादेका कल्पस्थिका पिष्टपिण्डिकां गृहीत्वा पतद्ग्रहे प्रक्षिप्तवती, सा चाविरतिकया दृष्टा ततो भणितम्-एनां पिष्टपिण्डिकां गृहीत्वा पतद्रहे प्रक्षिप्तवती, सा चाविरतिकया दृष्टा ततो भणितम्-एनां पिष्टपिण्डिकामत्रैव स्थापयत; ततस्तया क्षुल्लिकया कुशलत्वेनान्यस्याः सङ्घाटिकाया अन्तरे प्रक्षिप्ता । एवं सूत्राटिकामपि दक्षत्वेनापरेत्॥ अथ सचित्तविषयं विधिमाह [भा. ५०९९] अपरिग्गहा उ नारी, न भवति तो सा न कप्पति अदिन्ना । सा वि यहु काय कप्पति, जह पउमा खुड्डुमाता वा ॥ वृ- 'नारी' स्त्री सा प्रायेणापरिग्रहा न भवति, पितृ-पतिप्रभृतीनामन्यतरेण परिगृहीता भवतीति भावः । उक्तं च पिता रक्षति कौमारे, भर्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्र स्वातन्त्रयमर्हती ॥ ततो नासावदत्ता सती कल्पते प्रव्राजयितुम् । साऽपि च कचिददत्ताऽपि कल्पते, यथा पद्मावतीदेवी करकण्डुमाता प्रव्राजिता, यथा वा क्षुल्लककुमारमाता योगसङ्ग्रहाभिहिता यशोभद्रा नाम्नी प्रव्राजिता ॥ अथ द्वितीयपदमाह [भा. ५१०० ] बिइयपदं आहारे, अद्धाणे हंसमादिणो उवही । उवउज्जिऊण पुव्विं, होहिंति जुगप्पहाण त्ति ॥ वृ-द्वितीयपदमाहारादिषु त्रिष्वपि अभिधीयते तत्राऽऽहारेऽध्वानं प्रवेष्टुकामास्ततो वा उत्तीर्णा उफलक्षणत्वाद् अशिवादौ वा वर्तमाना असंस्तरणे अदत्तमपि भक्त - पानं गृह्णीयुः । आगाढे कारणे उपधिमपि हंसादेः सम्बन्धिना प्रयोगेणोत्पादयेत् । सचित्तविषयेऽपि 'भविष्यन्त्यमी युगप्रधानाः' इत्यादिकं पुष्टालम्बनं 'पूर्वं' प्रथममेव 'उपयुज्य' परिभाव्य गृहस्थक्षुल्लकान् अन्यतीर्थिकक्षुल्लकान् वा हरेत् ।। इदमेव भावयति [भा.५१०१] असिवं ओम विहं वा, पविसिउकामा ततो व उत्तिन्ना । थलि लिंगि अन्नतित्थिग, जातितु अदिन्ने गिण्हंति ॥ वृ- अशिवगृहीते विषये स्वयं वा साधवोऽशिवगृहीता भक्त-पानलाभाभावान्न संस्तरेयुः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy