________________
बृहत्कल्प-छेदसूत्रम् -३-४/११३ अवमंदुर्भिक्षं तत्र वा भक्त-पानं न लभेरन्, 'विहम्' अध्वानं वा प्रवेष्टुकामास्ततो वा उत्तीर्णा न संस्तरेयुः, ततः स्वलिङ्गिनां या स्थलिका देवद्रोणी तस्यां याचन्ते, यदि ते न प्रयच्छन्ति तदा बलादपि गृह्णन्ति । अथ बलवन्तस्ते दारुणप्रकृतयो वा ततोऽन्यतीर्थिकानामपि स्थलीषु याच्यते, यदि न प्रयच्छन्ति ततः स्वयमेव प्रकटं प्रच्छन्नं वा गृह्णीयुः । एवं गृहस्थेष्वपि याचितमलभमानाः स्वयमपि गृह्णन्ति । असंस्तरणे उपधिरप्येवमेव स्तैन्यरयोगेण ग्रहीतव्यः ॥ नाऊण य वोच्छेदं, पुव्वगते कालियानुतोगे य । गिहि अन्नतित्थियं वा, हरिज्ज एतेहि हेतूहिं ॥
[ भा. ५१०२]
वृ-पूर्वगते कालिकानुयोगे वा व्यवच्छेदं ज्ञात्वा यो गृहस्थक्षुल्लकोऽन्यतीर्थिकक्षुल्लको वा ग्रहणधारणामेधावी स याचितो यदा न लभ्यते तदा स्वयमपि गृह्णीयात् । 'ऐतैः' एवमादिभिः 'हेतुभिः' कारणैर्गृहस्थमन्यतीर्थिकं वा हरेत् ॥ गतमन्यधार्मिकस्तैन्यम् । अथ 'हत्यादालं दलेमाणे" इत्यादि पाठत्रयं विवरीषुराह
१४८
[ भा. ५१०३ ] हत्थाताले हत्थालंबे, अत्थादाने य होति बोधव्वे । एतेसिं नाणत्तं वोच्छामि अहानुपुवीए ।
वृ-हस्तातालो हस्तालम्बोऽर्थादानं चेति त्रिधा पाठोऽत्र बोद्धव्यः । एतेषां त्रयाणामपि नानात्वं वक्ष्यामि यथाऽऽनुपूर्व्याऽहम् ।। तत्र हस्तातालं तावद् विवृणोति
[भा. ५१०४] उग्गिन्नम्मि य गुरुगो, दंडो पडियम्मि होइ भयणा उ । एवं खु लोइयाणं, लोउत्तरियाण वोच्छामि ॥
वृ- इह हस्तेन उपलक्षणत्वात् खङ्गादिभिश्च यद् आताडनं स हस्तातालः । स च द्विधा - लौकिको लोकोत्तरिकश्च । तत्र लौकिके हस्ताताले पुरुषवधाय खड्गादावुद्गीर्णे 'गुरुकः' रूपकाणामशीतिसहस्रलक्षणो दण्डो भवति । पतिते तु प्रहारे यदि कथमपि न मृतस्तदा 'भजना' देशे देशेऽपरापरदण्डलक्षणा भवति । अथ मृतस्तदा तदेवाशीतिसहस्र दण्डः । एवं 'खुः' अवधारणे, लौकिकानां दण्डो भवति । लोकोत्तरिकाणां तु दण्डमतः परं वक्ष्यामि ॥
[ भा. ५१०५ ] हत्थेण व पादेण व, अणवटुप्पो उ होति उग्गिन्ने ।
पडियम्मि होति भयणा, उद्दवणे होति चरिमपदं ॥
वृ-हस्तेन वा पादेन वा उपलक्षणत्वाद् यष्टि-मुष्टयादिना वा यः साधुः स्वपक्षस्य परपक्षस्य वा प्रहारमुद्गिरति सोऽनवस्थाप्यो भवति । पतिते तु प्रहारे भजना, यदि न मृतस्ततोऽनवस्थाप्य एव, अथापद्राणः मृतः तदा 'चरमपदं' पाराञ्चिकं भवति ।। अत्रेदं द्वितीयपदम्
[ भा. ५१०६ ] आयरिय विनयगाहण कारणजाते व बोधिकादीसु । करणं वा पडिमाए, तत्थ तु भेदो पसमणं च ॥
वृ- आचार्य क्षुल्लकस्य विनयग्राहणं कुर्वन् हस्तातालमपि दद्यात् । 'कारणजाते वा' गुरुगच्छप्रभृतीनामात्यन्तिके विनाशे प्राप्ते बोधिकस्तेनादिष्वपि हस्तातालं प्रयुञ्जीत । पश्चार्द्धेन हस्तालम्बमाह-‘“करणं वा’” इत्यादि, अशिव-पुररोधादौ तठप्रशमनार्थं 'प्रतिमां' पुत्तलकं करोति, तत अभिचारुकमन्त्रं परिजपन् 'तत्रैव' प्रतिमायां भेदं करोति, ततस्तस्योपद्रवस्य प्रशमनं भवति ।। एषा नियुक्तिगाथा अत एनां विवृणोति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org